SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३३८ दर्पणपरीक्षासहिते भूषणसारेकत्वमेव वेति नियमस्तु न युक्त इति ध्वनयन्नाह-*मतमेव न इति॥४७॥ पर्यवसितमुपसंहरन्नाह निपातत्वं परेषां यत्तदस्माकमिति स्थितिः। व्यापकत्वाच्छक्ततायास्त्ववच्छेदकमिष्यते ।। ४८ ॥ परेषां यन्निपातत्वम्-असत्त्वार्थकत्वे सति चाऽऽदिगणपठितत्वं शक्तिसम्बन्धेन निपातपदवत्वञ्चोपाधिर्वा जातिर्वा तदेवास्माकमपि, दर्पणः र्गस्तदभावरूपगतिवाचक” इति पुनराजेन तदर्थस्य कथनात् । वाचकत्वमेवेत्यस्य निपातानामित्यादिः, एवं द्योतकत्वमेवेत्यस्योपसर्गाणामित्यादिः । *मतमेवेतीति । *वा* । अथवाऽन्वयव्यतिरेकतो निपातानां वाचकत्वं युक्तम् । अस्माकं मते परेषां यदेकस्य वाचकत्वमपरस्य घोतकत्वमिति मतं, तदेव तु न युक्तमिति मूल. योजना ॥४७॥ ननु "चादयोऽसत्वे" (पा० सू० १११११७) इत्यत्राऽसत्त्व इति प्रसज्ज्यप्रतिषे. धाश्रयणेऽसमर्थसमासापत्तिर्वाक्यभेदापत्तिश्चेतिपर्युदास एवाश्रयणीयः । तथाचोक्तलक्षणस्याश्रयणेऽनर्थ के तस्मिन्नव्याप्तिः । तावदन्यतमत्वस्य निवेशे तु गौरवमत आह-*शक्तिसम्बन्धेनेति । तस्य लक्ष्यताऽवच्छेदकत्वमभिप्रेत्याह-*जातिरिति । निपातपदशक्यतावच्छेदकतया च तत्सिद्धिरिति भावः ।। ___ ननु हत्वादिना साङ्कऱ्यान्न निपातत्वं जातिः । तथाहि-निपातत्वाभाववति हत्वं धात्वादिहकारे, हत्वाभाववति निपातत्वं निपातात्मकचकारे तयोरकत्र हकारे समावेशात् । तत्दूषकताबीजं तु स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसम्बन्धेन जातिविशिष्टजातित्वावच्छेदेन स्वसमानाधिकरणाभावाप्रतियोगित्वनियमभङ्ग एव निरुपाधिसहचारग्रहश्च तादृशनियमेऽनुकूलस्तर्कः। अन्यथा तन्मात्रबलप्रवृत्तानां 'सत्तावान् जातेः' इत्याद्यनुमानानां विलयप्रसङ्गात् । अत एव 'भूतत्वं न जातिः' इति साम्प्रदायिकाः । हत्वादिव्याप्यनिपातत्वस्य नानात्वाभ्युपगमेन साङ्कय॑स्य परिहारेऽपि सकलचादिसाधारण्याभावेनाननुगततया तस्यैवासिद्धिनिष्प्रमाणत्वात् । किञ्च कायतावच्छेदकत्वादीनां जातित्वसाधकानां तत्राभावादपि न सा जातिः। शक्यतावच्छेदकत्वं परीक्षा णामित्यादिः ॥ ४७॥ ___ एतावता प्रबन्धेन पक्षद्वयव्युत्पादनेन यत्कृतन्तदानमोहनिवृत्तयेऽवतरणप्रदर्शनव्याजेनाह-*पर्य्यवसितमिति । "चादयोऽसत्वे इति सूत्रेऽसत्व इत्यत्र यदि प्रसज्यप्रतिषेधस्तदाऽसमर्थसमासस्य वाक्यभेदस्य चापत्तिरिति पर्युदास एवाश्रयणीयः। तथा चानर्थकनिपातानां पादपूरणकारणानाञ्चासङ्गहस्तत्राह-*शक्तिसम्बन्धेनेति । *जातिति* | निपातपदशक्यतावच्छेदकतया सिद्धा जातिरिति तदर्थः । नतु प्रत्वादिनासाडूय॑म् । प्रत्वाभाववति चशब्दे निपातत्वम् । निपात. वाभाववति विप्रशब्दघटकप्रशब्दे प्रत्वम् । निपातात्मकप्रशब्दे च तयोरेकनाभयोः
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy