________________
४३२
दर्पणपरीक्षासहिते भूषणसारे -
इत्थं च पञ्चधा व्यक्तिस्फोटाः । जातिस्फोटमाहशक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम् ॥ औपाधिको वा भेदोsस्तु वर्णानां तारमन्दवत् ॥७१॥
अयम्भावः - वर्णास्तावदावश्यकाः । उक्तरीत्या च सोऽयं ग. कार इतिवद्, योऽयं गकारः श्रुतः सोऽयंहकारः इत्यपि स्यात्, स्फोटस्यैकत्वात् । गकारोऽयं न हकार इत्यनापत्तेश्च ।
किञ्च फोटे गत्वाद्यभ्युपेयम्, न वा । आद्ये स एव गका - रोऽस्तु । वर्णनित्यतावादिभिरतिरिक्तगत्वानङ्गीकारात् । तथाचाति
दर्पणः
*इत्थमिति* । पूर्वोक्तप्रकारैरित्यर्थः । पञ्चधेति । वर्णपदवाक्याऽखण्डपदा - खण्डवाक्यभेदभिन्ना इत्यर्थः ।
क्रमप्राप्तं जातिस्फोटं निरूपयति, मूले-शक्यत्व इवेति ॥ ननूक्तरीत्या स्फोटातिरिक्तवर्णानामसत्त्वात्तद्गतजातेर्वाचकत्वविचारः काकदन्तपरीक्षासमोडत आह सारे -*अयम्भाव इति ॥ हकारगकारयोरभेदे साधकमाह-स्फोटस्यैकत्वादिति*॥ तदभिन्नाभिन्नस्य तदभिन्नत्वनियमेन हकारात्मकस्फोटाभिन्नगकारे तदभेदावगाहिबुद्धेः प्रमात्वापत्तिरित्यर्थः ॥ *अनापत्तेश्चेति ॥ अभेदादेव च तादृशभेदाऽवगाहिबुद्धेः प्रमात्वानुपपत्तेरित्यर्थः ।
ननु वर्णात्मकस्फोटस्यैकत्वेऽपि गत्वादिविरुद्धधर्माऽध्यासमूलक भेदप्रतीतेर्नाऽनुपपत्तिः । प्रामाण्यं तु तस्या वणक्यवादिमते दूरापास्तमेवेत्यत आह-किञ्चेति* ॥ उपाधित्वाभिमतगत्वादीत्यर्थः । *आद्ये* - स्फोटे गत्वाऽभ्युपगमपक्षे ॥ *तदेव*
त्वमेव । ननु गत्वादेर्वर्णधर्मतया भेदेन कथं तस्य तदात्मकत्वमत आह-वर्णनित्यतावादिभिरिति ॥ मीमांसकादिभिरित्यर्थः ॥ *अतिरिक्तेति ॥ धर्मधर्मिणोर
1
परीक्षा *इत्थमिति* । पूर्वोक्तैः प्रकारैः । जातीस्फोटवादिनाम्मतमुपस्थापयति-*जातीति* | *जातेः * - अर्थशब्दगतजातेः । लाघवमिति । व्यक्तीनाम्बाहुल्याद्वाच्यत्ववाचकत्वकल्पनापेक्षया जातेस्तथात्वे तासामेकत्वाल्लाघवमित्यर्थः । ननूक्तरीत्या स्फोटातिरिक्तवर्णानामसत्वाद्गतो जातेर्वाचकत्वविचारो गगनकुसुमायमान इत्याशङ्कामपनेतुं स्फोट एव व्यक्तिरूपस्तावन्नाङ्गीकार्य इति प्रतिपादयति-अयम्भाव इति । *इत्यपि स्यादिति । तदभिन्नाभिन्नस्य तदभिन्नत्वमिति न्यायात्स्यादित्यर्थः ।
ननु स्फोटस्यैकत्वेऽपि कत्वगत्वादिविरुद्धधर्माध्यासमूलकभेदानुभवेन नोकापत्तिरत आह—*किञ्चेति* | *आद्ये* — गत्वाभ्युपगमपक्षे । *तदेव*गत्वमेव 1 ननु गत्वादेर्वर्णधर्मत्वेन कथन्तस्याश्रयाभेदं वदसीत्यत आह*वर्णेति । वर्णानान्नित्यत्वे तेषामेकत्वादने कसमवेतत्वासम्भवेन नातिरिक्ता गत्वादिजातिरिति भावः । *अतिरिक्तेति* । कत्वगत्वाद्यपेक्षयेत्यादिः ।