________________
जातिस्फोटनिर्णयः ।
४३३
रिक्तस्फोटकल्पन एव गौरवम् । अन्त्ये गकारादिप्रतीतिविरोधः ।
वायुसंयोगवृत्ति, ध्वनिवृत्ति वा वैजात्यमारोप्य तथा प्रत्यय इति चेद् ? न । प्रतीतेर्विना बाधके भ्रमत्वासम्भवात् । अस्तु वा वायुसंयोग एव गकारोऽपि । तस्यातीन्द्रियत्वं दोष इति चेद्धर्मवदुपपत्तेरिति कृतं स्फोटेन ।
दर्पणः
भेदाभ्युपगमादित्यर्थः ॥ *गौरवमिति ॥ गकारादिप्रतीतीनां गत्वादिविशिष्टगकारादिविषयकत्वेनोपपत्तिसम्भवादिति भावः । अन्त्ये स्फोटे गत्वाद्यनभ्युपगमकल्पे इत्यर्थः । *विरोध इति । गादिप्रतीत्यनुपपत्तिरित्यर्थः । गत्वस्यान्यधर्मस्य स्फोटावृत्तित्वेन तद्विशिष्टविषयकप्रतीत्यनुपपत्तिरिति भावः ॥
*वायुसंयोगवृत्तीति ॥ स्वमते ध्वनिवृत्तीति, मतान्तरे पूर्वोक्तरीत्या तादृशवैजात्यारोपेण प्रतीतेः सूपपादत्वादाह - *आरोप्येति* ॥ *भ्रमत्वायोगादिति ॥ साक्षात्सम्बन्धेन प्रमात्वोपपत्तावारोपितसम्बन्धे तदुपपन्नत्वे प्रमाणाभावादिति भावः ।
नन्वतिरिक्तानेकवर्णकल्पनापेक्षया तादृशप्रतीतीनां भ्रमत्वमेव न्याय्यमत आह*अस्तु वेति ॥ तथाच तावतैव प्रतीतेः प्रमाण्यनिर्वाहेऽलं स्फोटकल्पनयेति भावः । *तस्य*-संयोगस्य । *अतिन्द्रियत्वमिति । लौकिकविषयताशून्यमित्यर्थः । *दोषः बाधकमित्यर्थः । प्रतिबन्धोत्तरयति-धर्मवदिति ॥ यथा अतीन्द्रियमात्रवृत्तिधर्मत्वस्य साक्षात्काराविषयत्वव्याप्यत्वं त्वया न स्वीक्रियते, तथाऽतीन्द्रियसंयोगगतविशेषस्य मयाऽपीत्यर्थः । यद्यतीन्द्रियस्यैवैन्द्रियकत्वमत्यन्तासम्भवदुक्तिकं तदा तादृशवै जात्यस्य स्फोटधर्मवत्वमपि तथैव । प्रत्यक्षानुपपत्तेरिति भावः । ननु कत्वादिधर्माणामतीन्द्रियत्वेऽपि ज्ञानलक्षणया कादिप्रतीतौ तद्भाने बाधकाभाव इति चेद्र ? न । ककार इति प्रत्यये, कत्वं साक्षात्कारोमीत्यनुव्यवसायेन लौकिकविषयत्वावगाहेन नोक्तप्रकारोऽसम्भवात् । 'शङ्खः पीत' इति ज्ञानानन्तरोत्पन्नः पीतत्वं पश्यामीति प्रत्ययस्तु भ्रम एव । दोषविशेषस्य तादृश विषयतानियामकत्वकल्पनगौपरीक्षा
*अन्त्यः *-स्फो टे गत्वाद्यनभ्युपगमपक्षे |
*विरोध इति । गत्वाद्यन्यधर्मस्य स्फोटावृत्तित्वेन तत्तद्धर्मप्रकारकप्रतीतीनामनुपपत्तिरिति भावः । परोक्तमनूद्य दूषयति-*वाय्विति।*असम्भवादिति* । अतिरिक्तमकारादिविशेष्यकः समवायसम्बन्धावच्छिन्नगत्वादिप्रकारकत्वेन प्रमात्वस्य न्यायादिति भावः । नन्वतिरिक्तानन्त गकारादिकल्पनापेक्षया तादृशप्रतीतीनाम्भ्रमत्वमेवास्त्वित्यत आह-*अस्तु वेति । एतावतैव गादिविषयकप्रमात्मकप्रतीत्युपपत्तेरलं स्फोटेनेति भावः । *तस्य*-वायुसंयोगस्य । *दोषः * - बाधकम् । *धर्मवदिति । यथा भवता तादृशधर्मंस्यातीन्द्रियमात्रवृत्तित्वेऽपि साक्षात्कारविषयत्वङ्कल्प्यते, तथाऽतीन्द्रियस्यापि तस्य संयोगस्य साक्षात्कारविषयत्वम्मन्मतेऽप्यस्त्विति प्रतिबन्दीवोत्तरम्। यद्यतीन्द्रियस्य सेन्द्रियकत्वं विरुद्धम्, तदा तेषाङ्गत्वादीनां स्फोटधर्मत्वमपि प्रत्यक्षानुपपत्त्या कल्पयितुमशक्यमिति भावः ।
५५ दु० प०