SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ पदस्फोटनिर्णयः। ४०१ दायस्याऽऽदेशविधानान्नात्र तद्विभागः सम्भवतीत्यर्थः ॥ ६५ ॥ .. सुप्तिङ्गन्तचयरूपवाक्यस्यापि तदाह हरेऽवेत्यादि दृष्वा च वाक्यस्फोटं विनिश्चिनु । अर्थे विशिष्य सम्बन्धाग्रहणं चेत् समं पदे॥६६॥ लक्षणादधुना चेत्तत्पदेऽर्थेऽप्यस्तु तत्तथा। हरेऽव विष्णोऽवेत्यादौ पदयोः “एङः पदा तादति” (पा०सू० ६।१।१४)इत्येकादेशे सति न तद्विभागः सुज्ञानः।तथा च प्रत्येक पदाज्ञानेऽपि समुदायशक्तिवानाच्छाब्दबोधात् समुदायेऽप्यावश्यिकी शक्तिः। एवञ्च प्रकृतिप्रत्ययेषु विशिष्याज्ञायमानेष्वपि समुदायव्युत्पत्त्या दर्पणः तन्त्रत्वेन तस्य पक्षभिन्नत्वाभावेऽपि न दृष्टान्तत्वमनुपपन्न मिति भावः। *तत्र । वस्नसादिस्थले । विभागः*-तन्निर्णयः । अस्य वैयाकरणानामपीति शेषः । ____ परे तु आमादौ प्रत्ययत्वस्य दृष्टत्वेन वामित्यादावामो न इत्यादेर्वसादेः प्रत्ययत्वमितरांशस्य प्रकृतित्वमनुमातुमशक्यमित्युक्तरीत्या न प्रकृतिप्रत्ययसमुदायरूपपदस्य वाचकत्वसिद्धिः। घटेनेत्यत्र तु नशब्दस्य टादेशत्वं भाष्यकृतैवोक्तमिति न तत्र विभागासिद्धिः । 'अजर्घाः, 'अचकात्' इत्यादौ त्वगत्या "शिष्यमाणं लुप्यमानार्थाभिधायि" इति न्यायात् प्रकृतेरेव वाचकता। अस्तु वा तत्रापि लुप्तप्रत्ययानुसन्धा. नाद् बोधः । प्रकृतेः स्वार्थ विशिष्टप्रत्ययार्थे लक्षणा वा । 'सर्वे सर्वपदादेशा' इत्यपि वर्णानित्यत्ववादिनां मते दुरापास्तमित्याहुः ॥६५॥ __युक्त रैक्यात् क्रमप्राप्तं वाक्यस्फोटनिरूपणमित्याशयेन मूलमवतारयति-*सुप्तिडन्तेति* । *तत्*-वाचकत्वम् । *समुदाय इति । पदसमुदायरूपे वाक्ये इत्यर्थः । *एवमिति । वाक्यशक्तिवदित्यर्थः। विशिष्य* । सूत्रोपात्तरूपेण । अज्ञायमानेवित्यनेन तनिष्टबोधकत्वज्ञानाऽसम्भवः सूच्यते । *समुदायव्युत्पत्त्येति । समुदा परीक्षा दायस्य-प्रकृतिप्रत्ययसमुदायस्य । तद्विभागइति । प्रकृतिप्रत्यययोः पार्थक्येन निश्चय इत्यर्थः। अन्न प्रक्रियाज्ञानवतां वैयाकरणानामपि न विभागज्ञानम् । "टासि" इति सूत्रेण नादेशस्य भाष्यकारोक्तरीत्या विधानेन प्रकृतिप्रत्ययविभागज्ञानसम्भवाद् घटेनेत्यादावित्यादिपदमुपात्तम् । तेन घट इत्यादिपरिग्रहः । वस्त्रसादौ प्रकृत्यादिकल्पनन्त्वाग्रहमात्रम् ॥ ६५॥ पदस्फोटन्निरूप्य युक्तिसाम्याद्वाक्यस्फोटं निरूपयति-*सुप्तिङन्तचयेति । तद्वाचकत्वे युक्तिसाम्यन्दर्शयति-हरेवेत्यादिना । तद्विभाग:-पदद्वयविभागः । *समुदायशक्तिज्ञानादिति । समुदाये हरेऽवेत्यादिसमुदायस्थ शक्तिः स्वीकार्य्या । . ___*एवमिति* । वाक्यशक्तिवदित्यर्थः । विशिष्यः*-तत्तत्सूत्रप्रवृत्तिक्रमेण । यदि तत्तत्सूत्रप्रवृत्तिज्ञानं स्यात् । तदा प्रकृतिप्रत्यययोर्बोधकतारूपशक्तिज्ञानसम्भवः ल्यात् तथा नास्तीति ध्वननाय ज्ञायमानेत्युक्तम् । *समुदायव्युत्पत्या* । “पक्ति ५१ द० ५०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy