SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३३७ निपातार्थनिर्णयः। णमात्रार्थमुपात्तानां संग्रहाय वार्तिकारम्भस्य कैयटादौ स्पष्टत्वात् । तस्य प्रत्याख्यातत्वाच्च । परेषामिति बहुवचनं मीमांसकसङ्ग्रहाय । केवलवृक्षशब्दात् समुश्चयाबोधाञ्चकारश्रवणे तद्वोधाञ्चकार एव तद्वाचको न द्योतकः । किञ्च द्योतकत्वे पदान्तराणां तत्र शक्तिः कल्प्या, चकारादेद्योतकत्वशक्तिश्च कल्प्येति गौरवं स्यादिति हि समुच्चयाधिकरणे स्थितम् । तदपि न युक्तमिति भावः। तथाहि--अन्वयव्यतिरेको तात्पर्यग्राहकत्वेनाऽप्युपयुक्तौ । घटादिपदानामेव समुञ्चिते लक्षणा, तात्पर्य्यग्राहकः प्रकरणादिव. च्चादिरिति स्वीकारान्न शक्तिद्वयकल्पनापि । अस्माकं लक्षणाग्रहदशायां बोधात्तत्चत्कार्यकारणभाव आवश्यकः । एवं शक्तिग्रहस्यापीति पक्षद्वयेऽपि कल्प्यान्तराभावेन गौरवाभावादुभयमपि युक्तमित्यभिमतम् । अत एव___ "स वाचको विशेषाणां सम्भवाद् द्योतकोऽपि वा”। इति वाक्यपदीयं सङ्गच्छते। दर्शनान्तररीत्या वाचकत्वमेव द्योत दर्पणः त्वायोगादिति भावः । *प्रत्याख्यातत्वाच्चेति । "कृत्तद्धित" (पा०सू० १।२।४६ ) इत्यत्र चशब्देनैव तदर्थस्य समुच्चितत्वादिति भावः ।। ___ वक्ष्यमाणास्वरसादाह-किञ्चेति । प्रकरणादिवदित्यनेन द्योतकतया वृत्तित्वाभावो ध्वन्यते । *अस्माकमिति* । पक्षद्वयाभ्युपगन्तृणामित्यर्थः। *कार्यकारणभाव इति । समुच्चितघटादिशाब्दबोधे घटपदनिरूपितलक्षणाज्ञानत्वेन हेतुतेत्याकारक इत्यर्थः । *शक्तिग्रहस्यापीति । घटद्यर्थबोधे घटशक्तिज्ञानस्य समुच्चयादिबोधे तच्छक्तिज्ञानस्य हेतुतेत्याकारकः कार्यकारणभावोऽप्यावश्यक इत्यर्थः ॥ ___ *कल्प्यान्तराभावेनेति । द्योतकतापक्षे वाचकतापक्षेऽपि तत्तत्पक्षक्लप्साधिककल्पनीयाऽभावेनेत्यर्थः । *अत एवेति ।' कल्प्यपक्षद्वये युक्तिसाम्यादेवेत्यर्थः । *स वाचक इति । उपसर्ग प्रक्रम्येदं 'प्रतिष्टत' इत्यत्र “गतिनिवृत्तिवाचकः स्थाधातुरुपस . परीक्षा श्वशब्दस्तेन तदर्थस्य क्रोडीसम्भवादिति शेषः। *सङ्ग्रहायेति । अधुना श्लोकस्थम्परेषां मतेनैतत्समुच्चयाधिकरणे मीमांसकैरुक्तं सर्वेषां वाचकत्वमेवेति; तन्नयुक्तम् , किन्तु द्योतकत्वमपीति व्याख्येयम् । वक्ष्यमाणास्वरसादाह-*किञ्चेति । वाचकत्वसाधिकां तदुक्ति खण्डयति-*अन्वयेति । तत्कार्यकारणभावः समु. ञ्चितघटादिविषयकशाब्दबोधे घटादिपदनिरूपितलक्षणाज्ञानत्वेन हेतुत्वमिति कार्यकारणभावः । *शक्तिग्रहस्यापीति । यथा-घटादिरूपार्थविषयकशाब्दबोधे घटादिशब्दज्ञानत्वेन हेतुत्वम् , तथा समुच्चितविषयकशाब्दबोधे तच्छक्तिज्ञानत्वेन हेतुत्वमित्यप्यनुभवानुरोधेन सममेवेति भावः। *अत एव*-पक्षद्वयेऽपि युक्त साम्यादेव। स: -उपसर्गः । *वाचकत्वमेव । निपातानामित्यादिः। *द्योतकत्वमेव । उपसर्गा ४३ ० ५०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy