SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिर्णयः । १५५ न्तरकल्पनात् । परत्वमपि द्वितीयया स्वप्रकृत्यर्थापेक्षया बोध्यते । तथाच चैत्रस्तण्डुलं पचतीत्यादौ तण्डुलान्यसमवेतव्यापारजन्यधात्वर्थतावच्छेदकविक्लित्तिशालित्वात् तण्डुलानां कर्म्मता । शाब्दबो दर्पणः वैचित्र्यात्तु पदार्थैकदेशेऽपि प्रतियोगितया प्रकृत्यर्थाऽन्वयः, प्रकृते चैत्रसंयोगजनक क्रियायां चैत्रभिन्नसमवेतत्वबाधान्न चैत्रश्चैत्रं गच्छतीति प्रयोगः । यत्र चोभयकर्मभ्यां मल्लयोः संयोगस्तत्र मल्लान्तरक्रियाया: स्वनिष्ठसंयोगजनिकायाः स्वभिन्नसमवेतcase areशक्रियायाः स्वस्मिन् बाधान्न मल्लः स्वं गच्छतीति प्रयोगः । स्वनिष्टसंयोगजनकस्वक्रियायां स्वभिन्नसमवेतत्वस्या योग्यत्वेनाभानेऽप्यबाधितसंयोगजनकत्वं विषय कृत्य, "अभिचरन् यजेत" इत्यादाविव शाब्दबोधसम्भवात् तदर्थतात्पर्येण 'स्वं गच्छति' इति प्रयोगो दुर्वार इति तु नाशङ्कनीयम् । परसमवेतत्वांशाऽविषयकस्य द्वितीयाधीनफलजनकत्वबोधस्य कुत्राप्यऽनभ्युपगमेन तादृशबोधे तद्वानसामन्या अप्यपेक्षणात् तस्याश्च प्रकृतेऽसत्त्वात् । अथ स्वस्यापि द्वित्वावच्छिन्नभिन्नत्वात् स्वं गच्छतीतिप्रयोगवारणाय द्वितीयाप्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्न प्रतियोगिताकत्वसम्बन्धेनाऽन्वयो वाच्यः । तथाच — 'चैत्रो द्रव्यं गच्छति' 'मल्लो मल्लं गच्छति' इत्यादिवाक्यानामप्रामाण्यापत्तिः । चैत्रमल्लादिनिष्ठक्रियाया द्वितीयाप्रकृत्यर्थताऽवच्छेदकद्रव्यत्वमल्लत्वावच्छिन्नाभिन्नाऽसमवेतत्वात् तद्व्यक्तित्वानुपस्थितावपि शाब्दबोधस्यानुभवसिद्धतया तत्तद्व्यक्तित्वोपस्थापकत्वाऽवच्छिन्नप्रतियोगितयान्वयासम्भवात्, तद्व्यक्तित्वोपस्थापकपदाऽभावाच्च । एकधर्मावच्छिन्नप्रतियोगिताया अन्यधर्मावच्छिन्नसंसर्गत्वे मा नाभावाच्च प्रतियोगि विशेषिताभावबुद्धेर्विशिष्टवैशिष्ट्याऽवगाहित्वनियमात् । तदुक्तं दीधितिकृता-प्रतियोगिविशेषिताभावभानं तु विशिष्टवैशिष्टयमर्यादां नातिशेत इतीति चेत् ? तर्हि क्रियान्वयिभेदप्रतियोगितावच्छेदकत्वं द्वितीयार्थः । भेदे परीक्षा मपीति । ननु प्रकृत्यर्थस्य प्रत्ययाथकदेशे भेदे प्रतियोगितासम्बन्धेनान्वये चैत्रघटोभयभेदस्य चैत्रे सत्त्वादुक्तापत्तिस्तदवस्थैव । प्रकृत्यर्थतावच्छेदकावच्छिन्न प्रतियोगिताकत्वसम्बन्धेनान्वय इत्यपि न, 'मल्लो मल्लं गच्छति' 'विहगः पृथिवीं गच्छति'इति प्रयोगानापत्तेः । प्रकृत्यर्थनिष्ठतत्तद्वयक्तित्वावच्छिन्नप्रतियोगिताया अन्यधर्मावच्छिन्नसंसर्ग त्वविरहादिति चेद् ? न । भेदप्रतियोगितावच्छेदकत्वं द्वितीयार्थः । भेदे च प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः भेदप्रतियोगितावच्छेदकत्वस्य तु धात्वर्थता - वच्छेदकफलान्वितेऽन्वय इत्यत्र तात्पर्यात् । यदि तु — उभयनिष्ठक्रियाजन्यसंयोगस्यैकत्वात् तादृशसंयोगावच्छिन्न व्यापारनिष्ठावच्छेदकताकप्रतियोगिताकभेदस्य कर्मभूतमल्लेऽसत्वात् 'मल्लो मल्लं गच्छति' इत्यत्रानुपपत्तिरस्त्येवेति विभाव्यतेः तदा द्वितीयार्थभेदप्रतियोगितावच्छेदकत्वस्य धात्वर्थप्रधानीभूते केवलव्यापारेऽन्वयाभ्युपगमान्नोक्तानुपपत्तिःः क्रियाया भेदादिति । नचैवमपि 'चैत्रश्चैनं न गच्छति' इत्यादौ नज्समभिव्याहारे प्रथमान्तपदार्थे 'चैत्रो न पचति' इत्यत्रेव द्वितीयार्थान्वितत्वावच्छिन्नव्यापारान्विताख्यातार्थाभाव एव प्रतिपाद्यः । स च न सम्भवतिः चैत्रवृत्तिभेद
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy