________________
३३४
दर्पणपरीक्षासहित भूषणसारेउपसर्गेण धात्वर्थो बलादन्यः प्रतीयते ।
प्रहाराहारसंहारविहारपरिहारवदिति ॥ अत्रोपसर्गपदं निपातोपलक्षणम् । धातुपदं पदान्तरस्येति बोध्यम्॥४६॥
नन्वन्वयव्यतिरेकाभ्यां निपातानां तत्तदर्थवाचकत्वमेव युक्तम् । बोधकतारूपशक्तरबाधात् । किञ्चोक्तरीत्या पचतीत्यादौ धातोरेव
दर्पणः ननु 'उपसर्गेण धात्वर्थ' इत्यत्र निपातत्वव्याप्योपसर्गत्वेन प्रादीनामुपादानात् कथं सच्चादीनां द्योतकत्वे उपष्टम्भकमत आह-*उपसर्गपदमिति* । *पदान्तरेति । चन्द्र इव मुखमित्यादावर्थवत्त्वेन चन्द्रादीनामुपलक्षकमित्यर्थः । एवञ्च न तद्बलान्निपातानां वाचकत्वमिति भ्रमितव्यमिति भावः ॥ ४६॥
इदानी वाचकतापक्ष परिष्करोति-नन्विति । *अन्वयव्यतिरकाभ्यामिति । चन्द्र इव मुखमित्यादाविवादिनिपातसत्त्वे सादृश्याद्यर्थप्रतीतेस्तदसत्त्वे तदप्रतीतेश्च निपातानां घटादिपदवद्वाचकत्वमेव युक्तमित्यर्थः । नन्विच्छादिरूपशक्तेरभावात् कथं तेषां वाचकत्वमत आह-*बोधकतारूपेति । तथाच तदर्थबोधकत्वमेव तद्वाचकत्व. मिति तेषामपि घटादिपदवद्वाचकत्वमेवेत्यर्थः ।
नन्वन्वयव्यतिरेकयोस्तदर्थतात्पर्य्यग्रहे उपयोगस्य प्रागभिहितत्वान्न तयोर्वाच. कताप्रयोजकत्वमत आह-*किञ्चेति । *उक्तरीत्येति । अनन्यलभ्यस्यैव शब्दार्थतया प्रजयतीत्यादौ प्रकृष्टजयस्य लक्षणया जिधातोरेवोपस्थितौ न प्रादीनां प्रकर्षा
परीक्षा न्तर समर्थयते-*नन्वान्वयव्यतिरेकाभ्यामित्यादिना* । स्वादिशब्दसमभिव्याहारे तेषामर्थाश्चन्द्र इव मुखमित्यादौ प्रतिपत्तेः, तदभावे तु नेत्येवं रूपान्वयव्यतिरेकाभ्यामित्यर्थः । निपाता:-वाचकाः, स्वसमभिव्याहारप्रयोज्यार्थप्रतीतिकत्वात् । घटादिशब्दवत् । अत्र पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धे उद्देश्यत्वान्न भागासिद्धिरनर्थकनिपातान्तभावेणेति बोध्यम् । नन्विच्छारूपा शक्तिरेष्यतीत्यत्र प्रमाणाभावाकथं वाचकत्वमत आह-*बोधकतेति । नन्वन्वयव्यतिरेको तात्पर्यग्राहकत्वसाधका. वेवास्ताम्, तमाह-*किञ्चोक्तेति । *उक्तरीत्या । प्रजपतीत्यादौ जिधातोरिव प्रकर्षविशिष्टजपादिबोधकत्वमस्तु, प्रादीनां तत्तदर्थतात्पर्यग्राहकतयोपयोग इत्युक्तरीत्या । यदि त्वन्वयमतिरेकात्तिक वाचकत्वम्भवत्सम्मतं स्यात्तदा निपातानामपि वाचकत्वमुपेयमिति भावः।
केचित्तु-न तिडामुक्तरीत्या वाचकत्वाभावापत्तिभिया निपातानामप्यन्वयव्य. तिरेकाभ्यां वाचकत्वस्य स्वीकरणमुचितम् । तिङांवाचकत्वाभावे इष्टापत्तेः । धातूनामेव वाचकत्वमत एव 'पञ्चकं धात्वर्थ' इति प्रवादोऽप्युपपद्यते । अत एव यत्र तिङान्न श्रवणम् "अजर्घाः 'अचकात्' इत्यादौ तत्र काद्यर्थप्रतीतिरप्युपपन्ना भवति । लुप्तविभक्तिस्मरणाबोध इति तु मतं "प्रत्ययलोप" इति सूत्रस्य प्रत्ययनिमित्तककार्यमात्रफलकत्वं वदता भाष्यकृता तिरस्कृतम् । अत एव काद्यर्थानां विशेषणत्वं धात्व. र्थस्य विशेष्यत्वमिति सङ्गच्छते । प्रत्ययस्य यत्र तद्धितान्तादौ वाचकता तत्र प्रत्य.