SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ निपातार्थनिणयः।... ३४१ दर्पणः किञ्च तथा बोधाङ्गीकारे तादृशस्थले प्रादीनामुपसर्गत्वमपि दुर्घटम् । क्रियाया अविशेषकत्वात् । क्रिया यत्रोपसर्गार्था भावविशेषिका, न तूपसर्गार्थो गत्यभावविशेषकः । स्वादीनां द्योतकताव्यवस्थापनोक्तरीत्याप्युपसर्गाणां साऽवसेयेति । निपातानां तु केषाञ्चिदू वाचकत्वम् । तत्र नञर्थो निरूपितः। चार्थश्च समुच्चयादिभेदेन चतुर्विध इति, "चार्थे द्वन्द्वः” ( पा० सू० २१८८९) इत्यत्राकरेषु व्यक्तमेव । ___इवार्थस्तु सादृश्यम् । तच्च तद्भिन्नत्वे सति तद्गतधर्मवत्त्वम् । यत्तु सादृश्यं न भेदघटितमिति , तन्न । तावतापि “नजिवयुक्तम्” इति परिभाषणेन तस्येवार्थत्वानपायात् । तदबोधे त्वनुयोगिप्रतियोगिवाचकपदयोः समानविभक्तिकत्वं नियामकम् । नातश्चन्द्र इव मुखमित्यर्थे चन्द्रेणेव मुखमिति साधु। . एवकारस्य त्वन्ययोगव्यवच्छेदोऽयोगव्यवच्छेदोऽत्यन्तायोगव्यवच्छेदश्चार्थः। तत्र विशेष्यगतैवस्थले 'पार्थ एव धनुर्द्धर' इत्यादावन्यतादात्म्यव्यवच्छेदोऽर्थः । अन्यत्वं च-समभिव्याहृतपदार्थापेक्षिकम् । तथाच पार्थान्यतादात्म्याभाववद्धनुर्द्धराभिन्नः पार्थ इति बोधः । पृथिव्यामेव गन्ध इत्यत्र पृथिव्यन्यसमवेतत्वाभाववान् पृथिवीसमवे. तश्च गन्ध इति बोधः । अत्र भावान्वयबोधानुपगमे पृथिव्यामेवाकाशमित्यपि प्रस. ज्ज्येत । एवञ्जैवकारेणान्ययोगव्यवच्छेदबोधे विशेष्यवाचकपदविशेषणवाचकसप्तम्यन्तान्यतरसमभिव्याहारो नियामकः । विशेषणसङ्गतैवस्थलेऽयोगव्यवच्छेदः । 'शङ्खः पाण्डुर एव' इत्यादौ शङ्खत्वावच्छेदेन पाण्डुरवत्त्वसमवायाभावव्यवच्छेदबोधात् । 'नीलं सरोजं भवत्येव' इत्यादौ क्रियासङ्गतैवस्थलेऽत्यन्तायोगव्यवच्छेदोऽर्थः ॥ 'अत्र केचित्-अयोगे आत्यन्तिकत्वं व्यवच्छिद्यते । तच्चान्वयितावच्छेदकव्यापकत्वम् । खण्डशश्च तत्र शक्तिः। तथाचोक्तस्थले सरोजनिष्ठाभावप्रतियोगिनीलभवनाभाव इति बोध इति वदन्ति ॥ परीक्षा गत्वावच्छेदेन द्योतकत्वस्य कल्पनमस्त्विति वाच्यम् । उपसर्गत्वस्यैकत्वेऽप्यस्य तदवच्छेदकत्वं वक्तुमशक्यम् । नञ् यथा शब्दानामसङ्ग्राहकत्वात् । इत्यादीत्यादिना सिद्धान्तविशेषः सूचितः। यत्र क्रियातो विशेषः प्रतीयते तत्रास्तु द्योतकता। यत्र तु नामार्थान्वयो विशेषस्तत्र यथायथं द्योतकत्वं वाचकत्वं वा। शरैरुपैरिवोदीच्यान्" इत्यादावुक्तरीत्या द्योतकत्वमेव । चादीनान्तु घटः पटश्चेत्यादौ वाचकता । अत एव समुच्चयादीनाञ्चतुर्णाश्चार्थत्ववर्णन साधु संगच्छते। . इवशब्दार्थः सादृश्यम् । एतत्प्रतीतिश्चन्द्र इव मुखमित्यादौ दृष्टा । एतद्बोधे च प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तित्वं कारणम् । अत एव चन्द्र इव मुखमिति शब्दादिव चन्द्राय इव मुखमिति शब्दान्न सादृश्यप्रतीतिः । नच सादृश्यस्य साधा. रणधर्मप्रयोज्यतयोभयसाधारणधर्मवाचकम्पदं यथाऽऽल्हादकमित्याकारकमाक्षिण्यते, तदा तस्य नपुंसकलिङ्गत्वेनोपमाने तदन्वयो न प्रतीयेतेति कथमुपमानोपमेययोः साधारणधर्मवत्वप्रतीतिरिति वाच्यम् । लिङ्गरहितार्थोपस्थापकस्याल्हादयतीत्यस्याक्षेपेण सामञ्जस्यात्। यत्र तु चन्द्र इव मुखमाल्हादकमिति प्रयोगस्तत्राप्युभयसाधारणोधर्मों न प्रतीयते इत्युपमादोष एव ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy