SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४४० दर्पणपरीक्षासहिते भूषणसारेअयम्भावः-"नामरूपे व्याकरवाणि” इति श्रुतिसिद्धा द्वयी सृष्टिः । तत्र रूपस्येव नाम्नोऽपि तदेव तत्त्वम् । प्रक्रियांशस्त्वविद्याविज़म्भणमात्रम् । उक्तञ्च वाक्यपदीयेशास्त्रेषु प्रक्रियाभदैरविद्यैवोपवर्ण्यते । दर्पणः तत्र शब्दोपादानत्वस्य तन्त्रान्तरे गगनादौ प्रसिद्धः कथं ब्रह्मणस्तदुपादानत्वमित्या. शङ्कायामाह-*अयम्भाव इत्यादि । *नामरूपेति । “अनेन जीवनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति श्रुतिसिद्धेत्यर्थः । *द्वयीति । नामरूपात्मकद्वयवयवसमूहरुपेत्यर्थः । तत्रेति । सृष्टिद्वयमध्ये । *रूपस्येवेति । आकाशाद्यात्मकार्थस्येवेत्यर्थः । *नाम्न इति* ॥ तद्वाचकशब्दस्यापीत्यर्थः । *तदेव-ब्रह्मैव । तत्त्वमुपादा. नमित्यर्थः । "तस्मादेतस्माद्वा आत्मन" इत्यादिश्रुतेः । शब्दतन्मात्राकाशोपादानत्वे पर्यवसानाद्वयोरप्युपादानं ब्रह्मैव । अत एव तयोः परस्परमभेदसिद्धिः। स्वोपादा. नब्रह्माभिन्नत्वात् । न च ब्रह्मणो जगदुपादानत्वे विकारित्वाऽऽपत्तिः। जगदेतद्विव. तते' इति वदता मूलकृतैव समाहितत्वात् । तथाच व्यावहारिकप्रातिभासिकपदार्थनिरासेन श्रुत्या ब्रहौव परिशेषीक्रियते इति प्रागुक्त एवाऽर्थः। ननु नानात्वस्य सर्वथैव मिथ्यात्वे कथं स प्रत्ययो लोकानामत आह-*प्रक्रियांशस्त्विति । प्रकृतिप्रत्ययपञ्चकोशादिव्यवहारांशत्स्वित्यर्थः । *अविद्येति । मलि. नसत्त्वाज्ञानविलास एवेत्यर्थः । तथाच ब्रह्माऽतिरिक्तत्वेनाऽसत्यानामपि तेषां पार्थक्येन प्रतीतिरधिष्ठानाऽज्ञानकृतैवेति । न यावदधिष्ठानाज्ञानं तावत् तन्निवृत्तिरिति भावः । यद्वा ननु तादृशब्रह्मज्ञाने कथं शास्त्राणामुपयोगोऽत आह-*प्रक्रियांश इति । प्रकृतिप्रत्ययादिव्युत्पादनं त्वित्यर्थः ॥ *अविद्येति । तथाच पञ्चकोशादिन्यायेन शास्त्राणामुपयोगो, न तु तज्ज्ञाने साक्षादुपयोग इति भावः । *अविद्यैवोपवः यते इति । वाक्यपदीयाऽनन्तरम् उपायाः शिक्ष्यमाणानां बालामुपलालनाः। असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ इति श्लोकः । “समारम्भात्तु भावनामित्यस्य" पूर्वार्द्धन्तु परीक्षा एतादृशं यत्तद् ब्रह्म। “सर्वेषु भूतेषु नश्यत्सु न नश्यति इति स्मृतेः। *शब्दतत्त्वमिति। अन शब्दपदं रूपस्याप्युपलक्षणम् । *द्वयी*-नामरूपात्मिका । *तदेव ब्रह्मैवेति । *तत्त्वम्* उपादानम् । तदुक्तं श्रुतौ-"अनेन जीवनानुप्रविश्य नामरूपे व्याकरवाणि" इति । सृष्टेयोरूपत्वन्त्ववयवकसमुदायरूपतया । “सृष्टेब्रह्मण एव सम्भवश्व" "तस्मादेद्वाऽऽत्मन आकाशः सम्भूत आकाशाद्वायुः”इति श्रुतावपि प्रसिद्धम् । ननु ब्रह्मण एव नामरूपसृष्टयुपादानत्वञ्चेदुपादानोपादेययोस्तादात्म्याद ब्रह्मणोऽपि नानात्वमेव सिद्धम् , तथा च कथं सत्यत्वमत आह-*प्रक्रियांशस्त्विति । प्रकृतिप्रत्ययादिकथनञ्च कोशादिव्युत्पादनमाकाशादिसृष्टयुपादानत्वस्य च प्रतिपादनांशस्त्वित्यर्थः। *अविद्याविजृम्भणम् । मलिनसत्वाविद्यानामज्ञानविलास एवेत्यर्थः। अन्न हरिसम्मतिमाह-*उक्तञ्चेति । अत्र पूर्वार्द्धमन्यत्रोक्तम् । उत्तरार्द्धस्य
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy