SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ जातिस्फोटनिर्णय: । नसिद्धत्वादिति । कैश्चिद्व्यक्तयो ध्वनय एव ध्वनिवर्णयोर्भेदाभावादित्यभ्युपेयन्त इति शेषार्थः । ४३७ उक्तं हि काव्यप्रकाशे - "बुधैर्वैयाकरणैः प्रधानीभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः” इति ॥ ७२ ॥ दर्पण: वस्तुतस्तु घटादिप्रत्येक व्यक्त्यैक्ये घट इति सर्वसिद्धप्रतीत्या व्यवहारेण च सिदूध्यतु घटत्वादेः प्रत्येकमात्रवृत्तित्वम् । न ह्येकवणें घटपदादिव्यवहारो, येन पदत्वादेः प्रत्येकवृत्तिता स्यात् ; किन्तु पटशब्दे पदं न प्रकार इति वैपरीत्यमिति तादृशजातेः पर्याप्तत्वमावश्यकम् । पदत्वं न पर्याप्तं जातित्वादित्यनुमानं त्वप्रयोजकमनुकूलतर्काभावादिति विभावनीयम् । S. इदं पुनरिहावधेयम् — अनेक व्यक्त्यभिव्यङ्गयेत्यस्यानुपूर्व्यवच्छिन्नवर्णाभिङ्ग्येत्यर्थः । नातः सरो रस इत्यादौ अर्थभेदबोधाऽनुपपत्तिः । एवञ्च पूर्वोक्तार्थस्यैवाऽयं प्रपञ्चः । आनुपूर्वीवर्णयोर्विशेषणविशेष्यभावव्यत्यासः परं व्यतिरिच्यते । अत एवा- ऽग्रिमग्रन्थसङ्गतिरिति । व्यज्यतेऽनयेति व्युत्पत्या व्यक्तिपदार्थो वर्ण इत्यभिप्रेत्याह*ध्वनिवर्णयोरिति । वर्णानां ध्वनिनैयत्यादभेदोपचारोऽत एव पस्पशायां "अथ गौरित्यत्र कः शब्द" इति प्रश्ने “लोके ऽर्थबोधकत्वेन गृहीतो ध्वनिर्वर्णात्मकः समूह” इत्यर्थकम् । “अथवा प्रतीतपदार्थको ध्वनिः शब्द" इत्युक्तमिति भावः । *शेषार्थ इति । प्रकृतकारिकोत्तरार्द्धार्थ इत्यर्थः । वर्णेषु ध्वनिव्यवहारे सम्मतिमाह-उक्तं हीति । *काव्यप्रकाश इति । “इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः” । इति वृत्तिव्याख्यावसर इति शेषः । *स्फोटरूपव्यङ्गयेति ॥ स्फोटरूपं यद् व्यङ्गयं तद्वयञ्जकवर्णात्मकशब्दस्येत्यर्थः ॥ ७२ ॥ Faraar प्रबन्धेन पदत्वादेर्जातित्वस्य तद्वाचकत्वस्य च व्यपस्थापनमफलं, परीक्षा म्बन्धेनेनाति शङ्काया नावकाशः । यदिसा प्रत्येकं विश्रान्ता स्यात्तदा वाचकत्वानुपपतेरपरिहारात्तत्सिद्धिरेव न स्यादिति भावः । नन्वनेकाभिर्वर्णव्यक्तिभिर्व्यङ्गया जातिरित्यनुपपन्नम्वर्ण व्यक्तीना आतिव्यञ्जकताया अप्रसिद्धत्वादित्याशङ्कामपनेतुं तत्र प्रामाणिकसम्मतिमाह — कैश्विद्वयक्तय इति । *अस्याः जातेः । आश्रयत्वं षष्ठयर्थः । व्यज्यतेऽनया सा व्यक्तिरिति व्युत्पत्या व्यक्तिपदवाच्यो वर्ण एवेत्याशयेनाह-वनिवर्णयोरिति। *शेषार्थः * - प्रकृतकारिकाया उत्तराद्धार्थः । उक्तार्थे काव्यप्रकाशकारसम्मतिमाह-उक्तं हीति । *काव्यप्रकाशे* । इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः । इति पथव्याख्यावसर इति शेषः । *स्फोटव्यङ्ग्यव्यञ्जकस्य । स्फोटरूपं यद्व्यङ्ग्यन्तद्व्यञ्जकस्य ॥ ७२ ॥ मनु जातेर्वाचकत्वमुक्तन्तदनुपपन्नम् । तादृशजातेरप्रसिद्धत्वादतो जाति प्रकट
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy