SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४०० दर्पणपरीक्षासहिते भूषणसारेतावच्छेदकत्वौचित्यादिति दिक ॥ ६४॥ सुप्तिङन्तं पदमिति पारिभाषिकपदस्य वाचकत्वस्वीकर्तृणां मतमाह घटेनेत्यादिषु न हि प्रकृत्यादिभिदा स्थिता। वस्नसादाविवेहापि सम्प्रमोहो हि दृश्यते ॥ ६५ ॥ घटेनेत्यादौ 'घटे' इति प्रकृतिः 'न' इति प्रत्ययः, 'घट्' प्रकृ. तिः 'एन' इति प्रत्यय इति विभागस्य, "सर्वे सर्वपदादेशा” इति स्वीकारे विशिष्य प्रकृतिप्रत्यययोर्ज्ञानासम्भवान्न वाचकत्वमित्यर्थः । वैयाकरणविभागः सुज्ञेय इत्यतो दृष्टान्तव्याजेनाह-वस्नसा. दाविति* ॥ “बहुवचनस्य वस्नसौ” (पा०सू० ८।१।२१) इति समु . दर्पणः श्यकः । अत एव पदे वर्ण इति व्यवहारोऽपि स्वरसतः सङ्गच्छते । नित्याश्च वर्णास्तेषु पौर्वापर्यञ्च पूर्वपूर्ववर्णानुसन्धानस्याव्यवहितोत्तरत्वसम्बन्धेनोत्तरवर्णानुसन्धाने वा. क्यस्फोटवक्ष्यमाणरीत्या सम्भवात्तदूं विषयकानुसन्धानविशिष्टानुसन्धानविषयत्वरूपमिति स्वीकारेऽपि क्षत्यभावाच्च । यथा चैतत् तथा वाक्यस्फोटनिरूपणे वक्ष्यत इति तथा च वर्णसमुदायो वाचक इति पदस्फोटपक्षे पर्यवस्यति ॥ ६४॥ ___ *पारिभाषिकेति* । शास्त्रकारसङ्केतितेत्यर्थः । पूर्व तु प्रकृतिघटकवर्णसमुदायरूपस्य प्रत्ययघटकवर्णसमुदायरूपस्य च तस्य वाचकतोक्ता। इदानीन्तूमयसमुदायस्यैव सेति भेदः । घट् इति प्रकृतिरेनेति प्रत्यय इति प्रकृतिप्रत्ययोविभागस्य ज्ञानासम्भवादिति योजनाय-*सर्वे सर्वपदेति ॥ वर्णानित्यताप्रतिपादकं भाष्यमेतत् । वस्नसादेरपि पक्षत्वादाह-*व्याजेनेति । तथा च निश्चितसाध्यवत्वस्यैव दृष्टान्तत्वे परीक्षा समुदायपर्याप्तं वाचकत्वमित्यसङ्गतमत आह-*दिगिति । दिगर्थस्तु-स्वसामानाधिकरण्य स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्व उभयसम्बन्धेनैकवर्णविषयकज्ञानविशिष्टज्ञानविषयत्वमपरवणे इत्येवं रीत्या आनुपूर्वी कल्पनीया तस्या नानुपपत्तिरिति ॥६४॥ ननु 'शक्तम्पदम् इति वदताम्परेषामपि पदस्य वाचकत्वं सिद्धमेवेत्यत आह-*सुप्तिअन्तमिति । पूर्वोक्तरीत्या प्रकृतिप्रत्ययसमुदायस्य वाचकत्वसिद्धावपि यत्र प्रकृतिप्र. त्ययविभागः सुज्ञानः, तस्यैव वाचकत्वमिति शङ्कानिवारणायायम्प्रयत्न इत्यवधेयम् । *स्वीकार इति । शब्दानान्नित्यत्वसमर्थनाय भाष्यकृतेति शेषः। *नवाचकत्वमिति । पार्थक्येनेति शेषः। किन्तु समुदायस्यैव तत्त्वमुपेयमिति भावः । *दृष्टान्तव्याजेनेति। अयमत्र प्रयोगः-घटेनेत्यादिसमुदायाः-घटाद्यभिन्नकरणादिशक्ताः, घटायभिन्न करणादिप्रतीत्यन्वयव्यतिरेकानुविधायिज्ञानविषयत्वात् । *वस्नसादिवदिति । नच वस्नसादीनामपि पक्षान्तर्गतत्वादृष्टान्तत्वेनोपादानासङ्गतिरिति वाच्यम् । निश्चितसाध्यकस्य दृष्टान्तत्वं भवति, तञ्च वस्नसादावप्यस्तीत्याशयात्। तत एव व्याजपदम् । *समु
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy