________________
निपातार्थनिर्णयः ।
३४३
त्यर्थः ।
व्यापकत्वात = सामान्यत्वात् । शक्तताया इत्युपलक्षणं द्योतकताया वेत्यपि द्रष्टव्यम् ॥ ४८ ॥
इति वैयाकरणभूषणसारे निपातानां द्योतकत्वादिनिर्णयः ॥ ८ ॥ दर्पणः
तदुक्तम् - निपाता द्योतकाः केचित् पृथगर्थाभिधायिनः ।
1
आगमा इव केsपि स्युः सम्भूयाऽर्थस्य वाचकाः ॥ इति । केचिदित्युभयान्वयी । न तूपसर्गत्वेन प्रादीनां निपातत्वेन चादीनां द्योतकता वाचकता चेति स्थितेरुपसर्गत्वावच्छेदेन द्योतकता, न निपातत्वावच्छेदेनेति विवादः सिद्धान्तानालोचनमूलक एव । कर्मप्रवचनीयानां तु नोपसर्गवत् क्रियाविशेषकत्वम्, किन्तु क्रियागतसम्बन्धविशेषकत्वम् । कर्म = क्रियां प्रोक्तवन्तः कर्मप्रवचनीया इत्यन्वर्थसंज्ञाविज्ञानात् । अधिपर्योस्तु सूत्रारम्भसामर्थ्यादेव सा । 'जपमनुप्रावर्षत्' इत्यत्र हेतुभूतजपनिरूपितलक्ष्यलक्षणभावसम्बन्धस्य वर्षाणक्रियानिष्ठस्यानुना द्योतनात्, एवमन्यत्रापि ज्ञेयम् । अत एव न तेषामुपसर्गत्वम् । क्रियागतविशेषद्योतको ह्युपसर्गः । उक्तञ्च हरिणा - क्रियाया द्योतको नाऽयं सम्बन्धस्य न वाचकः । arsfप क्रियापदाssक्षेपी सम्बन्धस्य तु भेदकः ॥ इति ।
तदर्थस्तु - कर्मप्रवचनीयसंज्ञकोऽन्वादिः, प्रजयतीत्यादावुपसर्गवन्न क्रियागत विशेषस्य द्योतकः । विभक्त्यैवोक्तत्वाच्च न सम्बन्धस्य वाचकः । नाऽपि, "प्रादेशं विलिखति' इत्यादौ विशब्दवत् क्रियाक्षेपकः । तत्र विना मानक्रियाक्षेपात् । तथा सति तत्क्रियानिबन्धना कारकविभक्तिरेव स्यात् । किन्तु विशिष्टक्रियाजनितो यः सम्बधो विभक्त्यर्थ इति तद्द्योतकः । प्रादेशं विमाय लिखतीत्यर्थप्रतीतेरित्यधिकमन्यतोऽवधार्य्यम् ॥ ४८ ॥
इति भूषणसारदर्पणे उपसर्गनिपातार्थनिरूपणम् ॥ ८ ॥ परीक्षा
च्छेदकधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वयः । योगश्च सप्तम्यर्थाधेयत्वरूप एव । तस्य सप्तम्यन्तार्थस्य द्वेधा शाब्दबोधे भानम् । अभावप्रतियोगिभूतमाधेयत्व - वकाराभावे ग्राशसम्बन्धावच्छिन्नम्प्रतीयते तादृशसम्बन्धावच्छिन्नमेव । एवञ्च पृथिव्यामेव गन्ध इति वाक्यात् पृथिव्यन्यसमवेतत्वाभाववान् गन्धः पृथिवीसमवेत इति बोधः । द्विधाभानस्य प्रयोजनन्तु पृथिव्यामेव गगनमिति प्रयोगवारणमेव । यत्र तु क्रियावाचकपदसमभिव्याहृत एवकारस्तत्रात्यन्तायोगव्यवच्छेद एवकारार्थः । तन्त्रात्यन्तिकत्वम् — अन्वयितावच्छेदकव्यापकत्वम् । तस्यायोगस्य प्रतियोगितासम्बन्धावच्छिन्न प्रतियोगिताकाभावस्तद्वान् तस्य क्रियायामभेदेन विशेषणम् । एवच 'नील सरोजं भवत्येव' इति वाक्यात्सरोजत्वव्यापकाभावस्य यः प्रतियोगिता सम्बन्धावच्छिन्नप्रतियोगिताकाभावस्तद्वदभिन्ननीलकर्तृकं भवनमिति बोधः। नचैवं 'सरोजन्नीलमेव ' इत्यपि प्रयोगः स्यात् । सरोजत्वव्यापकस्याभावस्य यः प्रतियोगितासम्बन्धावच्छिन्नप्रतियोगिताभावस्तद्वदभेदस्य नीले सत्वादिति वाच्यम् । अत्यन्तायोगव्यवच्छेदस्य क्रिया...
"
*" (१) ॥ ४८ ॥
श्रीभूषणaratां परीक्षायां निपातार्थनिर्णयः ॥ ८ ॥
•
( १ ) अग्रे पाठः खण्डितोऽरित, स विद्वद्भिः पूरणीय इति शम् ।