________________
४३८ दर्पणपरीक्षासहिते भूषणसारेननु का सा जातिस्तत्राहसत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ ॥ सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः ॥७३॥
प्रतिभावं प्रतिपदार्थम् । सत्यांशो जातिः, असत्या व्यक्तयः। तत्तयक्तिविशिष्टं ब्रह्मैव जातिरिति भावः। उक्तञ्च कैयटेन"असत्यो. पाध्यवच्छिन्नं ब्रह्मतत्वं द्रव्यशब्दवाच्यमित्यर्थः” इति। "ब्रह्मतत्त्वमेव शब्दस्वरूपतया भाति" इति च ।
दर्पणः पुरुषार्थाऽनुपयोगित्वादित्याशङ्कय समाधानपरतया मूलमवतारयति-*ननुका सेति । सा वाचकत्वेनाभिमता जातिः केति योजना । *सत्यांश इति । सत्यत्वं कालत्रयाबाध्यत्वं, तद्विपरीतमसत्यत्वम् । पर्य्यवसितार्थमाह-*तव्यक्तीति । तद्व्यक्त्युपलक्षितमित्यर्थः। परमार्थब्रह्मणा व्यक्तीनां वैशिष्ट्यासम्भवात् । अत एव जगत्कर्तृत्वादीनां तदुपलक्षणत्वमामनन्तीति बोध्यम् । *जातिरिति । तद्व्यवहारविषय त्यर्थः। *असत्योपाधीति* । व्यक्तीनामुपाधित्वं च, वस्तुत एकस्या अपि नानाप्रतीतिजनकत्वं तदवच्छिन्नं तदुपलक्षितमित्यर्थः । *द्रव्यशब्देति । गवादिशब्देत्यर्थः । गुणगतजातेरनडीकारादथवा द्रव्यात्मको यश्शब्दस्तद्वाच्यमित्यर्थः। मीमांसकैः शब्दस्य द्रव्यत्वोपगमात् । *शब्दस्वरूपतयेति* । श्रुत्यात्मकशब्दरूपतयेत्यर्थः। "द्वे ब्रह्मणी वेदितव्ये" इति श्रुतेः । ____ अयमाशयः-"तस्मादेतस्माद्वा आत्मन आकाशः सम्भूत" इत्यादितैत्तिरीयकश्रुतौ ब्रह्मणो जगदुपादानत्वश्रवणादुपादेयस्य चोपादानाभिन्नत्वस्य लोकप्रसिद्धत्वा. नामार्थयोरपि स्वाभिन्नोपादानाभिन्नत्वेन परस्पराभिन्नत्वे सुस्थे पृथक्प्रतीयमानजगतो, “नेह नानास्ति" इति श्रुत्या बाधे दृढे, बाधितार्थप्रतीतेरधिष्ठानसत्तैकनियम्यत्वेनावशिष्यमाणब्रह्मणः सद्रूपस्य साक्षाज्ज्ञातुमशक्यतयोपलक्षणीभूतरूपनामनिरूप.
परीक्षा यति-*सत्यासत्याविति । *सत्यम् = कालत्रयाबाध्यम् । तद्विपरीतमसत्यम् । ___ ननु जीवे ब्रह्मात्मकत्वे तस्यैकत्वात्पटेऽपि घटत्वव्यवहारापत्तिरतः पर्यवसितार्थ. माह-*तत्तद्वयक्तीति । विशिष्टम्*-उपलक्षितम्।जगत्कर्त्तत्वादिकमप्युपलक्षित एव । जातिः जातिपदव्यवहार्यः । व्यक्तीनामुपाधित्वञ्च-यथा जपाकुसुमसन्निधाने लोहितः स्फटिक इति व्यवहाराज्जपाकुसुमे उपस्वसमीपवर्तिनि स्वनिष्ठं धर्ममादधातीत्युपा. धिरिति व्युत्पत्या स्वसमीपतिविशेष्यकस्वनिष्ठधर्मप्रकारकप्रतीतिजनके उपाधिव्यवहारस्तथा व्यक्तीनानानात्वात्तदुपश्लेषेण वस्तुत एकस्यापि ब्रह्मणो नानात्वप्रकारकप्रतिभासजनकत्वेन द्रव्यशब्देति द्रव्यप्रतिपादकघटपटादिशब्देत्यर्थः । यद्वा-द्रव्यात्मको यः शब्दस्तद्वाच्यमित्यर्थः । तेन गुणादिगतजातेरपि सङ्ग्रहः । मीमांसकमतेशब्दस्य द्रव्यरूपत्वात् ।*शब्दरूपतया-वाचकशब्दरूपतया वेदात्मकशब्दरूपतयाच।
अयम्भावः-द्वयोरपि वाच्यवाचकयोरुपाध्युपलक्षितब्रह्माभिन्नतया शास्त्रस्य चास्य वाच्यवाचकज्ञानाय प्रवृत्तः "नेह नास्ति" इतिवाक्यसहायेन वस्तुगत्योपाधिव्यवच्छेदे