________________
३४० दर्पणपरीक्षासहिते भूषणसारेतदवच्छेदेनैव कल्प्येति नैयायिकोक्तं प्रादिचाद्योवैषम्यमयुक्तमि
दर्पणः नच प्रादीनां द्योतकता निपातत्वलिङ्गेनैव सेत्स्यतीति वाच्यम् । तस्योपसर्गत्व. रूपोपाधिमत्तया तदसाधकत्वात् । नच चेष्टादौ साध्याऽव्यापकत्वान्न तस्योपाधित्व. मिति वाच्यम् । शुद्धसाध्याव्यापकत्वेऽपि साधनावच्छिन्नसाध्यव्यापकत्वसम्भवात् । अस्ति हि निपातत्वावच्छिन्नं द्योतकत्वं यत्र तत्रोपसर्गत्वम् । यत्र निपातत्वं नजादौ तत्र तदभावाद् । ननु प्रकर्षाद्यर्थः प्रादिवाच्यः । तदन्वयव्यतिरेकानुविधायिशाब्दधीविषयत्वात् , यो यदन्वयव्यतिरेकानुविधायिशाब्दधीविषयः स तद्वाच्य इति सामा. न्यव्याप्तौ घटादिदृष्टान्तः ।। __ नचानन्यलभ्यत्वमुपाधिः । तस्य वाच्यत्वरूपसाध्यव्यापकत्वात् कर्नादौ आख्यातान्वयव्यतिरेकानुविधायिशाब्दधीविषये साधनाऽव्यापकत्वादिति वाच्यम् । उक्तहेतुघटकशाब्दबुद्धराक्षेपायजन्यत्वेन विशेषणेनानन्यलभ्यत्वस्य साधनव्यापकत्वेनोपा. धित्वायोगात्।
"नच स्वरूपाऽसिद्धिः । धातोरेव प्रकृष्टजयाऽर्थकत्वेनोपसर्गस्य तात्पर्यमात्रग्राहकत्वादिति वाच्यम् । धातोः प्रकृष्टजयार्थकत्वस्य ग्रन्थकृतैव खण्डनात् । नापि लक्ष्यता तस्य। प्रोत्तरत्वादेर्लक्षकतावच्छेदककोटिप्रवेशे गौरवात् । तस्माज्जयत्यादिधातोः शक्यतावच्छेदकम् , प्रकर्षत्वादिकं तूपसर्गस्येति वाच्यम् । तथाच क हेत्वसिद्धिः । किञ्चार्थस्य धातुलक्ष्यत्वे जिपूर्वप्रत्वेनापि विनिगमनाविरहाल्लक्षकतावच्छेदकोटौ निवेशापत्तिः। नाऽपि तदर्थस्य धात्वर्थेन साकमनन्वयप्रसङ्गः। निपातातिरिक्तत्वस्योक्तव्युत्पत्तौ विशेषणात् । एवञ्च 'प्रतिष्ठत' इत्यादौ धातोर्गत्यभावोऽर्थः तदभावश्चोपसर्गार्थः।
तथाच ततो गत्यभावाभाववानिति धीः, गमनत्वप्रकारकबोधस्तूत्तरकालिको मानस एवेति चेद् ? न । 'प्रत्ययानाम्' इति व्युत्पत्तेर्जागरूकतया गमनाभावाभाववानिति बोधस्यापि गगनकुसुमायमानत्वात्॥
परीक्षा अयमभिसम्बन्धः-उपसर्गेषु द्योतकत्वं वाचकत्वं वोभयमतेऽपि कल्पनीयम् , तदा धर्मिवृत्तिधर्मावच्छेदेन कल्पनीयम् , तद्धमिवृत्तिधर्मश्च यथोपसर्गत्वं तथा निपातत्वमपीति संशये निपातत्वस्य व्यापकतया तदवच्छेदेनैव कल्पयितुमुचितम् । यथा न्यायनयेऽदृष्टस्य कारणत्वकल्पनया तत्कार्यतावच्छेदकं व्यापकत्वात् कार्यत्वमेव, नतु घटत्वादिकमिति कल्पने घटत्वादेवाननुगतत्वेनानन्तकार्यकारणाभावात्। तथा यत्रापि समुचितमिति प्रकृते प्रमाणं त्वनुमानमेव । निपाताः-द्योतका, निपातत्वात् । उपसर्गवत् , इति । अत्र जातिरूपमखण्डोपाधिरूपं वा निपातत्वं पक्षतावच्छेदक निपातपदवत्वं च हेतुपक्षतावच्छेदकयो दान्न सिद्धसाधनशङ्कावसरः ।
नच निपातत्वस्यानर्थकनिपातेऽपि सत्वात्तत्र साध्यासत्वेन भागासिद्धिरिति वाच्यम् । द्योतका इत्यस्य वाचकत्वाभाववन्त इत्यर्थात् । नच घटत्वादीनामनेकत्वेन तदवच्छेदकत्वेनादृष्टकार्यत्वकल्पना न सम्भवत्यतस्तया यत्र कार्यत्वं कार्यतावच्छेदकमित्यस्तु प्रकृते उपसर्गत्वनिपातत्वयोरुभयोरप्येकत्वेन विनिगमकाभावेनोपस