SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३४२ दर्पणपरीक्षासहिते भूषणसारे - दर्पणः वस्तुतस्त्वन्ययोगव्यवच्छेदाऽयोगव्यवच्छेदयोरेवैवकारस्य शक्तिः। अन्वयिता. वच्छेदकावच्छेदेनायोगव्यवच्छेदबोधे ग्रहणाऽध्ययनार्थकधातुसमभिव्याहारस्यापि नियामकत्वाज्ज्ञानमर्थं गृह्णात्येवेत्यादिवन्न ज्ञानं रजतं गृह्णात्येवेत्यादिप्रयोगः । क्रियान्तरसमभिव्याहारे तु प्रायः सामानाधिकरण्येन तदानम् । इत्थञ्चान्वयिताव. च्छेदकसामाधिकरण्येनान्ययोगव्यवच्छेदोऽत्यन्तायोगव्यवच्छेदः, अन्वयितावच्छेदकावच्छेदेन त्वयोगव्यवच्छेद इति व्यवहियते । विस्तरस्त्वन्यतोऽवधायंः।। ___ 'केव भोक्ष्यसे' इत्यादावसम्भावनाऽपि तदर्थः । एवमन्येषामपि सार्थकानां निपा. तानामर्था ऊह्याः। वैयाकरणमते त्वेवकारस्य वाचकत्वासम्भवादवधारणात्मकज्ञानविशेषद्योतकत्वमेव । स च समभिव्याहृतपदार्थानुरोधादनेकविधः। यथा ज्ञानमर्थ गृह्णात्येवेत्यत्रावच्छेदकावच्छेदेनाऽर्थग्रहणाभावानधिकरणज्ञानप्रकारकज्ञानविषयो ज्ञानकर्त्तकमर्थकर्मकं ग्रहणमिति बोधादुक्तपदार्थघटितः सः। परन्त्वनेकधात्वादीनां तत्तदर्थे वृत्तिकल्पनापेक्षयैवकारस्यैव सोचितेत्यन्ये । यद्यप्युपसर्ग प्रक्रम्य स वाचको विशेषाणां सम्भवाद् द्योतकोऽपि च । इति हरिणा पक्षद्वयमविशेषेणोक्तम् , ग्रन्थकृता च तदेवानुसृतम् । तथापि क्वचित् सम्भविनो भेदाः केवलैरनिदर्शिताः। उपसर्गेण सम्बन्धो व्यज्यन्ते प्रसरादिना ॥१॥ इति तदुक्तोपसंहृतिपर्सालोचनयोपसर्गाणां द्योतकत्वमेवाऽवसीयते । अत्रेदं बोध्यम्-उपसर्गत्वाद्यजानतोऽपि प्रजयतीत्यादौ प्रकृष्टजयबोधात् प्रत्वादिनैव तेषां द्योतकत्वम् । निपातानामपि च त्वादिनैव वाचकता, यत्र न वाचकतामन्तरेण निर्वाहः । क्वचिद् द्योतकत्वमप्युक्तयुक्त्यानभ्युपगम्ये यथा “शरैरुत्रैः" इत्यादौ । क्वचिन्नोभयम् । यथा पादपूरणमात्रार्थके त्वादौ। परीक्षा यद्यपि लिङ्गविपरिणामेन यथाकथंचिदुभयत्रान्वयस्तथापि भूरि(बहुलो) नान्वय इत्यस्फुटत्वात्तस्य चमत्कारानाधायकत्वेन दोषत्वम् । एवमुपमानोपमेयवाचकम्पद यद्ववचनकन्तद्वचनकमेव साधारणधर्मवाचकं प्रयोक्तव्यम् । नतु विभिन्नवचनकम् । यथा-'सक्तवो मिक्षिता देव शुद्धाः कुलवधूरिव' देवेति सम्बोधनविभक्त्यन्तम् । अन बहुत्वविशिष्टस्य शुद्धत्वस्य शुद्धा इत्यनेनोपादानात्तस्य बहुत्वावरुद्धसक्तुष्वेवो. पमेयेष्वन्वयः प्रतीयतेऽतो दुष्टमेवेदं काव्यम् । एवं नमो निपातस्याभाववाचकता। यथा केवलस्य नेत्यस्य प्रयोगेऽप्यभावस्य बोधः । तथा सङ्कटं प्रकटमित्यत्र च सम्प्र. शब्दयोर्वाचकत्वम् । तस्माच्च स्वार्थ सम्प्रोदश्च कटच्" इति कटच्प्रत्ययः। एव. मेवकारस्यान्ययोगव्यवच्छेदस्य विशेषणे प्रतीतिः । यथा-पार्थ एव धनुर्धर' इत्यादौ अन्यत्वसमभिव्याहृतपदोपात्तविशेष्यापेक्षया योगः सम्बन्धः। सचैवकाराभावे विशे. षणतावच्छेदकत्वेन यो यत्र प्रतीयते, स एवैवकारसमभिव्याहारे सत्येतदुपस्थाप्याभा. वरूपव्यवच्छेदस्यानुपयोगितावच्छेदकतया भासते । तथा च पार्थान्यतादात्म्याभाववद्धनुर्धराभिन्नपार्थ इति बोधः । एवं यत्र सप्तम्यन्तविशेषणवाचकपदसमभिव्याहारस्तत्राप्येवकारार्थोऽन्ययोगव्यवच्छेदः । अन्यत्वे च सप्तमी प्रक्चत्ययस्य प्रकृत्यर्थताव
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy