SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ श्रीरामाय नमः। श्रीमदुर्बलाचार्यापरनामकृष्णमित्रकृतभूषणसारव्याख्यायाम धात्वर्थनिर्णयः। पद्मा प्रतिपदं नित्यमखण्ड वाच्यवाचकम् । जगतां प्रकृतिः स्फोटः पदमन्यत्प्रकल्पितम् ॥१॥ *श्रीलक्ष्मीति । रूपिणमिति । ताछील्ये णिनिः । “रसादिभ्यश्च" इति मतुब्विधानस्यान्यमत्वर्थीयनिवृत्यर्थत्वात् । लक्ष्मीरमणस्य स्फोटरूपत्वोक्तिः स्वशास्त्रतत्त्वसुचनाय । यतः स्फोटरूपात्सर्वं जगद्विवर्ताकारं भवति । तदुक्तं हरिणा अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ इति । अत्र परावाक् स्फोटशब्देनोच्यते, सैव शब्दब्रह्मेत्युच्यते । शब्दतत्वं शब्दस्य पारमार्थिक स्वरूपं स्फोटस्यैव मुख्यशब्दतया तस्य च ब्रह्मात्मकत्वात् । अक्षरनिामत्तत्वादक्षरं शब्दब्रह्मैव । तत्तत्पदार्थरूपेण विवर्त्तते, यथा रज्जः स्वयमविकृतव सती मायया सर्पाकारेण विवर्त्तते। तत्वादप्रच्युतमेकं ब्रह्म-असत्त्यानेकरूपतां प्राप्नोति। यतः शब्दस्वरूपाज्जगदपा विकाराः क्रियन्ते इति तदर्थः। तात्विकोऽन्यथाभावः परिणामः। अतात्विकोऽन्यथाभावो विवर्त्तः। *तीरम् -नौकाम्। *शेषेति। शेषसम्बन्धिनो शेष. स्यार्थस्य लाभार्थमित्यर्थः । द्वैतेति । द्वैतवाद एव ध्वान्तं-तमः, तन्निवारणमेव फलं यस्याः। पुंसो भावो यस्यां तादृशी, वाग्देवतां सरस्वत्येव पुरुषवेषं धृतवतीति भावः। द्वैतस्य ध्वान्तत्वं तु अविद्यायां सत्यामेव । द्वैतबुद्धः 'एकमेवाद्वितीयं ब्रह्मा इत्यादिश्रुत्या अद्वैतस्यैव तात्त्विकत्त्वात् । *दुण्ढिमिति*। प्रणम्येत्यत्रान्वयः । *श्रीफणीति* । फणिनः स्मरणं तु प्रकृतशास्त्रनिर्मातृत्वेनाभ्यर्हितत्वात् । अस्माभिःभद्दोजिदीक्षितैः । एतेन भट्टोजिदीक्षितकृता एताः कारिका इति सूचितम् । अस्य ग्रन्थस्य कारिकारूपस्य वाक्ये क्रियायाः प्राधान्यात् क्रियावाचकस्य धातोरर्थ प्रथमतो निरूपयति-*फलव्यापारयोरिति । दण्डादिव्यापारस्य धात्वर्थत्ववारणायाह-व्यापारस्त्विति । ननु यथा किं करोति इति प्रश्ने पचतीत्युत्तरं भवति । एवमस्तीत्युत्तराभावादस्त्यादीनां क्रियावाचकत्वं न स्यादत आह-*यावत्सिद्धमिति । अयम्भावः-क्रमपौपिर्यमाश्रित्य साध्यत्वेन विवक्षितोऽर्थः। क्रिया-घटः क्रियते इत्यत्रापि क्रियाद्वारैव घटस्य साध्यत्वं प्रतीयते, घट इत्येतावन्मात्रात्साध्यत्वाप्रतीतेः। एवञ्चैतदेव क्रिया. वाचकत्वमस्त्यादावप्यस्तीति। *सिद्धमसिद्धम्वेति । सिद्धमपाक्षीदित्यादौ। अ. सिद्धं पचति पक्ष्यतीत्यादौ । .. ननु क्रियते या सा क्रिया । न च समुदायः कर्तुं शक्यते इत्यत आह-*आश्रिते. ति* । आश्रितः क्रमरूपो यया तथा चाऽवयवानामुत्पाद्यत्वात्तद्वारकं समुदायस्योत्पा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy