________________
दर्पण परीक्षासहिते भूषणसारे -
४४२
रूपमाह -*पूर्णात्मने इत्यादिना ॥ ७४ ॥ अशेषफलदातारमपि सर्वेश्वरं गुरुम् ॥ श्रीमद्भूषणसारेण भूषये शेषभूषणम् ॥ १ ॥ भट्टोजिदीक्षितैः श्रेष्ठैर्निस्मिताः कारिकाः शुभाः ॥ कौण्डभट्टेन व्याख्याताः कारिकास्ताः सुविस्तरम् ॥ २ ॥ इति श्रीमत्पदवाक्य प्रमाणपारावारीणधुरीणरङ्गोजिभट्टाऽऽत्मजकौण्डभट्टकृते वैयाकरणभूषणसारे स्फोटवादः ॥ समाप्तोऽयं ग्रन्थश्च ।
दर्पणः
शत्वरूपेण पुरुषार्थोपयोगिनि ज्ञाने व्याकरणस्योपयोग इति सिद्धम् । नादस्फोटवादिमते यथोपयोगस्तथोपपादितं प्राक् । निर्विध्नेति । अप्रतिबद्धस्वग्रन्थप्रचारार्थमित्यर्थः ॥ *अन्ते । ग्रन्थावसाने । मङ्गलमिति ॥ नत्यात्मकं तदित्यर्थः । " मङ्गला - दीनि मङ्गलान्तानि मङ्गलमध्यानि च शास्त्राणि प्रथन्ते" इति भाष्यकारोक्तश्रुतेरिति भावः । पूर्णत्वमखण्डानन्दत्वमप्रतिहतेच्छत्वं वा तेन रूपेण तन्नतिश्च स्वीयग्रन्थप्रचारेच्छाविषयसिद्धय इति बोध्यम् ॥ ७४ ॥
ज्ञात्वा श्री फणिवाक्यजालमतुलं नैयायिकोक्तीरपि मीमांसानयमाकलय्य च मया सम्यक्कृते दर्पणे ॥ अस्मिन् भूषणसारतां बुधजनः सोत्कण्ठमालोकतां निश्वासमलीमसोन मुकुर स्तत्त्वार्थबोधक्षमः ॥ १ ॥ आसीत् कूर्मगिरौ धरासुरवरः श्रीवल्लभः कोविदो वेदान्तेषु विनोदमञ्जरिरिति ख्याताऽस्ति यन्निर्मितिः ॥ तत्सूनुर्हरिवल्लभः समकरोत्सद्युक्तिमण्युज्ज्वलं
श्रीमद्भूषणसारदर्पणमिमम्मोदाय विद्यावताम् ॥ २ ॥ उत्प्रक्षितार्थो हि न मोदहेतवेऽभ्यस्तो भृशं सोऽपि बुधां तथैव ॥ इत्याकलय्योभयमत्र युक्तिप्रमाणसिद्धं समुदाहृतं मया ॥ ३ ॥ सर्वोऽप्यर्थो बुधैः स्पृष्टो यद्यपीह तथापि मे 1 सत्सन्दर्भाशवितता ममता केन वाय्र्यंते ॥ ४ ॥
इति श्रीमत्कूर्माचलाभिजनोत्प्रभातीयोपनामकश्रीवल्लभाऽऽत्मजहरिवल्लभविरचिते भूषणसारदर्पणे स्फोटवादः समाप्तः ॥
परीक्षा
बद्धप्रचाराय । स्तुतिरूपत्वम्पूर्णत्वकथनेन । तत्वञ्चाखण्डानन्दरूपत्वम् । *नम इति* नतिरूपमङ्गलाय ॥ ७४ ॥
इति स्फोटविवरणम् | इति श्रीमदगस्त्यकुलवंशावतंसदिगन्तविख्यातकीर्विसुधाकर सङ्ख्यावत्सार्वभौमभवदेवमिश्रात्मजभैरवनाथमिश्रविरचिता परीक्षानामिका वैयाकरणभूषणसारटीका समाप्ता । शुभमस्तु ।