SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ पदस्फोटनिर्णयः। ३९९ एतच्च, चरमवर्ण एव वाचकत्वशक्तिः, शक्तासज्ज्यवृत्तिस्वे मानाभावात् । पूर्वपूर्ववर्णानुभवजन्यसंस्काराश्चरमेणार्थधीजनने सहकारिण इति न तन्मात्रोच्चारणादर्थधीरिति वर्णस्फोटवादिनां मतान्तरस्य दूषणायोक्तम् । रामोऽस्तीति वक्तव्ये राम इत्यनन्तरं घटिकोत्तरमकारोच्चारणेऽर्थबोधापत्त्या तादृशानुपूर्त्या एव शकरक्त . . दर्पणः इत्यर्थः । नलोपादीत्यादिना जश्त्वादिपरिग्रहः । तथाच समुदितानामेव तेषां वाचकत्वमम्युपेयम् । तत्र चोक्तयुक्त्या तत्समुदायस्य वाचकत्वं निराबाधम् । स एव चाsस्माकं पदशब्दव्यपदेश्य इति भावः। . ननु प्रत्येकवर्णानां वाचकत्वस्य गौरवपराहतत्वादेवासम्भवात्समुदायस्यैव तत् सेत्स्यतीत्यादेशा वाचकाश्चेति समभिव्याहृतवर्णानां वाचकताया हेतुत्वोपन्यासो विफलः । उन्मत्तप्रलपितत्वशङ्काया अवसरेणैव निरासादित्यत आह-*एतच्चेति । समभिव्याहृतवर्णानां वाचकत्वोपन्यसन चेत्यर्थः । *चरमवर्ण एवेति । पदान्ते श्रूयमाणवर्ण एवेत्यर्थः । एवकारेण पदघटकतत्प्राक्तनवर्णव्युदासः । तत्र हेतुमाह-*शक्तेरिति । स्वरूपसम्बन्धात्मिकायां बोधकारणतायां पर्याप्तत्वासम्भवाच्चरमवर्णादेव बोधोदयेनान्यत्र तत्सत्त्वे मानाभावादिति वाऽर्थः। ननु तस्यैव वाचकत्वे तन्मात्रश्रवणादर्थबोधापत्तिरत आह-पूर्वपूर्वेति । तत्प. दघटकपूर्ववर्णेत्यर्थः । *मतान्तरेति । तत्समभिव्याहृतवर्णानामवाचकत्वे तत्समुदायरूपपदस्य सुतरामवाचकत्वमिति यन्मतान्तरं तत्खण्डनायेत्यर्थः। उक्तमित्यस्य, मूल इति शेषः । *अर्थबोधापत्येति ॥ वस्तुतस्तु नेयमापत्तिः । उद्बोधकस्य फलानुमेयत्वेन तादृशस्थले फलाभावेनोबुद्धसंस्काराभावादिति बोध्यम् । ननु समभिव्याहारो न समूहः । वर्णानां क्रमिकाणामाशुविनाशिनां च तदसम्भवादत एवाव्यवहितोत्तरत्वसम्बन्धेन न पूर्वपूर्ववर्णवत्वम् । पूर्वपूर्ववर्णस्यैवाभावात् । नाऽपि वर्णसमवेतं पदार्थान्तरं, मानाभावात् । अन्यथा तादृशधर्मानुगतीकृतवर्णानां वाचकत्वेनैवोपपत्तौ पदस्फोटस्य निरालम्बनतापत्तेः । पदप्रयुक्तकार्याणां वर्णेष्वेव दर्शनाच्चेति कथं पदस्फोटसिद्धिरित्यत आह-दिगिति। तदर्थस्तु वर्णसमुदायः पदं, न वर्ण इति प्रतीतेर्वर्णातिरिक्तपूर्वापरीभूततत्समुदायात्मकपदस्वीकार आव . परीक्षा नचैवम्प्रत्येकं वर्णानां वाचकत्वं गौरवादेव निरस्तम्भवति, किमर्थं भवतोक्तमुत्तरत्र समुदायस्य वाचकत्वं साध्यत इत्यत आह-*एतच्चेति समभिव्याहृतवर्णानां वाचकत्वोपन्यसनत्वमित्यर्थः । *चरमवण*। पदचरमावयववणे । एतच्छ्रवणं विनाऽर्थबोधाभावेनान्वयव्यतिरेकाभ्यान्तत्र शक्तिः कल्प्यत इति भावः। :. ननु तर्हि तन्मात्रश्रवणाद्वोधापत्तिरत आह-*पूर्वपूर्वेति* । पूर्वस्मिन्मते दूषणान्तरमाह-*राम इत्यादिना*। एतच्च दूषणं यत्रोद्बोधकसमवधानात्तावतां स्मरणजायते तत्रेति बोध्यम् । ननु वर्णानां समभिठ्याहारो न समूहरूपः । वर्णानामाशुविनाशितया तस्यासम्भवात् । अव्यवहितोत्तरत्वसम्बन्धेनैकवर्णविशिष्टापरवर्णत्वमप्यत एव न सम्भवतीति,
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy