________________
जातिस्फोटनिर्णयः।
४४१ समारम्भातु भावानामनादि ब्रह्म शाश्वतम् ॥ इति ॥ ब्रह्मैवेत्यनेन, "अत्रायं पुरुषः स्वयं ज्योतिः, "तमेव भान्तमनुभाति सर्वम्" "तस्य भासा सर्वमिदं विभाति" इति श्रुतिसिद्धं स्वपरप्रकाशत्वं सूचयन् स्फुटत्यर्थोऽस्मादिति स्फोट इति यौगिकस्फो. टशब्दाभिधेयत्वं सूचयति । निर्विघ्नप्रचारायान्ते मङ्गलं स्तुतिनति
दर्पणः घटादिदर्शनाल्लोकः परिछिन्नोऽवसीयते ॥ इति ॥ तदर्थस्तु यथा घटादिकं दृष्ट्वा लोको विश्वप्रपञ्चः परिच्छिन्नः किञ्चिनिष्टकारणतानिरूपककार्य्यतावत्त्वेनानुमीयते, एवं भावानामाकाशादीनाम् । *समारम्भादिति* । सम्यगारम्भो जननं यस्मात् । भावप्रधानश्च निर्देशः । तदुत्पत्तिहेतुत्वादित्यक्षरार्थः । भावोपादानत्वादिति यावत् । तादात्म्येन वा हेतुः। *समारम्भादिति । शाश्वतं नित्यमपि ब्रह्म आदिमत्सकारणमिवाऽवसीयत इत्यनुषज्ज्यते । परिणाम्युपादानत्वे तस्मिन्नभ्युपगम्यमाने विकारित्वप्रसङ्गशङ्का । वस्तुतो न तत्प्रसक्तिर्विवतॊपादानताया एवाङ्गीकाराद्रज्ज्चादौ प्रातिभासिकभुजङ्गस्येवेति भावः । “अनादि ब्रह्म शाश्वतम्" इति पाठस्त्वन्यतरविशेषणोपादानवैयापत्त्या नादरणीयः।
ननु नादेऽपि ब्रह्मव्यपदेशस्य प्रायशो दर्शनात् पुरुषार्थानुपयोगितदभेदज्ञानसम्पादनवैयर्थ्यमत आह-*ब्रह्मवेति । तथाच प्रकृते ब्रह्मपदस्य स्वप्रकाशरूपब्रह्मपरत्वान्नोक्तानुपपत्तिरिति भावः । “तमेव भान्तम्" इत्यस्य__न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः" इति पूर्वार्द्धम् । श्रुतीत्युपलक्षणम्
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । इत्यादिस्मृतेरपि । *स्वपरप्रकाशकत्वमिति । तत्र परप्रकाशकत्वे मानमुक्तम् । स्वप्रकाशकत्वं च स्वभिन्नाप्रकाश्यत्वे सति प्रकाश्यत्वम् स्वात्मकनित्यज्ञानविषयत्वमिति यावत् । “नित्यं विज्ञानमानन्दं ब्रह्म" इति श्रुत्या ब्रह्मणो नित्यज्ञानानन्दस्व. रूपत्वप्रतिपादनात् प्रकृतश्रुतिः।।
स्वयमेवात्मनाऽऽत्मानं वेत्सि त्वं पुरुषोत्तम । इति स्मृतिश्च स्वप्रकाशत्वे, पराप्रकाश्यत्वे च "न तदासयते सूर्य" इत्यादि स्मृतिश्च मानमधिकमन्यत्राऽनुसन्धेयम् । *सूचयतीति । स्फोटस्वप्रकाशपदयोः पर्यायत्वं बोधयतीत्यर्थः। तथाच जातिस्फोटवादिमते उपाधिनिरासद्वारा शब्दब्रह्मणः स्वप्रका. पूर्वार्द्धन्तु
- घटादिदर्शनाल्लोकः परिच्छिन्नोऽवसीयत । इति । यथा घटादिदर्शनाल्लोको विश्वप्रपञ्चः परिच्छिन्नः किञ्चित्कारणन्तद् व्यवसीयते । तथा भावानामाकाशादीनां समारम्भः सम्यगारम्भः प्रकाशो यस्मादिति व्युत्पत्या प्रकाशोपादानमनादित्वम्ब्रह्मवेत्यर्थः । अनादीत्यनेन-प्रागभावाप्रतियोगित्वम् , शाश्वतमित्यनेन-ध्वंसाप्रतियोगित्वमुक्तम् ।
ननु नादेऽपि ब्रह्मपदव्यवहारात्कथमस्य शास्त्रस्य ब्रह्मणः अनादित्वप्रतिपादकते. त्यत आह-*ब्रह्मवेत्यनेनेति । स्वयं ज्योतिः पराप्रकाश्यः। निर्विघ्नप्रचयाय*-अप्रति
द० ५० ५३
प्रत