________________
१५६
दर्पणपरीक्षासहिते. भूषणसारे
दर्पणः
प्रकृत्यर्थस्याधेयतयान्वयान्न पूर्वोक्तापत्त्यनुपपत्ती। नसमभिव्याहारे च नजा तात्पयंवशाचैत्रश्चैत्रं न गच्छतीत्यादौ द्वितीयाप्रकृत्यर्थवृत्तित्वविशिष्टतदपरार्थभेदप्रतियोगितावच्छेदकत्वाभावः । क्वचिच्च चैत्रो ग्रामं न गच्छतीत्यादौ द्वितीयाऽर्थवृत्तित्वविशिष्टधात्वर्थसंयोगजनकत्वाभावः क्रियायां बोध्यते। ये तु प्रकृत्यर्थवृत्तित्वविशिष्टसंयोगादिरूपफलस्यैव जनकत्वस्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन क्रियायामन्वयोपगमाद् भेदप्रतियोगितावच्छेदकत्वस्य द्वितीयार्थत्वमन्तरेणाप्युक्तापत्तिमुद्धरन्ति तन्मते वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितावच्छेदकतयोक्तस्थले उक्तसम्बन्धेन नना संयोगाभावबोधाऽनुपपत्तिः । परसमवेतत्वं द्वितीयार्थ इति दीधितिविरोधश्च । __ एवञ्च 'चैत्रो ग्रामं गच्छति'इत्यत्र ग्रामवृत्तिसंयोगजनिका ग्रामवृत्तिभेदप्रतियोगि तावच्छेदिका च या क्रिया तदनुकूलकृतिमांश्चैत्र इति नैयायिकमतपरिष्कारः। __ अत्र प्रत्यवतिष्ठन्ते । नमर्थप्रसज्यप्रतिषेधस्य प्रतियोगितया क्रियाऽन्वयित्वमिति व्यवस्थापनात् कथं चैत्रो ग्रामं न गच्छतीत्यादौ नञः संयोगजनकत्वाभावबोधकत्वम् । उक्तञ्च
पयंदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ।
प्रसज्ज्यप्रतिषेधस्तु क्रियया सह यत्र नञ् ॥ इति । यत्र नअर्थाभावः क्रियया धात्वर्थव्यापारेण प्रतियोगितया सम्बन्धो भवतीत्युत्तरार्धाऽर्थः। तस्मात् तिङन्ते नसमभिव्याहारे क्रियाप्रतियोगिकाऽभावबोध एव न्याय्यो न तु क्रियायां फलाभावस्य विभक्त्यर्थाभावस्य वा प्रथमान्तार्थे वा तिर्थाsभावस्य क्लप्तकारणविरहादिति ॥
अत्र वदन्ति-यद्धाऽवच्छिन्ने यद्धाऽवच्छिन्नत्वं येन संसर्गेण नसमभिव्याहारे प्रतीयते तद्धावच्छिन्ने तद्धर्मावच्छिन्नस्य तत्संसर्गावच्छिन्नप्रतियोगिता
परीक्षा प्रतियोगिताकत्वस्य व्यापारे विरहादिति चैत्रपदाद्वितीयानुपत्तिरिति वाच्यम् । एतादृशे विषये तत्समभिव्याहारे धात्वर्थव्यापारे चैत्रवृत्तिभेदप्रतियोगितावच्छेदकत्त्वाभावस्य भावोपगमेन सामञ्जस्यात् । नचैवमपि 'विहगो भूमिं गच्छति न महीरुहम्। इत्यादौ व्यापारे महीरहवृत्तिभेदप्रतियोगितावच्छेदकत्वाभावस्य बाधादनुपपत्तिरिति वाच्यम् , अत्र संयोगजनकत्वविशिष्टव्यापारस्य धात्वर्थतयाऽनुरूपसमभिव्याहारवशात्संयोगजनकत्वस्याभावो धात्वर्थव्यापारे कल्प्यते इत्यनुपपत्तिपरिहारात् । यदि तु पदार्थकदेशस्याभावो बोधयितुं न शक्यते इत्युच्यते तदा संयोगजनकत्वं व्यापारश्च पृथगेव धातुवाच्यावित्याश्रयणीयम् ।
केचित्तु फलव्यापारयोः पृथक् शक्तिः, फले च द्वितीयाप्रकृत्यर्थस्याधेयतासम्बन्धेन फलस्य च जनकत्वस्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन व्यापारे ऽन्वयापगमान्न चैत्रश्चैत्रं गच्छति इत्यादिप्रयोगापत्तिरित्याहुः, तन्न । 'प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ' इति न्यायेन चैत्रश्चैत्रं गच्छति' इत्यादौ निरूतोभयसम्बन्धावच्छिन्नप्रतियोगिताकस्य फलाभावस्य व्यापारे भानमुपेयम् । स च