SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ भावप्रत्ययार्थनिर्णयः। ३४९ पाचकादिशब्देभ्यः क्रियायां, घटादिशब्दभ्यो जातौ प्रत्ययः। रूपादिशब्दानां जातिप्रकारकबोधजनकत्वात् । पाचकादिशब्दानां क्रियाप्रकारकबोधजनकत्वे तस्यां प्रत्ययः, संसर्गप्रकारकबोधजनकत्वमिति मते च संसर्गे इति व्यवस्था सूपपादेति भावः। तत्र जातिवाचकानां व्यक्तय एव शक्यतावच्छेदिकाः। तथाच घटत्वमित्यत्र घटवृत्तिरसाधारणोधर्म इति बोध इत्यादि द्रष्टव्यम् । पक्षान्तरमाह-*यद्वेति ॥ यद्वा "सर्वे भावाः स्वेनार्थेन भवन्ति, स तेषां भावः” इति वार्तिकोक्तः-यद्वाशब्दस्तत्सूचनप्रयोजनकोऽपि । भवन्ति वाचकत्वेन प्रवर्त्तन्त इति भावाः=शब्दाः । स्वेन-स्वरूपेण= अर्थेन । भवन्ति-प्रवर्तन्ते; अतः स तेषां भावः प्रवृत्तिनिमित्तमित्यर्थः। ___ अयम्भावः-अर्थवच्छब्दोऽपि द्रव्ये प्रकारः । हरिहरनलेक्ष्वाकुयु - दर्पणः त्यादिना रसादेर्गुणपरशुक्लादेश्च सङ्ग्रहः । *बोधजनकत्व इति । बोधजनकत्वमत इत्यर्थः । व्यपेक्षावादे क्रियाकारकभावसम्बन्धेन कृदर्थकादौ धात्वर्थस्यैव प्रकारतया भानोपगमादिति भावः । स्वसिद्धान्तमनुसृत्याह-संसर्गप्रकारकेति । *सूपपादेति । भावप्रत्ययो जातावेवेत्याद्यनियमादिति भावः । तत्रेति । जात्या. दिवाचकभावप्रत्ययेषुमध्ये इत्यर्थः। *जातिवाचकानामिति । अर्थनिष्ठशक्तरितिशेषः। गुणाद्यात्मकभाववचनानां शुक्लत्वादिशब्दानां जातेः शक्यताऽवच्छेदकत्वसम्भवादाह-*जातिवाचकानामिति । भावप्रत्ययानामिति शेषः। *अवच्छेदिका इति उपस्थितत्वाद् घटत्वादिजातिनिष्ठशक्तः स्वेतरावृत्तित्वावच्छिन्ननिखिलस्ववृत्तिरूपा. धेयत्वादिसम्बन्धेनाऽवच्छेदिका इत्यर्थः । तेन न द्रव्यत्वादिनिष्ठशक्तेर्घटावच्छिन्न. त्वम् । अवच्छेदकानुगमकं च गोत्वादिकमेवेति भावः । पर्य्यवसितबोधमाह- घटवृत्तिरिति । *पक्षान्तरमिति* । 'तच्छब्द एव भावप्रत्ययवाच्य' इति मतान्तरमि. त्यर्थः । “अथ कस्माद्दौरित्युच्यते ? गौरित्येव हि गोर्गवि वर्तते" इत्यौक्थिका इति निरुक्तमप्येतत्कल्पे उपष्टम्भकम्बोध्यम् । तत्सूचनप्रयोजनकोऽपीति* । यद्वा शब्दघटितोक्तवार्तिकसूचनप्रयोजनकोऽपीत्यर्थः । अपिना पक्षान्तरसङ्ग्रहः । वार्तिके"स्वेनाऽर्थेन भवन्ति" इत्यत्र स्वशब्दस्यात्मीयवचनतयात्मीयाऽर्थेन जात्यादिना प्रवर्तन्ते इत्यर्थात् कथं पक्षान्तरपरता कथं वार्थावृत्तेर्धर्मस्य शब्दस्य भावत्वं चेत्यत आशयं प्रकाशयति-*अयम्भाव इति। जात्याद्यर्थस्य द्रव्यांशे विशेषणतायाः प्रसिद्धत्वात्तदृष्टान्तेन शब्दस्यापि तां साधयति-*अर्थवदिति* । जात्यादिवदित्यर्थः । शब्दस्यार्थविशेषणतायामसाधारण. स्थलमाह-*हरिहरेति । कश्चिदासीदित्यनेन जात्यादिप्रकारकबोधासम्भवो ध्व परीक्षा ............(१)ततः स्वरूपतो न सत्वादिप्रकारकः शाब्दबोध इतिरीत्या तस्योप. (१) अत्र पूर्वतः पाठः खण्डितोऽस्ति ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy