________________
३४८
दर्पणपरीक्षासहिते भूषणसारेस्यापि वाच्यता स्यादित्यढेष्टापत्तिमाह-*धर्ममात्रमिति* ॥ न त्वत्र लघुगुरुविचार इत्यभिप्रायः॥ तत्तव्यक्तिविशिष्टब्रह्मसत्ताया एव घटत्वघटत्वत्वादिरूपत्वात् ।
सम्बन्धिभेदात् सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थञ्च धात्वर्थञ्च प्रचक्षते ।
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः॥ इति वाक्यपदीयात् । उक्तञ्च 'तस्य भावस्त्वतलौ” (पासू०५। २१११६) इति सूत्रे वार्तिककार:-'यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ' इति । यस्य गुणस्य-विशेषणतया भासमानस्य, भावाद् = आश्रयत्वाद्, द्रव्ये विशेष्ये, शब्दनिवेशः शब्दप्रवृत्तिः, तस्मिन् वाच्ये त्वतलावित्यर्थः । तथाच रूपादिशब्देभ्यो जातौ, शुक्लाणुदीर्घमहदादिभ्यो गुणे,
दर्पणः गधर्मत्वादित्यर्थः । *लघुगुर्विति । ___ अयम्भावः-धर्मस्यासाधारणधर्मत्वेन वाच्यत्वेऽप्येकत्वमित्यादौ परिमाणादे
र्भानापत्तिः । उक्तासाधारण्यस्य परिमाणे सत्वात् । नच प्रकृत्यर्थतावच्छेदकनिरूपितत्वविशिष्टसमवायसम्बन्धेन तदितरावृत्तित्वं तद्वृत्तित्वं च विवक्षितम् । न च तेन सम्बन्धेन परिमाणं तत्र वृत्तीति नोक्तदोष इति वाच्यम् । तथा सत्यनन्तशक्तिकल्पनावश्यकत्वे तत्तद्धर्मत्वेनैव धर्मे शक्तिरस्तु, किमितरावृतित्वादिगौरवसहिष्णुवया।
अत एव पृथक्त्वमित्यादौ प्रकृत्यर्थतावच्छेदकगुणान् भावप्रत्ययः प्रतिपादयति । प्रतीतिस्तु तादूप्येण धर्मत्वेन वेत्यन्यदिति गुणदीधितायुक्तं सङ्गच्छत इति । एतेन भावशक्तत्वादिप्रत्ययेन कम्बुग्रीवादिमत्वमित्यादौ गुरोरपि धर्मस्य कम्बुग्रीवादिमत्व. स्य बोधनेन तद्वदूघटत्वत्वमित्यादावपि गुरोर्धर्मस्य त्वप्रत्ययेन बोधनसम्भवादाशा निःसारेत्यपास्तम् । धर्मस्य भावप्रत्ययवाच्यत्वे सम्मतिमाह-*सम्बन्धिभेदादिति। जातिः पदार्थ इति कल्पे साधकमिदम् । *सम्बन्धिभेदादू*-अनुयोगिभेदाद्, *भिद्यमाना* = गवेतरासमवेतत्वे सति सकलगोसमवेतत्वादिना तव्यक्त्युपरागेण वा पार्थक्येन प्रतीयमाना गवादिनिष्ठा ब्रह्मसत्तैव जातिरित्युच्यते तस्यां सर्वे शब्दा वाचकत्वेन व्यवस्थिता इत्यर्थः । तदेव व्यक्तीकरोति-*तामिति । ताम्-तत्तव्यक्त्युपरक्तां सत्तामित्यर्थः ॥
*धात्वर्थमिति । आकृत्यधिकरणन्यायेन "जातिमन्ये क्रियामाहुः, इति पक्षाभिप्रायेण वा। महानित्यात्मविशेषणम् । क्वचिज्जात्यादिः, क्वचित् सम्बन्ध इत्युक्ताऽर्थे वार्तिकं प्रमाणयति-*उक्तञ्चेति । गुणशब्दस्य वैशेषिकाणां रूपादि. ष्वेव : प्रसिद्धः प्रकृतोपयुक्तार्थपरतामाह-*विशेषणतयेति । तथाच प्रकृते गुणपदमुपसर्जनीभूतार्थपरमिति भावः। पर्य्यवसितमाह-*तथाचेति । रूपादी.