________________
दर्पणपरीक्षासहिते भूषणसारे -
युक्तं वा न तु तद्युक्तं परेषां मतमेव नः ॥४७॥ एवञ्च धात्वर्थप्रातिपदिकार्थयोर्भेदेनान्वयबोधो न व्युत्पन्न इति निपातातिरिक्तविषयः । समानाधिकरणप्रातिपदिकार्थयोरभेदान्वय इत्यपि तथेत्यगत्या कल्पनीयमिति भावः । न त्विति । नैयायिकोक्तं प्रादिचाद्योर्वैषम्यमित्यर्थः ।
३३६
1
यत्तु सर्वेषां निपातानां वाचकत्वेऽर्थवत्सूत्रेणैव तेषां प्रातिपदिकत्वसम्भवाद्, “निपातस्यानर्थकस्य” इतिविधिवैयर्थ्यम् । सर्वेषां द्योतकत्वे "चानर्थकस्य " इति व्यर्थम् । तथाच केचिद् द्योतकाः, केचिद्वाचका इत्यभ्युपेयमिति । तन्न । एवं हि चादयो द्योतकाः प्रादयो वाचका इति वैपरीत्या वारणात् । सर्व्वथानर्थकानां पादपूर
दर्पण:
भवदुक्तरीत्यैव कर्त्तृविशिष्टभावनावाचकात् कर्मविशिष्टभावनावाचकात् केवलभावनावाचकाच्च धातोर्लकारा भवन्तीत्यर्थे, “लः कर्मणि" इत्यर्थपर्यवसानेन, 'अनिदिष्टार्थी' इति न्यायेनाऽपि तत्तत्कारकादिविशिष्टभावनाऽर्थकानां तिङां सर्वत्र सिद्धयसम्भवेन नियमस्यान्यथैव सङ्गमनीयत्वादित्यन्यत्र विस्तरः ।
ननु निपातानां वाचकत्वे 'घटो न पट' इत्यादौ घटादेः प्रतियोगितया नञर्थाभावे तस्य चाश्रयतया घटादावन्वयोऽनुपपन्नः । भेदसम्बन्धेन प्रातिपदिकार्थप्रकारक बोधे विशेष्यतया प्रत्ययजन्योपस्थितेतुतायां “नामाऽर्थयोर्भेदेनाऽन्वय" इति व्युत्पत्तिसिद्धत्वात् एवं “समानाधिकरणनामार्थयोः” इति व्युत्पत्तेरभेदेनान्वयापत्तिश्चेत्यत आह—*एवञ्चेति*। *विधिवैयर्थ्यमिति । तादृशवार्तिकेन प्रातिपदिकसंज्ञा विधानवैयर्थ्यमित्यर्थः । * अनर्थकस्येति । *व्यर्थमिति । व्यभिचाराभावेन तस्य विशेषण
परीक्षा
तिप्रत्ययौ”इतिनियमस्यौत्सर्गिकतया स्वीकारात् । "भावप्रधानमाख्यातम्, सत्वप्रधानानि नामानि इति । तुष्यतु भवांश्च । अपि च ' प्रविश' 'पिण्डीम्' इत्यत्र यथा प्रविशेत्यस्य श्रूयमाणस्य गृहं प्रविशेत्यर्थे शक्तिस्तथाऽजर्घाः ; अचकादित्यादौ प्रत्य
लोपेsपि श्रूयमाणस्य शक्तिरस्तु वाक्यैकदेशन्यायात् । यथा तत्र प्रविशेत्यत्र सभायां प्रविशेत्यथ शक्तिस्वीकारेऽपि प्रविशति स्त्रिलिङ्गमिति व्यवहारो न सार्वजनीन इति स्त्रीवाचकता न प्रविशेति ब्रूषे ; तदा मयापि ब्रु विधातुमात्रात्कर्त्राद्यर्थस्य प्रतीतावपि धातुर्न तेषां वाचकः, अपि तु प्रत्यय एवेति स्वीक्रीयते, अतो न तन्मते दोषसम्भावनेति दिक् ।
मूले नतु तत् । तत्परेषामत एव नोऽस्माकम्मतेन युक्तम् । यत्परैः प्रादयो द्यो तका, एवादयो वाचका इति स्वीक्रियते तन्न युक्तम्, अर्द्धजरतीयस्यायुक्तत्वादिति भावः । तटस्थस्य शङ्कां वारयितुमुपक्रमते यत्विति । *विधिवैयर्थ्यम् । तेन वार्तिकेन. प्रातिपदिकसंज्ञाविधानं वैयर्थ्यम् । व्यर्थमिति । अनर्थकस्येति विशेषणस्यैवं सति वैयर्थ्यमित्यर्थः । तस्य उक्तवार्तिकस्य प्रत्याख्यातत्वादिति "कृत्तद्धित इति सूत्रे अ