SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ निपातार्थनिर्णयः। ३३५ कर्तृविशिष्टभावनायां लक्षणास्तु, तात्पर्य्यग्राहकत्वमात्रं तिङादेः स्यादित्यरुचेः पक्षान्तरमाहनिपातानां वाचकत्वमन्वयव्यतिरेकयोः ॥ दर्पणः द्यर्थकत्वं, तेषां तात्पर्य्यग्राहकतयैवोपयोगादित्युक्तरीत्येत्यर्थः। तिकादेः स्यादिति । तत्रान्वयव्यतिरेकाभ्यां कादिवाचकत्वावधारणे तु प्रादीनामपि वाचकत्वावतिरिति भावः। परेतु 'अजर्घाः, अचकात्' इत्यादौ धातुमात्रात् कादिबोधेन तिङां द्योतकत्वे इष्टेवापत्तिः। ___ नच तत्र लुप्तविभक्तिस्मरणाद् बोधः । लोपमजानतोऽपि बोधात् प्रत्ययलक्षणस्य लोपफलत्वं वदता भाष्यकृता लुप्तविभक्तिस्मरणादू बोधस्यानभ्युपगमाच्च । यत्र प्रत्ययस्य वाचकता तत्रैव "प्रकृतिप्रत्ययार्थयोः" इति नियमावकाशो यथा 'पाचक' इत्यादिकृदन्ते । “लः कर्मणि" (पासू० ३।४।६९) इत्यादा कर्मकर्त्तविषयाद्धातोरित्य र्थान्न तद्विरोधः । "भावे" इत्यस्य सर्वेस्तथैव व्याख्यानात् ।। __नच सर्वत्रैव धातो वनाविषयत्वात्तत्रैव लकारः स्यादिति शडूयम् । भावविषयादित्यस्य केवलक्रियामात्रबोधकादित्यर्थेनादोषात् । अत एव "भावकर्मणो" (पा० सू० १।३।१३ ) “शेषात्कर्तरि परस्मैपदम्" (पा० सू० १।३।०९ ) "द्वयेकयोः" (पा० सू० १।४।२२ ) इत्यादीनां नियम इति भाष्यकृदुक्तिसङ्गतिः । तेषामनिर्दिष्टार्थत्वेन "अनिर्दिष्टार्थाः स्वार्थे भवन्ति" इति न्यायेन सर्वत्र सिद्धत्वादित्याहुः। तच्चिन्त्यम्-व्यतिसे इत्यादौ धातुं विनापि कर्तबोधेनाद्ययुक्तः शैथिल्यात् । तुल्ययुक्त्या सुपामपि द्योतकतापत्ते तोद्विवनचाद्यनुपपत्तेश्च प्रत्ययलक्षणस्य लोपफलत्वेऽपि लुप्सविभक्तिस्मरणजन्यबोधस्य फलत्वाभ्युपगमे बाधकाभावाच्च । स्वोत्तरतिवाच्यक दिगतद्वित्वारोपेण द्विवचनादिरिति स्वोकविरोधाच्च ।। परीक्षा यार्थस्य विशेष्यताया दर्शनाच्च । न चैवं "लः कर्मणि" इत्यादिसूत्रस्वारस्यभङ्गा पत्तेरिति वाच्यम् । “कर्तरि"इत्यादिसप्तम्या विषयत्वार्थकत्वकर्तृकर्मविषयात् । भुविधातोरिति तत्रार्थ इत्यदोषात् । अत एव "भावे" इत्यनेन सारूप्यमपि । नच यत्र कर्तृकर्मणोः प्रतीतिस्तत्रापि धातो वनाविषयकतया तत्रापि भावे लकारविधिः स्यादिति वाच्यम् । सकर्मकेभ्यः कर्मणीति विशेषानुवादे नैतेभ्यो भावे लकारानभ्युपगमात् । पञ्चकस्य धात्वर्थत्वादेव "भावकर्मणोः" “शेषात्कर्तरि परस्मैपदम्" "द्वयेकयोद्विवचनैकवचने” इत्यस्य च नियमार्थत्वं भाष्यकृदुक्तं साधु सङ्गच्छत इति वदन्ति । तन्न । यत्र धातोरग्रे श्रवणं प्रत्ययमात्रस्यैव, श्रवणं व्यतिस इत्यत्र यथा तत्रापि का. द्यर्थप्रतीतिरनुभवसिद्धा, सा यदि धातुस्मरणेनेति ब्रवीषि, तदा यत्र प्रत्ययस्य लोपो धातुमात्रस्य श्रवणात्तत्र लुप्तविभक्तिस्मरणेन कर्ताद्यर्थप्रतीतिरित्यपि स्वीकार्यम् । तुल्ययोगक्षेमत्वादितिरीत्या धातुप्रकृतिकतिडावाचकतायाः सिद्धः। __ अत एव स्वोत्तरतिड्वाच्यकर्ताद्यर्थ द्वित्वाधारोपेण द्विवचनादीति भवदीयो. किरपि सङ्गच्छते। नचैवं कर्नाद्यर्थे यतेः प्रयत्न इव प्राधान्यापत्तिरिति वाच्यम् । “प्रक
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy