SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ जातिस्फोटनिर्णयः। . ४३९ कथं तर्हि, 'ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्त्वादनित्यत्वं "आत्मै. वेदं सर्वम्” इति श्रुतिवचनात्' इति कैयटः सङ्गच्छताम् । अविद्या भाविद्यको धर्मविशेषो वेति पक्षान्तरमादायेति द्रष्टव्यम् ॥ ७३ ॥ तमेव सत्याशं स्पष्टयति- . इत्थं निष्कृष्यमाणं यच्छब्दतत्त्वं निरञ्जनम् ॥ ब्रह्मैवेत्यक्षरं प्राहुस्तस्मै पूर्णात्मने नमः ॥ ७४ ॥ दर्पणः .. णद्वारा तज्ज्ञानाय शास्त्रस्योपयोग इति । कथमिति । सङ्गच्छतामित्यनेनान्वितम् । . पूर्वापरविरोधादिति भावः । मिथ्याज्ञानरूपायास्तज्जन्यसंस्काररूपाया जातित्वासम्भवादाह-*आविद्यक इति । अविद्याकल्पित इत्यर्थः । *धर्मविशेष इति । अत्रावृत्तिवारणाय-*धर्मेति । तद्व्यक्तित्वादिवारणाय--*विशेषेति । तथाच मतभेदेनाऽर्थद्वयस्याप्याकरस्थितत्वान्न पूर्वापरविरोध इति भावः । . वस्तुतस्तु गवाद्युपाध्यवच्छिन्नसत्तात्वमेव गोत्वादिव्यवहारनियामकमद्वैतदर्शने च गवादेरवच्छेदकस्याभावान्न सत्ताया विशिष्टसत्तात्वं, तदानीं निर्द्धर्मत्वेनैवावस्था. नादित्यर्थपरतयाऽपि विरोधः सुपरिहर इति बोध्यम् ॥ ७३ ॥ . ___ यद्यप्यविशेषेण वाक्यविषयेऽखण्डवाक्यतज्जातिरूपस्फोटद्वयमुक्तं, तथापि नादात्मकस्फोटकल्पे शास्त्रस्य पुरुषार्थे परम्परयोपयोगित्वमन्तिमकल्पे तु साक्षादेवेति तस्यैव मुख्यत्वमित्याशयेन मूलमवतारयति-*तमेवेति* । “अयमात्मा" "तत्सत्यम्" इत्यादिश्रुतिसिद्धं यत्सत्यं तत्र सा जातिरित्यनेनोक्तमेवेत्यर्थः। मूले, *इत्थमिति । पूर्वोक्तप्रकारेण अध्यस्तवाचकत्वेभ्यः प्रकृत्यादिभ्यः पृथक्क्रियमाणम् । अत एव-निरञ्जनम् । उपाधिविनिर्मुक्तम् । अत एवाक्षरमविनाशि। “यस्तु सर्वेषु भूतेषु नश्यत्सु न विनश्यति ।" __ इति स्मृतेः । सोपाधिकस्यैव विनाशप्रतियोगित्वात् । शब्दतत्त्वं, शब्दपदं रूपस्याप्युपलक्षणम् । तेन, नामरूपोपादानं यत्तद् ब्रह्मवेति विशेषणसङ्गतैवकारेण ब्रह्मतादात्म्याऽभावरूपे विशेषणाऽयोगव्यवच्छेदे शब्दतत्त्वरूपान्वयितावच्छेदकव्यापकत्वं बोध्यते । *प्राहुः । प्रकर्षेण कथयन्ति । ब्रह्माऽभेदेन जानन्तीति यावदिति तदर्थः । परीक्षा सिद्धेऽस्माच्छास्त्राद् ब्रह्मज्ञानम्भवतीति । *कथन्तीति । सङ्गच्छतामित्यनेनान्वि. तम् । पूर्वापरविरोधादिति शेषः । नन्वविद्या मिथ्याज्ञानरूपा तज्जन्यसंस्काररूपा वा तत्स्थाजातित्वन्न सम्भवति तस्याः , अतः वर्णधर्मत्वेन घटादिधर्मत्वासम्भवात्, अत आह-*आविद्यक इति* । अविद्याकल्पित इत्यर्थः । धर्मविशेष इत्युपादानेनावृत्तित्वशङ्काया घटपटादिसाधारण्यस्य च निरासः ॥७३॥ __ यद्यपि, पूर्वत्राखण्डवाक्यस्फोटस्य प्रदर्शनसमये शास्त्रस्य पुरुषार्थसाधनत्वन्दर्शितमेव, तथापि तस्मिन्पक्षे परम्परया शास्त्रस्य तत्वम् । जातिस्फोटपक्षे तु साक्षादेव-तथेत्यादिवेदयितुम्मूलमवतारयति-*तमेवेति । "अयमात्मा, तत्सत्यम् इत्यादिश्रुति. प्रतिपादितमित्यर्थः। हत्थम् -पूर्वोक्रिमिः, निष्कृष्यमाणम् -वाचकत्वेनाध्यस्तेभ्यः पृथक् क्रियमाणम् । निरञ्जनम् -उपाधिविनिर्मुक्तम् । अत एवाक्षरम्-अविनाशि।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy