________________
निपातार्थनिर्णयः। परन्तु सामान्यधर्म प्रमाणानां पक्षपाताच्छुक्तता द्योतकता वा
दर्पणः तु न तत्साधकम् । अभावत्वविभुत्वादीनामपि जातित्वापत्तेः । अत एव गुणदीधितौ गुणत्वस्य जातित्वं दीधितिकृता खण्डितमत आह--*उपाधिवेति* । सामान्ये व्यापकधर्म इत्यर्थः।
अयम्भावः-उपसर्गेषूभयमतेऽपि द्योतकत्वे वाचकत्वे वा कल्पनीये तद्धमिवृत्ति. तयोपस्थितोपसर्गत्वनिपातत्वयोरुभयोर्धमयोर्मध्ये द्योतकत्वादिकमुपसर्गत्वावच्छेदेन कल्प्यमुत निपातत्वावच्छेदेनेति संशये अवच्छेदकनिर्णिनीषायां व्यापकतया निपात. त्वावच्छेदेनैव तत् कल्प्यते । सङ्ग्राहकलाघवात् । अत एवेश्वरानुमाने कर्तजन्यत्वं घटत्वादिनावच्छिद्यते, उत कार्यत्वेनेत्यवच्छेदकजिज्ञासायामुक्तलाघवात् कायंत्वमेव तदवच्छेदकं, न तु घटत्वादिकमिति न्यायसिद्धान्त इति । ____ अत्र वदन्ति-प्रमाणानां सामान्यधर्मस्यावच्छेदकतायां तत्र पक्षपातो, यत्र च बहूनां धर्माणामवच्छेदकत्वकल्पनाप्रयुक्तं गौरवम् । यथा कर्जजन्यत्वानुमाने कृतिजन्यतायां घटत्वाद्यपेक्षया कार्य्यत्वस्य । यत्र तु विशेषोऽप्येक एंव तत्रोक्तयुक्तिविरहात् तस्यैवावच्छेदकत्वम् । अत एव व्यापारत्वस्याऽधिकसंग्राहकत्वेऽपि कृतित्वस्यैवाख्यातशक्यतावच्छेदकत्वम् । स्वीकृतं च मीमांसकैरपि द्रव्यप्रत्यक्षत्वं विहाय द्रव्यचाक्षुष. त्वस्यैव रूपकार्य्यतावच्छेदकत्वम् । प्रकृते व्यापकत्वान्निपातत्वस्याधिकसंग्राहकत्वेऽपि व्यापकस्योपसर्गत्वस्याप्येकत्वेन तस्यैवावच्छेदकत्वमुचितम् । नतु निपातत्वस्य, अद्योतकेऽवाचके पादपूरणमात्राऽर्थक वृत्तित्वेनातिप्रसक्तत्वात्। 'प्रादयो द्योत. काः, उपसर्गत्वात्' इत्यनुमानाच ।
परीक्षा समावेशः, इति तस्य जातित्वन्न युक्तम् । प्रत्वादिव्याप्यं नानानिपातत्वं यदि स्वीक्रियते तदाऽननुगमेन तस्य शक्यतावच्छेदकत्वासम्भवेन तस्यैवासिद्धिः । किञ्च शक्यतावच्छेदकतया जातिस्वीकारे विभुपदशक्यतावच्छेदकतया विभुत्वस्यापि जातित्वापत्तिरिति शक्यतावच्छेदकत्वन्न जातित्वसाधकम् , किन्तु कार्यतावच्छेदकत्वं कारणतावच्छेदकत्वं वेत्यत आह-*उपाधिति*। क्वचित् उपाधिर्वा जातिवेंति पाठः। तस्येत्थमुपपत्तिः-साङ्कयस्य जातिबाधकत्वमित्येतन्न युक्तम् । जातिबा. धकत्वं यदि जातिनाशकत्वं तदाऽसम्भव एव । जातेनित्यतया तन्नाशासम्भवात् । यदि जातित्वाभावसाधकत्वमित्यर्थः, तावतापि जातित्वाभावसाधकत्वमस्य न स्वीकार्यम् ।
तथाहि-भूतत्वं न जातिः । स्वसामानाधिकरण्य स्वाभावसामानाधिकरण्योभयसम्बन्धेन मूर्तवत्वादित्यनुमानं वाच्यम् । तच्च यदि विशेषतस्तदा दृष्टान्ताप्रसिद्धिः। यदि सामान्यतो यचदुभयसम्बन्धेन जातिविशिष्टन्तजातित्वाभाववत् पृथिवीजलसंयोगो यथेति तावताण्यसम्भवो द्रव्यत्वेऽपि पृथिवीत्वस्योभयत्र सम्बन्धेन सत्वातत्र व्यभिचारादिति । सामान्ये व्यापकधमें पक्षपातादिति तदवच्छेदेन विधेयार्थसाधकत्वादित्यर्थः।