________________
जातिस्फोटनिर्णयः।
४३५ तस्मात् सा जातिरेव वाचिका, तादात्म्येनावच्छेदिका चेति ।।
ननु सरो रस इत्यादौ तयोर्जात्योः सत्वादर्थभेदबोधो न स्यादित्यत आह-*मोपाधिको वेति* ॥ वा त्वर्थे उपाधिरानुपूर्वी, सैव जातिविशेषाभिव्यक्षिकेति भेदः, कारणीभूतज्ञानस्येति नातिप्रसङ्ग इति भावः । उपाधिप्रयुक्तज्ञानवैलक्षण्ये दृष्टान्तमाह-*वर्णानामिति ॥७॥
ननु जाते. प्रत्येकं वर्णष्वपि सत्त्वात् प्रत्येकादर्थबोधापत्तिः स्यादित्यत आहअनेकव्यक्त्यभिव्यङ्गया जातिःस्फोट इति स्मृता ॥ कश्चित् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ॥७२॥
. दर्पणः त्वविशिष्टसकलतद्वृत्तित्वरूपतया तत्त्वाऽसम्भवो गौरवादत आह-*तादात्म्येनेति॥ अभेदेनेत्यर्थः । तथाच नोक्तदोष इति भावः। एतत्तत्त्वमभिहितं प्राक् ॥ *जात्योरिति* ॥ तयोः पदयो रेफाकारसकारविसर्गघटितत्वाविशेषाद्रसत्वविशिष्टोपस्थापकतावच्छेदकसरस्त्वविशिष्टोपस्थापकतावच्छेदकजात्योरेकतरस्या एव सत्ताया विनिगमकाभावात्ततो विलक्षणार्थबोधानुपपत्तिरित्यर्थः । वाशब्दस्य पक्षान्तरपरत्वभ्रमं निराकारोति-*वा त्वर्थ इति* ॥ अवधारणे इत्यर्थः ॥ *भेद इति* ॥ तथाच तत्र वर्णतौल्येऽप्यानुपूर्वी वैलक्षण्येन रसत्वविशिष्टोपस्थापकतावच्छेदकजातेनिरुक्ताव्यवहितोत्तरत्वसम्बन्धेनर-विशिष्टसत्त्वादिरूपानुपूर्त्या एव व्यञ्जकतया तदभावेन न सर:-पदाद्रसत्वविशिष्टबोधापत्तिः । एवमप्यत्रापीति भावः। मूले तारमन्दवदित्यत्र तारमन्दशब्दो धर्मपरौ । तथा च यथा वर्णानां नित्यैकत्वमते विजातीयवायुताल्वाद्यभिघातसत्त्वे तारत्वादिना भेदप्रतीतिस्तद्वदित्यर्थः ॥ ७१॥ ___ वर्णजातिस्फोटमभिप्रेत्य शङ्कते, सारे-*नन्विति* ॥ *जातेरिति* ॥ अर्थबोधकजातेरित्यर्थः ॥ *प्रत्येकमिति* ॥ पदान्तर्गततत्तद्वणेष्वित्यर्थः। एवमप्रेऽपि ॥ *अर्थ.
परीक्षा वाच्यमिति गौरवमत आह-*तादात्म्येनेति । ____*जात्योरिति । भाक्तयोः पदयोः सकाररेफाकारविसर्गघटितत्वाविशेषेणासरत्वो. पस्थापकतावच्छेदकजातेः सरस्त्वोपस्थापकताच्छेदकताऽपिस्यादेकस्या एकत्रैव सत्त्वमित्यत्र विनिगमकालाभादिति भावः । वा शब्दस्य पक्षान्तरसूचकत्वमिति भ्रमनिरासायाह-*वा त्वर्थ इति । एवञ्चैवकारार्थो वाशब्द इति फलितम् । *आनु. पूर्वीति । एवञ्च स्वाव्यवहितोत्तरत्वसम्बन्धेन रविशिष्टसत्वघटितायाश्च सरस्त्वोपस्थापकतावच्छेदकजातिव्यञ्जकतावच्छेदिका च सर इत्यत्र नास्तीति न सरःशब्दाद्रसत्वोपस्थित्यापत्तिरिति भावः। मूले-*तारमन्दशब्दौर-तारत्वमन्दत्वपरौ। तथा चमीमांसकमते यद्यपि वर्णानान्नित्यैकत्वम् , तथापि विजातीयकर्णवायुसंयोगरूपाभिव्यञ्जकतारतम्येन यथा तारत्वमन्दत्वादिविभिन्नधर्मप्रतीतिसद्भावादित्यर्थः ॥ ७१ ॥ ___ ननु जातेर्वर्णसमुदायवृत्तित्वाद्वर्णसमुदायस्याद्यावयवानतिरेकाज्जातेरव्यासज्यवृत्तित्वस्य स्वभावसिद्धत्वात्प्रत्येकवर्णादर्थबोधापत्तिरित्याशयेन शकते- *नन्वि