SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ __ भावप्रत्ययार्थनिर्णयः। ३५१ तशक्तिकेभ्यस्तथैव बोधः। तथाच शब्दोऽपि त्वप्रत्ययार्थ इति प्रपश्चितं भूषणे ॥५१॥ __इति वैयाकरणभूषणसारे त्वादिभावप्रत्ययार्थविचारः॥॥ दर्पणः शक्त्यंशे भाने उपस्थितत्वानलादिपदानामपि तदर्थे भानमविरुद्धम् । इदमेतच्छक्य. मित्याकारकार्थशक्तिग्रह एव विशेषरूपेणोपस्थितेस्तन्त्रत्वादिति भावः । तथैव बोध इति* ॥ पदवाच्यत्वप्रकारक एवेत्यर्थः । एवकारेण जात्यादिप्रकारकबोधव्यवच्छेदः । इदञ्च कश्चिदर्थो नलादिपदशक्योऽर्थत्वादित्यानुमानिकशक्तिग्रहाभिप्रायेण । उक्तोपनीतपदशक्तिग्रहे त्वर्थविशेष्यकबोधानुपपत्तिरेव । शक्तिज्ञानपदार्थोपस्थिति. शाब्दबोधानां समानप्रकारकत्वनियमादित्यवधेयम् । __नैयायिकास्तु-नलादिपदानामपि विशिष्यशक्तिग्रहो नानुपपन्नः । यत्र नलत्वा. दिसम्बन्धेन यत्किञ्चिद्धर्मवत्वधीस्तद्विषयीभूतनलत्वादेः शक्तिग्रहे धर्मितावच्छेदकतया भाने बाधकाभावात् । यद्वा यत्र प्रमेयत्वेन प्रमेयवानित्याकारा नलत्वादिविशिष्टबुद्धिः, ततश्च प्रमेयत्वांशे मोषदशायां स्वरूपतो नलत्वादिप्रकारकनलविशेष्यकस्मरणे बोधकाऽभावात्तद्विषयनलत्वादिना विशिष्य नलादौ नलादिपदशक्तिग्रहेण तत्तद्रूपेण नलादि. पदान्नलादिबोधस्य सुलभत्वात् । ___ न च प्रमेयत्वांशे मोषकल्पने मानाभावः। अनूभूयमानतत्तद्धर्मप्रकारकशाब्दवो धानुपपत्तेरेव मानत्वात् । कथमन्यथानुभवात्मकसमूहालम्बनादेकपदार्थोद्बोधकाऽस. मवधानेऽन्यपदार्थस्मृतिः । अक्लप्तस्यार्थोऽशे पदविशेषणत्वस्य कल्पनापेक्षया ताश. स्मृतौ प्रमेयत्वांशे मोषकल्पनस्यैव न्याय्यत्वात् । पदस्यार्थधर्मत्वाभावेन तस्य पदांशे विशेषणत्वासम्भवाच्च । तस्य पदस्य तस्मिन् पदे शक्तिरित्यर्थस्य लौकिकत्वेन पदप्रकारकबोधस्य सार्वत्रिकत्वासम्भवाच्चेत्याहुः ॥ ११ ॥ __ इति भूषणसारदर्पणे भावप्रत्ययार्थनिरूपणम् ॥९॥ - परीक्षा दर्शनरूपोद्बोधकदर्शनेन सादृश्यात्कुण्डमात्रस्य स्मृतिर्जन्यत इत्यस्य लोकप्रसि. दत्त्वात। नचैवं सति 'जातिमान् घटपदशक्यः' इति ग्रहानन्तरं स्वरूपतो घटत्वस्य स्मृतिरपि स्यादिति वाच्यम् । उद्बोधकस्य फलबलकल्प्यतया तादृशस्थले मोक्षस्याकल्पनादिति। वस्तुतस्तु-भाष्ये “यस्य गुणस्य भावाद्रव्ये शब्दनिवेशस्तदभिधाने त्वतलो, इति प्रथमत उक्तम् । तत्र गुणशब्दश्चानाश्रयस्य भेदकधर्मस्य बोधकः । तथा च सौत्रात् भावपदम्प्रवृत्तिनिमित्तपरम् । घटत्वमित्यादौ प्रवृत्तिनिमित्तत्वावच्छिन स्त्वाद्यर्थः । षष्टयर्थः-आधेयता। बोधस्तु समभिव्याहाराद्विशेष्यैव । यद्वा-सर्वस्मिन् पक्षे-प्रवृतिः शब्दपरा, प्रवृत्तिनिमित्तं त्वाद्यर्थः । घटस्य भाव इत्यादौ षष्ठयों वाच्यत्वम् । एवञ्चोभयपक्षेऽपि तत्तच्छब्दप्रवृत्तिनिमित्तस्यैव भावप्रत्ययार्थत्वमिति दिक्॥५१॥ इति श्रीभूषणसारटीकायां परीक्षायाम्भावप्रत्ययार्थनिरूपणम ॥en -
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy