SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ . भावप्रत्ययार्थनिर्णयः । ३४७ - ननु तवापीदं वैषम्यं कथमित्यत आह-*सिद्धान्ते विति ॥ जायन्त इति वक्ष्यमाणविशेषणेऽन्वितम् । सिद्धान्ते प्रकृतिजन्यबोधे प्रकारे त्वादयो जायन्त इत्यर्थः। प्रकृतिजन्यबोधे प्रकार इत्यत्र पक्षद्वयं स्थितमिति योजना ॥ ५०॥ तौ पक्षावाह प्रयोगोपाधिमाश्रित्य प्रकृत्यर्थे प्रकारताम् । धर्ममात्रं वाच्यमिति यद्वा शब्दपरा अमी॥५१॥ जायन्ते तज्जन्यबोधप्रकारे भावसंज्ञिते । प्रयोगे उपाधि-निमित्तं, प्रकृत्यर्थे प्रकारतांप्रकारतया भासमानं धम्म वाच्यतया माश्रित्य त्वादयो जायन्ते । प्रकृतिजन्यबोधे प्रकारस्त्वाद्यर्थे इति यावत् । ननु घटत्वमित्यत्र प्रकारत्वात् तदुत्तरभावप्रत्ययेन घटत्वत्व दर्पणः पपत्तेरित्यन्तग्रन्थेन भूषण इत्यर्थः । *तवापीति । वैयाकरणस्याऽपीत्यर्थः ॥ इदम्। क्वचिज्जात्यादिवाचकत्वं, क्वचित् सम्बन्धवाचकत्वमित्येवं रूपं वैषम्यमित्यर्थः ॥१०॥ . *प्रयोग इति* ॥ शब्दप्रवृत्तावित्यर्थः ॥ *निमित्तमिति* ॥ यद्धर्मवत्वेन ज्ञातेऽर्थे यश्शब्दः प्रयुज्यते स धर्मस्तच्छब्दप्रवृत्ती निमित्तमित्यर्थः॥ सः-दामोदरत्वमित्यादौ जातिः, शुक्लत्वमित्यादौ गुण एवेति । ननु प्रकृतिजन्यबोधप्रकारकत्वेनैवोपाधेः संग्रह तस्य पृथगुपादानं व्यर्थमत आह-प्रकृतिजन्येति ॥ स च प्रकृत्यर्थवृत्तिरसाधारणो धर्मस्तस्मिन्नसाधारण्यञ्च-तदितरावृत्तित्वे सति सकलतवृत्तित्वम् ; सत्यन्तोपादाने द्रव्यत्वादेर्घटासाधारण्य, विशेष्योपादानाच्च तद्वयक्तित्वादिनिरासः । तेन रूपेण धर्मो भावप्रत्ययवाच्यः । तत्र तत्पदार्थस्य घटादेस्त्वादिप्रकृत्यैव लाभादनन्यलभ्य इतरावृत्तित्वादौ भावप्रत्ययस्य शक्तिः। तत्रापीतरवृत्तित्वमभावः साकल्यं वृत्तिमच्च विशकलितमर्थः । इतरवृत्तित्वप्रतियोगिकाभावस्यातिप्रसक्तत्वादितरवृत्तित्वत्वाऽवच्छिन्नप्रतियोगिताकाभावस्याप्रसिद्धत्वाद् घटत्वादौ बाधाच्च विशिष्टस्य शक्यत्वासम्भवात् । अत्र च प्रकृतिजन्यबोधे येन सम्बन्धेन प्रतिपाद्यतावच्छेदकधर्मस्य प्रकारता तेन सम्बन्धेनेतरावृत्तित्वं वृत्तिमत्वं च बोध्यम् । नाऽतः कालादौ कालिकादिसम्बन्धेन घटत्वस्य वृत्तावपि क्षतिः । न वा घटत्वमित्यादौ कम्बुग्रीवादिमत्वस्य भानम् । प्रमेयत्वमित्यादौ त्वितरावृत्तित्वांशो न भासते, अप्रसिद्धत्वात् । किन्तु सकलं प्रमेयवृत्तित्वमात्रम् । न च विशिष्टस्याऽनतिरिक्तत्वमते गुणाऽन्यत्वविशिष्टसत्वमित्यादौ विशिष्टसत्वे विशिष्टसदितरावृत्तित्वस्य महत्वमित्यादौ सकलमहवृत्तित्वस्य महत्परिमाणादावसम्भव इति वाच्यम् । तदितरत्वव्यापकात्यन्ताभावप्रतियोगितावच्छेदकतवृत्त्यत्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वे दलद्वयतात्पर्य्यात् । तत्राद्यदलं घटत्वमित्यादौ द्रव्यत्वादेरसाधारण्यवारणायेति भावः । *प्रकारत्वादिति । घटत्वासाधार
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy