________________
४३६ दर्पणपरीक्षासहिते भूषणसारे
अनेकाभिर्वर्णव्यक्तिभिरभिव्यक्तैव जातिः स्फोट इति स्मृता । योगार्थतया बोधिकेति यावत्। एतेन स्फोटस्य नित्यत्वात्सर्वदार्थबोधापत्तिरित्यपास्तम् ।
अयम्भावः-यद्यपि वर्णस्फोटपक्षे उक्तदोषोऽस्ति; तथापि पद. वाक्यपक्षयोर्न । तत्र तस्या व्यासज्यवृत्तित्वस्य धर्मिग्राहकमा.
दर्पणः बोधापत्तिरिति ॥ तदभिव्यञ्जकवर्णसत्त्वादिति भावः ॥ श्योगार्थतयेति ॥ स्फुट. त्यर्थोऽस्मादिति वक्ष्यमाणावयवव्युत्पत्येत्यर्थः ॥ *एतेनेति । तत्पदघटकयावद्वर्णाभिव्यक्तजातेर्वाचकत्वाङ्गीकारेणेत्यर्थः । *सर्वदा । पदाश्रवणेऽपि । *अपास्तमिति* जातेः सनातनत्वेऽप्युक्तस्थले व्यञ्जकासमवधानात्तदभिव्यक्त्यभावेन बोधस्यापादा. यितुमशक्यत्वादिति भावः ॥
ननु वर्णजातिस्फोटपक्षे पटघटकयावद्वर्णगतजातीनामेवार्थबोधकत्वमुपगन्तव्यम् । तत्र चान्यवर्णगतजातेरन्यवर्णानभिव्यङ्गयत्वात्तत्तद्वर्ण एवाभिव्यञ्जको वाच्यः । तथा चोक्तदोषस्तदवस्थ एवेत्यत आह-अयम्भाव इति* ॥ *उक्तदोष इति ॥ तथाच दुष्टत्वात् स पक्षो नाश्रयणीय इति भावः॥ *तत्रेति* ॥ पदे वाक्ये च ॥ *तस्याः*पदत्वादिजातेः ॥ *व्यासज्यवृत्तित्वस्येति ॥ पर्याप्त्याख्यविलक्षणसम्बन्धेन वृत्तित्वस्येत्यर्थः। __ ननु जातेः समवेतत्वस्यैव सार्वत्रिकतया कथमेतस्याः पर्याप्तत्वमत आह-*धर्मिग्राहकेति* ॥ धर्मवती जातिस्तद्ग्राहकं मानं पदत्वस्य वा वाक्यत्वस्य वाचकत्वाऽनुपपत्तिस्तत्सिद्धत्वादित्यर्थः । प्रत्येकवर्णविश्रान्तजातेर्वाचकत्वस्योक्तदूषणकवलितत्वेनासम्भवाद्वाचकत्वानुपपत्त्या कल्प्यमाना पदत्वादिजातियदि पुनः प्रत्येक विश्रान्ता स्यात् । तदा तत्सिद्धिरेव न स्यात् वाचकत्वाऽनुपपत्तेरपरिहारादतस्त. त्साधकमेव तत्पर्याप्तत्वसाधकमेवं चानेकव्यक्त्यभिव्यड्ब्येत्यस्यानेकव्यक्तिपर्याप्तेत्यर्थ इति भावः।
परीक्षा ति* । *प्रत्येकवर्णेषु । पदान्तर्गततत्तद्वर्णेषु। *वर्णव्यक्तिभिरिति । आनुपूर्वीविशेषावच्छिन्नवर्णव्यक्तिभिरित्यर्थः । श्योगार्थतया*-स्फुटत्यर्थोऽस्मादिति योगार्थतया। एतेन । तत्तत्पदघटकयावद्वर्णाभिव्यङ्गयत्वविशिष्टजातेर्बोधकत्वस्वीका. रेण । *स्फोटस्य-जातिरूपस्य । .. *वर्णस्फोटपक्ष इति । तस्मिन्पक्षे वर्णगतजातेर्बोधकत्वं वक्तव्यम् , तथा चान्त्यवर्णगतजातेरन्त्यवर्णविषयकप्रतीत्यविषयत्वात्तत्तद्वर्ण एव तत्तजातिव्यञ्जक. स्तथा चोक्तदोष इति भावः। *तत्र*-पदवाक्ययोः। *तस्याः*-जातेः, व्यासज्यवृत्तित्वस्य पर्याप्तिसम्बन्धेन सत्वं प्रसिद्धम् । व्यासज्यवृत्तित्वन्तु जातेनास्ति । तस्या व्यासज्यवृत्तिस्वभावत्वात् । *धर्मिग्राहकमानेति । धर्मो जातिरूपः पदार्थः , तदुप्राहकन्तत्साधकं यन्मानम्पदवाक्ययोर्षोधकत्वान्यथानुपपत्तिरूपन्तसिद्धत्वादित्यर्थः । एतेन जाते. समवायसम्बन्धेनैव सत्वन्नतु पर्याप्त्याख्यस