SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३४६ दर्पणपरीक्षासहिते भूषणसारे - श्रत्र - भावप्रत्ययविषये । तथाहि - दामोदरत्वं घटत्वमित्यादौ भावप्रत्ययस्य सम्बन्धानभिधायकत्वेन मीमांसकानां दण्डित्वमित्य. - दिष्वपि तदभिधानं न स्यात् । प्रकृतिजन्यबोधे प्रकारः प्रकृत्यर्थसमवेतो हि तदुत्तरभावप्रत्ययेनाभिधीयते । अन्यथा घटत्वमित्यत्र द्रव्यत्वादेईण्डित्वमित्यादौ दण्डादेश्च तदुत्तरभावप्रत्ययवाच्यतापत्तेः । न च तन्मते दण्डीत्यादिबोधे सम्बन्धः प्रकारः । यत्तु — यदा स्वसमवेतोऽत्र वाच्यो नास्ति गुणोऽपरः । तदा गत्यन्तराभावात् सम्बन्धो वाच्य आश्रितः ॥ इति । तन्न । इनादेः सम्बन्धिवाचकत्वेनोपपत्तौ गत्यभावाभावात् । प्रपञ्चितं चैतदादावेव वैयाकरणभूषणे । दर्पणः तस्येति । इन्यादेरित्यर्थः ॥ *सम्बन्धानभिधायकत्वेनेति ॥ प्रकृतिजन्यबोधे तस्याप्रकारत्वादिति भावः ॥ * तदभिधानम् - सम्बन्धाभिधानम् ॥ न स्यादिति ॥ किन्तु दण्डस्यैवाऽभिधानं स्यान्न च तदभिधानमिष्टमिति भावः । ननु प्रकृतिजन्यबोधविषयत्वे सति प्रकृत्यर्थवृत्तित्वं भावत्वम् । तच्च दण्डसम्बन्धस्याsक्षतमिति भावप्रत्ययेन तदभिधानं भविष्यतीत्यत आह- * प्रकृतिजन्यबोध इति* ॥ उक्तार्थस्य भावत्वे तु दामोदरत्वमित्यादौ जातिगुणसम्बन्धस्याऽपि भावार्थता प्रसज्ज्येतेति भावः । क्रमेण दलद्वयव्यावर्त्यमाह -*अन्यथेति ॥ एकतरदलमाश्रोपादाने इत्यर्थः । *तदुत्तरेति ॥ घटदण्डिपदोत्तरेत्यर्थः । तथाच घटत्वमित्यादौ द्रव्यत्वस्येव त्वन्मते दण्डीत्यादौ दण्डसम्बन्धस्याप्यपदार्थतया ऽप्रकारत्वादभावत्वेन न तस्य प्रत्ययार्थत्वसम्भव इति भावः । वस्तुतस्त्वन्त्यदलोपादानं व्यर्थम् । मतुबादीनां सम्बन्ध्यर्थकतया दण्डीत्यादिवाक्य-जन्यबोधसम्बन्धस्यैव प्रकारत्वेन दण्डादीनां प्रकृत्यर्थेऽप्रकारत्वादेवानतिप्रसङ्गात् । मीमांसकैकदेशिमते मत्वर्थीयानां सम्बन्धवाचकत्वेऽपि तदाक्षिप्ताश्रयविशेष्यकबोधस्यैव तैरभ्युपगमेन तन्मतेऽपि प्रकृतिजन्यबोधविशेष्यांशे दण्डादीनामप्रकार - त्वेन प्रयोजनविरहादिति विभावनीयम् ॥ *सम्बन्धः प्रकार इति ॥ अस्य येन तस्य त्वादिप्रत्ययवाच्यता स्यादिति शेषः । मीमांसकमतमुपन्यस्यति-यत्त्विति ॥ *अन्त्र* -दण्डित्वमित्यादौ ॥ स्वसमवेतः *-त्वादिप्रकृत्यर्थसमवेतः ॥ नीलत्वमित्यादौ नीलादिगुणवन्न सम्भवति यतोऽतः सम्बन्धस्यैव भावप्रत्ययवाच्यत्वमाश्रितमित्यर्थः । दण्डादेः प्रकृत्यर्थाशे प्रकारत्वेऽपि प्रकृत्यर्थाऽसमवेतत्वेनाभावत्वादिति भावः ॥ *सम्बन्धिवाचकत्वेनेति ॥ " तदस्यास्त्यस्मिन् ” ( पा०सू० ५।२।४० ) इति मतुपः सम्बन्धे विधानेऽपि “दण्डी पुरुष" इति सामानाधिकरण्यानुरोधात् सम्बन्धिवाचकत्वस्यावश्यकत्वादिति भावः ॥ *गत्यभावाभावादिति ॥ सम्बन्धस्यैव भावत्वसम्भवादिति भावः । *आदावेवेति । एवं वैश्वदेवीत्यादिसामानाधिकरण्यस्योक्तरीत्यैवो
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy