SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४४४ वैयाकरणभूषणव्याख्यायाम् । धत्वमिति भावः । पचति पाक इति* । पाक इत्यत्र क्रियान्तराकाङ्क्षाऽस्ति, नतु पचतीत्यत्रेत्यर्थः । *तथा चेति । क्रियान्तराकाङ्क्षाया अनुत्थापिका पचतिशब्दोपात्ताक्रिया अनुत्थापकतावच्छेदकं रूपं पचत्यादिशब्दः, तद्वत्वं तच्छब्दबोध्यक्रियायामस्तीति लक्षणसङ्गतिः। क्रियान्तराकाङ्क्षानुत्थापकरूपवत्वमिति तु नोक्तम् । पचतीति शब्दस्य क्रियात्वाभावेन स्वक्रियाभिन्नक्रियात्वरूपक्रियान्तरत्वासम्भवात् । तद्रूपवत्वमिति* । इदमेवासत्वभूतत्वमित्यर्थः। अन्यथा सङ्गयाकारकाद्यनन्वयित्वमसत्वभूतत्वमित्युक्तौ 'पश्य मृगो धावति' इत्यादौ कारकान्वयित्वदर्शनात् । 'हतशायिका श. य्यन्ते' इत्यादौ सङ्ख्यान्वयित्वदर्शनाच्चाव्याप्तिरितिभावः। एतदेव = एतादृशासत्वभूतत्वमेव । तिङपदैरिति । यद्यपि क्रियाप्रधानं यत्तदाख्यातमिति निरुक्ततद्भाष्यकारादिमते एधितव्यमित्यादीनामसत्वरूपमाख्यातत्वमेव । तथापि एधितव्यमित्यत्रापि अस्ति भविष्यतीत्यादिक्रियासम्बन्धस्य सम्भवात् क्रियान्तराकाङ्कत्याद्यसत्वभूतो भावः तिङ्पदैरेवोच्यते, इत्यत्र न विवाद इति भावः । वर्जनादिक्रियावाचिना. मपि हिरुगादीनां क्रियान्तराकाङ्क्षादर्शनात् न साध्यक्रियाभिधायित्त्वम् । क्रियाप्रधानत्वव्यवहारस्तु क्रियामात्रविशेषणत्वात्। __ननु व्यापारसामान्य प्रति धातुसामान्यस्य वाचकत्वे सर्वत्र सकलव्यापारबोधापत्तिरत आह-*अयं चेति । *बुद्धिविशेषादीनामिति । फूत्कारादीनामनन्तत्वात्फूत्कारत्वादिकं शक्यतावच्छेदकम् । फूत्कारत्वादीनामप्यनुगमको बुद्धिविशेष एव सर्वत्र व्यापार इति बुद्धरैकत्वादिति भावः। ___ ननु एका क्रियेति व्यवहारः कथमत आह-गुणभूतैरिति । क्रमोत्पन्नानां व्यापाराणां समूहः क्रिया। स च समूहः गुणभूतैः स्वावयवीभूतैः फूत्कारादिव्यापारैर्युक्तः । ननु क्षणनश्वराणां व्यापाराणां समुदायोऽसम्भवीत्यत आह-*बुद्धयेति । एकत्व. बुद्धया प्रकल्पितो भेदरूपः समूह इत्यर्थः । क्रमिकाणां व्यापाराणां समूहे बुद्धिपरिक ल्पितमेकत्वमाश्रित्य एकत्वव्यवहार इति भावः। तार्किकमते स्वरूपसम्बन्धविशेषस्याश्रयत्वस्याश्रयरूपतया नानात्वादत आह*तत्तच्छक्तिरूपमिति । अखण्डधर्मरूपमित्यर्थः । सप्तैव पदार्था इति वैशेषिकपरिभा. षामरीकृत्याश्रयत्वस्याश्रयस्वरूपत्वस्वीकारे स्वस्यैव धर्मत्वं धर्मित्वं चेत्यनुभववि. रुद्धम् । तार्किकैरपि विषयत्वप्रतियोगित्वादीनामतिरिक्तत्वस्वीकारेण सप्तैवेति नियमाभावाच्च । अस्तु वा आश्रयत्वं जातिः, यथा एकस्मिन् घटे नष्टे घटान्तरे घटत्वमवतिष्ठते । व्यक्त्यन्तरे आश्रयत्वस्यावस्थानसम्भवात् । जननेन यत् प्राप्यते या सा जातिरिति भाष्यमते जातेनित्यत्वमिति नियमाभावाच्च । किंञ्चाकृतिरेव शब्दार्थ इति मते अभावत्वगगनत्वादिकमपि जातिरेव । यथा घटत्वजातिरनेकघटदर्शनादेव बालैनिश्चीयते । एवमाश्रयत्वेऽपि अनयोः कर्तृकर्मणोः प्रतीतेः सम्भवादित्यत्रान्वयः । *आक्षेपादिति । कर्तादिकमन्तरा व्यापाराद्यसम्भवात् ।। ___ ननु शाब्दिकमते आदेशानामेव वाचकतया लकाराणां कथं वाचकतेत्यत आह*बोधकतारूपमिति । तत्तत्स्थानित्वेन तिबादिस्थानित्वेन तार्किकमतं शङ्कते-*नचे. ति । *अयोगादिति । कृतेरपि व्यापारविशेषत्वादिति भावः । *अथेति । मण्ड. नमिश्रमते फलमानं धात्वर्थः, भावनाऽऽख्यातार्थः । आख्यातार्थभावनाश्रयत्वादेव कर्त्तत्वम् । *कृतामपीति । तत्रापि कादिपदस्य कर्त्तत्वादिपरत्वापत्तौ व्यापारवाच. कत्वापत्तेरिति भावः । ननु तत्र “कर्तरि कृत्" इति सूत्रं मानमत आह*-लः कर्मणी.
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy