________________
निपातार्थनिर्णयः। कात् सुबुत्पत्तिः । “निपातस्यानर्थकस्य" इतिवार्तिकाद्वा प्रातिपदिकंत्वम् । “कृत्तद्धितसमासाश्च” (पा० सू० १।२।४६) इत्यनुक्तसमुचयार्थकचकारेण निपातानां संग्रह इति वा बोध्यम् । तस्माद् युक्तं निपातानां द्योतकत्वम् । उक्ताश्चाकृत्यधिकरणवात्तिके
चतुविधे पदे चात्र द्विविधस्यार्थनिर्णयः। क्रियते संशयोत्पत्ते!पसर्गेनिपातयोः ॥ तयोराभिधाने हि व्यापारो नैव विद्यते । तदर्थद्योतको तौ तु वाचकः स विचार्यते ॥ इति ॥
दर्पणः . . . दिति । द्योतकतावादे तेषामनर्थकत्वादेव सुबभावे लुग्विधानमर्थकं सदुक्तार्थे ज्ञापकमिति भावः। .. ___ ननु स्वरादीनां सत्त्ववचनानामपि सत्त्वात्तद्विहितसुब्लुग्विधाने चरितार्थस्य तस्य न ज्ञापकत्वमत आह-निपातस्येति । तद्वार्तिकप्रत्याख्यानेत्वाह*कृत्तद्धितेति* । *सङ्ग्रह इति । अनर्थकस्याऽपि निपातस्य प्रातिपदिकत्वमित्यर्थः । उपसंहरति-*तस्मादिति । एतत्कल्पे मीमांसकसम्मतिमाह-*उक्तञ्चेति । *चतुर्विध इति । नामाख्यातोपसर्गनिपातभेदेन चतुःप्रकार इत्यर्थः । *पदे*-- सुप्तिङन्तरूपे । द्विविधस्य* । नामाख्यातस्वरूपस्य । अर्थनिरूपणे हेतुमाह--*संशयोत्पत्तेरिति। ___ नामार्थो जातिः, किंवा व्यक्तिः, धात्वर्थो व्यापार, उत फलं, किं वोभयमिति सन्देहे तन्निरूपणस्यौचित्यायातत्वादिति भावः । *तयोः*-निपातोपसर्गयोः । *व्यापारः*-शक्तिलक्षणान्यतररूपः । *तौ*-उपसर्गनिपातौ । यदर्थद्योतको* । यदर्थविषयकतात्पर्यग्रहजनको । *स:*-नामाख्यातात्मकः शब्दः । तस्य च तिकृत्तद्धितघटितत्वात्तदर्थोऽपि विचार्य्यत इत्यर्थः।
यद्यपि स्वाद्यन्तत्वनिबन्धनं नामत्वमुपसर्गनिपातयोरपीति तयोः पार्थक्येन नि:शोऽनुचितः, तथापि लिङ्गसङ्ख्यानिष्ठप्रकारतानिरूपितविशेष्यताशाल्यर्थकत्वरूपपा. रिभाषिकनामत्वमादाय तथोक्तम् । उपसर्गाणां निपातत्वेऽपि तदुपादानं तु ब्राह्मणवसिष्ठन्यायेनेति बोध्यम् ।
परीक्षा
कमत आह-निपातस्येति । उपसंहरति-*तस्मादिति । स्वीयसिद्धान्तेऽन्यसम्मतिमाह-*उक्तं चेति । *चतुर्विधे*-नामाख्यातोपसर्गनिपातरूपे। सुबन्तन्नामः, तिङन्तमाख्यातम् । *नैव विद्यत इति । शक्तिलक्षणयोनॆववृत्तित्वमित्यभिमानेनेदम् । *तौ*-उपसर्गनिपातौ। *धातुपदम् । धात्वर्थइत्यत्रोपात्तधातुपरम् ॥४६॥ . ननु प्रागुक्ताकृत्यधिकरणवार्त्तिके उपसर्गनिपातयोः पृथगुपादानं व्यर्थम् । तेषामपि सुवचत्वेन नामपदेनैव सङ्ग्रहादिति चेद् ? न । लिङ्गाद्यन्वय्यर्थप्रतिपादके हि नामेति परिभाषामादाय पृथगुपादानात् उपसर्गाणान्निपातत्वेऽपि पृथगुपादानं गोबलीवर्दन्या. येन । पदान्तरस्य चन्द्र इव मुखमित्यादिके चन्द्रादिपदस्य द्योतकतापक्षं समर्थ्य पक्षा