________________
-
भावप्रत्ययार्थनिर्णयः। दामोदरत्वं, कृष्णसर्पत्वमित्यादौजातिविशेषेण बोधादाह-*अन्यत्रेति* । रूढेरभिन्नरूपादव्यभिचरितसम्बन्धेभ्यश्चान्यत्रेत्यर्थः । रूढिरुक्ता । द्वितीयं यथा शुक्लत्वम् । अत्र "तदस्यास्त्यस्मिन्” (पासू० पा२।१४) इति मतुपो "गुणवचनेभ्यो मतुपो लुगिष्ट” (का० वा०) इति लुप्तत्वात् तद्धितान्तत्वेऽपि, घटः शुक्ल इत्यभेदप्रत्ययाद्: गुणस्यैव प्रकारत्वेन भानं जायते । तृतीयम्-सतो भावः सत्तेति । अत्र जातावेव प्रत्यय इति दिक ॥ ४६॥ .
दण्डीत्यादौ प्रकृत्यर्थविशिष्टद्रव्यमात्रवाचकता तद्धितस्येति वदन्तं मीमांसकम्मन्यं प्रत्याह
अत्रार्द्धजरतीयं स्याद् दर्शनान्तरगामिनाम् । सिद्धान्ते तु स्थितं पक्षद्वयं त्वादिषु तच्छृणु ॥५०॥
दर्पणः तार्थवृत्तिराक्षिकाद्यन्तर्गतठगादिरित्यर्थः । तदर्थे कर्नादौ देवनादिरूपक्रियायाः क्रियाकारकभावसम्बन्धस्य प्रकारतया भानादित्याशयः ॥ *रूढेरिति । कथमप्यज्ञात योगादर्थविशेषप्रसिद्धादित्यर्थः ॥ *अभिन्नरूपादिति* ॥ प्रत्ययान्तत्वेऽपि प्रत्ययलुका प्रकृतिसमानाऽऽकारात् "शिष्यमाणं लुप्यमानाऽर्थाभिधायि" इति न्यायेन प्रकृत्यर्थान्वितप्रत्ययार्थाभिधायिन इत्यर्थः । *अव्यभिचरितसम्बन्धेभ्य इति ॥ अव्यभिच. रितो व्यक्तिनिष्ठाऽत्यन्ताभावाप्रतियोगी, सम्बन्धः-समवायात्मको यस्य जात्यादेस्तद्विशिष्टवाचकादित्यर्थः । नाऽतः पाकादिना नाशेन स्वाश्रयनिष्ठाऽभावप्रतियोगिना-त. त्वम् ॥ *उक्तेति ॥ दामोदरत्वमित्यादौ जातिविशेषेण भानादिति ग्रन्थेनेत्यर्थः ॥ द्वितीयं यथेति ॥ अभिन्नरूपोदाहरणं यथेत्यर्थः । तद्धितान्तत्वेऽपीत्यपिना तदुत्तरभावप्रत्ययेन सम्बन्धाभिधानं प्राप्नोतीति सूचितम् ॥ *अभेदप्रत्ययादिति । इदञ्च षष्ठ्यर्थे विहितस्य मतुपः सम्बन्धाऽर्थकत्वशङ्कानिरासाय । तृतीयमित्यस्योदाहरणं यथेति शेषः।
सत इति ॥ सच्छब्दजन्यबोधे शत्रर्थकशे सत्तायाः प्रकारतया भानात्तदुत्तरभावप्रत्ययेनाऽपि सैवाभिधीयते इत्यर्थः । तथा चोक्तस्थलेषु भावप्रत्ययान्तात् सम्ब. न्धाभानादुक्तवाक्ये, अन्यत्रेत्युपात्तमिति भावः ॥ . ननु शुक्लत्वं सत्त्वमित्यादौ सतोऽपि शौक्ल्यादिसम्बन्धस्य भावप्रत्ययेनाऽनभिधानवदू राजपुरुष इत्यत्रापि तदनभिधानं स्यात् । तत्रापि राजादीनां पुरुषादिपदार्थे स्वत्वादिसम्बन्धेन प्रकारतेत्यस्यापि वक्तुं शक्यत्वादित्यत आह-*दिगिति* ॥ तदर्थस्तु-निर्वक्ष्यमाणभावे "तस्य भावः” ( पा० सू० ५।१।११। ) इति सूत्रेण त्वतलादयो विधीयन्ते ॥ नतु जातित्वादिना जातावेव सम्बन्ध एवेति नियमः । तथाच यत्प्रकृतेर्यद्धर्मप्रकारकबोधः शास्त्रकृत्सम्मतः स एव धर्मस्त्वायभिधेय इति रूब्यादिभिः मित्रप्रकृतेः कृदन्तादितोऽपि सम्बन्धप्रकारकबोधस्य भाष्यसम्मतत्वात् तस्यैव भावप्रः त्ययेनाभिधानमुचितमिति नोक्तेषु भावप्रत्ययस्य जात्याद्यभिधायकत्वमिति ॥४९॥ 'प्रकृत्यर्थविशिष्टद्रव्यमान वचन' इति पाठः । मात्रपदेन सम्बन्धव्यवच्छेदः ॥ *तद्धि
४४ ६०प०