SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारेधिष्ठिरवसिष्ठादिशब्देभ्यस्तत्तद्वाच्यः कश्चिदासीदिति शब्दप्रकारकबोधस्य सर्वसिद्धत्वात्। अन्यथा वनौषधिवर्गादेर्नागरिकान् प्रत्य. बोधकत्वापत्तश्च । एवमेवाप्रसिद्धार्थकपदेष्वनुभवः सर्वसिद्धो, न तु घटादिपदेविव ततजात्यादिरूपेण । तथाचोभयमवच्छेदकम् । यस्य तथा शक्तिग्रहस्तस्य जात्यादिरूपेणैवोपस्थितिः। पदप्रकारकः शक्तिग्रहस्तु विशिष्य नापेक्षितः। किन्तु इदं पदं क्वचिच्छक्तं, साधुपदत्वादित्यादिरूप एवापेक्ष्यते इति विशिष्यागृही दर्पणः न्यते । हर्य्यादौ सन्निकर्षाभावेनानुपस्थितहरित्वाद्यवच्छेदेन शक्तिग्रहाभावेन तद्धर्मप्रकारकशाब्दबोधासम्भवादुपस्थितपदस्यैव विशेषणत्वमभ्युपगम्यशाब्दबोध उपपादनीयः । यथाच वृत्त्याद्युपस्थितिस्तथोपपादित नामार्थनिरूपण इति भावः ॥ ___ *अन्यथेति । अर्थोशे शब्दस्य प्रकारत्वानभ्युपगम इत्यर्थः । आरण्यकानां सन्निकर्षेण जातिधर्मितावच्छेदकशक्तिग्रहसम्भवादुक्तम्-*नागरिकानिति । एव. मेवेति । पदप्रकारेणैवेत्यर्थः । *अप्रसिद्धति । अगृहीतजात्यादिविशिष्टशक्तिकपदेष्वित्यर्थः। *जात्यादिभेदेनेति । तद्विशेषेणेत्यर्थः । क्वचितु जात्यादिरूपेणैवेत्येव पाठः । *उभयमिति। जात्यादिरूपं पदं चेत्यर्थः ॥ *अवच्छेदकमिति । शक्त्य. वच्छेदकमित्यर्थः। ___ ननु जात्याद्यनुपस्थितिदशायामयमर्थ एतत्पदवानिति शक्तिग्रहोऽप्यसम्भवदुक्तिकोऽत आह-*पदप्रकारक इति* ॥ विशिष्येति । घटपदत्वादिरूपेणेत्यर्थः । यद्यपि 'सर्वे भावाः' इति सर्वशब्दोपादानादेतत्कल्पे शब्दस्यैव सर्वशब्दप्रवृत्तिनिमित्तत्वमवगम्यते, तथापि घटत्वादिना गृहीतशक्तिकघटादिपदाद् घटत्वप्रकारकबोधस्य सार्वजनीनप्रसिद्धि सिद्धस्यापह्रोतुमशक्यतया प्रायशः प्रसिद्धार्थकस्थले शब्दाप्रकारकबोध. स्याननुभवेन चैतत्कल्पेऽपि जात्यादीनां शब्दप्रवृत्तिनिमित्तत्वमङ्गीकरणीयमेव ।। वात्तिकं तु भावशब्दस्याप्रसिद्धार्थकशब्दपरतया योज्यम् । तत्र निमित्तान्तराभावेन वातिकबलाच्छब्दस्यैव शब्दप्रवृत्तिनिमित्तत्वावधारणात् । यथा कादिपञ्चकशक्त-कुपदे । अत एव "अनुदात्तड्डित” (पा०सू० १।३।१२ ) इति सूत्रेऽनुदात्तङिता द्वावात्मनेपदमित्यस्य "तडानौ द्वावर्थ" इति तत्र “सङ्ख्यातानुदेशः प्राप्नोति" इति यथासङ्ख्यसूत्रे भाष्यकृदुक्तं सङ्गच्छते । अन्यथा नवानां तङर्थत्वेनात्मनेपदवत्त्वेन बोधे सर्वेषामेकत्वेन तत्र च द्वावित्यास्यानुपपत्तिः स्पष्टैव । अत एव सारकृताऽप्युभयमवच्छेदकमित्युपसंहृतम् । क्वचिच्छब्दोऽपीति तदाशय इति । ___ कथं तर्हि तत्र शक्तिग्रहोऽत आह-*किन्त्विति । *क्वचिच्छक्तमिति ॥ किञ्चिनिष्टशक्तिनिरूपकमित्यर्थः । तथाच नृपादिवर्णनप्रस्तावे नृपत्वादिनोपस्थितनलादीनां परीक्षा पत्तिः कार्या। अपि च तदंशेऽप्युद्धोधककल्पनमेव नहि , यद्यत्पदार्थविषयकसंस्कार एकस्तस्मात्सर्वपदार्थविषयिकैव स्मृतिर्जायत इति नियमः। कुण्डवदन बिम्बानीत्यनुभवजन्यसंस्कारस्यैकस्य सदावेऽपि तत्र तत्सदृशान्यपदार्थमात्रस्य
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy