SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ॥ अथ त्वादिभावप्रत्ययार्थनिर्णयः॥ भावप्रत्ययार्थमाह कृत्तद्धितसमासेभ्यो मतभेदनिबन्धनम् । त्वतलोरर्थकथनं टीकायां हरिणा कृतम् ॥ ४९ ॥ "कृत्तद्धितसमासेभ्यः सम्बन्धाभिधानं भावप्रत्ययेनाऽन्यत्र रूढ्य. भिन्नरूपाव्यभिचरितसम्बन्धेभ्यः" इति वार्तिकवचने मीमांसका. दीनां भ्रममपाकुर्वन्नाह-*टीकायामिति* ॥ भर्तृहरिणा महाभाप्यटीकायामित्यर्थः ॥ त्वतलोरिति भावप्रत्ययमात्रोपलक्षणम् । .. अयमर्थः--समासादौ शक्तिः कल्प्यमाना राजादिसम्बन्धविशिष्टे कल्प्यत इत्युक्तम् । तथाच तदुत्तरभावप्रत्ययः सम्बन्धं वदतीत्यर्थः । एतदपि भेदः संसर्ग उभयं वेत्युक्तेषुभेदपक्षे न सम्भवतीत्यत आह--*मतभेदेति* ॥ पक्षभेदे इत्यर्थः । . एवञ्च राजपुरुषत्वम् , औपगवत्वं, पक्तृत्वमित्यादी स्वस्वामिभावसम्बन्धः, उपग्वपत्यसम्बन्धः, क्रियाकारकभावसम्बन्ध इत्यन्वयबोधः । औपगवादावव्यभिचरितसम्बन्धे तु अर्थान्तरवृत्तिस्तद्धित उदाहार्यः । . दर्पणः अथ त्वादिभावप्रत्ययार्थनिर्णयः॥ प्रक्रान्ते नामार्थनिरूपणे नामघटककृत्तद्धितानामर्थमुपोद्धातसङ्गत्या निरूपयिष्यनादौ प्रकृत्यर्थप्रकारत्वाद्भावप्रत्ययार्थनिरूपणमित्याशयेनाह-*भावेति । ष्युजवुजादेरपि सम्बन्धरूपभावबोधकत्वात् तत्संग्रहार्थमाह-*त्वतलोरिति । *भावप्रत्ययेति । भावविहिततद्धितप्रत्ययेत्यर्थः । हरिवाक्यं विवृणोति-*अयमर्थ इत्यादिना* । इत्यु. क्तमित्यस्य समासशक्तिनिरूपणावसर इति शेषः ॥ *सम्बन्धमिति। उत्तरपदार्थे पूर्वपदार्थसम्बन्धस्यैव धर्मत्वेन भासमानत्वादिति भावः ॥ *भेदपक्ष इति । तत्पक्षे हि राजपुरुष' इत्यत्राऽराजकीयभिन्नः पुरुष इति बोधेन पुरुषांशे राजसम्बन्धाभानादिति भावः ॥ *उपग्वपत्यसम्बन्ध इति । उपग्वपत्ययोर्जन्यजनकभावात्मकः सम्बन्ध इत्यर्थः ॥ *अन्वयबोध इति । तत्तत्पदोत्तरभावप्रत्ययस्य तत्तत्सम्बन्धवाचकत्वादिति भावः। *अव्यभिचरितसम्बन्धे त्विति ॥ अव्यभिचरितसम्बन्धरूपजात्यैवभानोपगमे त्वित्यर्थः । तुशब्दसूचिताऽरुचिबीजं तु, "तस्याऽपत्यम्" (पासू०४।१२८२) इत्यनेन षष्ठीप्रकृत्यर्थोपग्वादिसम्बन्धेऽपत्येऽणादीनां विधानेन षष्ठ्यर्थसम्बन्धान्त वेणैव तत्रैकार्थीभावस्योपगन्तव्यतया तत्रापत्याचंशे संसर्गस्यैव प्रकारतया तस्यैव तदुत्तरभावप्रत्ययार्थत्वेन जातेस्तद्वाच्यत्वासम्भवादिति ॥ *अर्थान्तरवृत्तिरिति । धात्वर्थघटि
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy