________________
४३४ दर्पणपरीक्षासहिते भूषणसारे
तस्मात् सन्त्येव वर्णाः; परन्तु न वाचकाः। गौरवात् । आकृत्य धिकरणन्यायेन जातेरेव वाच्यत्ववद्वाचकत्वस्यापि युक्तत्वाच्च । इदं हरिपदमित्यनुगतप्रतीत्या हर्युपस्थितित्वावच्छेदेन हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेदकतया च जातिविशेषस्यावश्यकल्प्यत्वात् । ___ न च वर्णानुपूव्यैव प्रतीत्यवच्छेदकत्वयोनिर्वाहः। घटघटत्वादेरपि संयोगविशेषविशिष्टमृदाकारादिभिश्चान्यथासिद्ध्यापत्तेः ।
रवादिति विभावनीयम् । उपसंहरति-*तस्मादिति ॥ कत्वादिविशिष्टविषयकसा. क्षात्कारानुपपत्तिप्रमाणसद्भावादित्यर्थः ॥ *सन्त्येवेति ॥ त्वदभिमतस्फोटातिरिक्ता वर्णाः सन्त्येवेत्यर्थः ॥ *परमिति ॥ किन्त्विर्थः ॥ *गौरवादिति ॥ तत्तद्वर्णभेदभिन्नाऽनन्तशक्तिकल्पने गौरवादित्यर्थः ।।
ननु तावद्वर्णगतपदत्वादिजात्यजुगतीकृतेष्वेकस्या एव शक्तेरभ्युपगमान्न नाना. त्वप्रयुक्तगौरवमत आह-*आकृत्यधिकरणेति । न्यायस्तु नामाऽर्थनिरूपणे प्रपञ्चितः । ननु तादृशजातौ मानाऽभावोऽत आह-*हरिपदमिति ॥ अनुगतधर्म विना सकलताशपदेष्वेकाकारताशप्रतीत्यनुगपत्तेरिति भावः । नन्वनुगतप्रतीतिमात्रस्य जातिसाधकत्वे विभुत्वादेरपि जातित्वापत्तिरतः करणतावच्छेदकत्वादिनैव तत्सिद्धिर्वाच्या, तदभावात् प्रकृते कथं तस्य जातित्वमत आह-*हर्युपस्थितित्वा. वच्छेदेनेति॥ कार्यतावच्छेदकप्रदर्शनमिदम् ॥ *आवश्यकेति॥ अन्यथा तावत्पदानां तत्तव्यक्तित्वेन हेतुताया व्यभिचारेणासम्भवादिति भावः ॥ *प्रतीत्यवच्छेदकत्वयो. रिति* ॥ अनुगतप्रतीत्यवच्छेदकत्वयोरित्यर्थः । *वर्णानुपूव्येति ॥ तादृशजात्य. भिव्यञ्जकत्वेनावश्यकल्प्यतयेत्यर्थः ॥ *निर्वाह इति ॥ तथाचावश्यक्लप्तनियतपूर्ववृ. त्तितावच्छेदकताकानुपूव्येवानुगतप्रतीतिकारणतावच्छेदकत्वयोः सम्भवेन तद्रूपवि. शिष्टपदोपस्थितित्वेन हेतुत्वमन्यथासिद्धिरिति भावः ॥ *अन्यथासिद्धथापत्तेरिति* ॥ न च सेष्टा, प्रत्यक्षाऽऽदिप्रमाणविरोधादिति भावः।। ननु जातेः शक्यत्वे जातित्वं शक्यतावच्छेदकं वाच्यम् । तस्य च तदितरावृत्ति
परीक्षा *तस्मात्*-उक्तहेतोः । *सन्त्येव-त्वदभिमतस्फोटातिरिक्ताः सन्त्येव । *यस्तु*-किन्तु । *गौरवात् । बहूनां वाचकत्वे गौरवात्। ननु पदत्वजात्याऽनुगममात्रगौरवावकाश इत्यत आह-*आकृत्यधिकरणेति। तादृशजातिसद्भावे प्रमाणमाह--*इदमित्यादि। अनुगमप्रतीतिमात्रेण जातिसिद्धौ विभुर्विस्विति प्रतीत्या विभुत्वजातिसिद्धयापत्तिरतः साधकान्तरमाह-*हर्युक्तेति । *अवश्येति। अन्यथा तत्तदुपरि पदनिष्ठतत्तद्वयक्तित्वस्य कारणतावच्छेदकतावच्छेदकत्वे आनन्त्यव्यभिचारयोरापत्तिः स्यात् ।। ___ तादृशजात्यभिव्यञ्जकतावच्छेदकतया क्लृप्तानुपूल्यैव भवदुक्तव्यवस्था ह्यतिरिक्ता, इति जातिर्मास्त्विति शङ्कान्निराचष्टे-*न चेति । *घटत्वादेरिति । आदिना पटत्वादिपरिग्रहः । *आकारादिभिः*-अवयवसंयोगविशेषैः। परम्परासम्बन्धस्यावच्छेदकतावच्छेदकत्वप्रयुक्तगौरवन्तूभयोः सममिति भावः। ननु तत्त. ज्जातेः शक्तत्वनिष्ठन्तदितरावृत्तित्वविशिष्टसकलतदाश्रयवृत्तित्वमवच्छेदकतावच्छेदक