________________
अथ पदस्फोटनिर्णयः । अथाऽऽदेशा वाचकाश्चेत् पदस्फोटस्ततः स्फुटः॥१४॥ एवमादेशानां वाचकत्वे सिद्ध पदस्फोटोऽपि सिद्ध एवेत्याह*मथेत्यादि* ॥ आदेशास्तिब्विसर्गादयः। अयम्भावः-समभिव्याहृतवर्णानां वाचकत्वे सिद्ध तादशवर्णसमभिव्याहाररूपपदस्य वाचकता सिद्ध्यति । प्रतिवर्णमर्थस्मरणस्यानुभवविरुद्धत्वात् । प्रत्येकं वर्णानानामर्थवत्त्वे प्रातिपदिकत्वापत्तौ "नलोपः प्रातिपदिकान्तस्य" (पा० सू० ७।२७) इत्यादिभिर्धनं वनमित्यादौ नलोपाद्यापत्तिश्च ।।
दर्पणः
अथ पदस्फोटनिर्णयः। पदस्फोटनिरूपण उपजीव्योपजीवकभावल्याऽपि सङ्गतित्वं सूचयन् मूलमवतारयति-*एवमिति । उक्तरीत्येत्यर्थः । आदेशानामपि केषाञ्चित् प्रयोगान्तर्गतत्वादाह-*तिब्विसर्गादय इति । प्रयोगान्तर्गतवर्णानामिति यावत् । ननु यावद्वर्णानां वाचकत्वे, कथं पदस्फोटसिद्धिरतो भावार्थमाह-*अयमिति । समभिव्याहृतं तूक्तार्थम् । सिद्ध इति । आनुपूर्वी विशिष्टतावतां वर्णानामवाचकत्वे आनुपूर्तीरूपपदस्य वाचकत्वाशा दुराशेति भावः। ___ ननु समुदायस्य प्रत्येकानतिरिक्तत्वेन वाचकतायाः प्रत्येकवणे विश्रामो वाच्यः, तथाच कथं समुदिततादृशवर्णरूपपदस्य वाचकतेत्यतः प्रत्येकवर्णवाचकतां निरस्यति*प्रतिवर्णमिति* । *अनुभवविरुद्धत्वादिति । घटशब्दादमुमर्थे प्रत्येमीत्येव प्रतीतेरित्यर्थः । बाधकान्तरमप्याह-*प्रत्येकमिति । *अर्थवत्त्व इति । तदभ्युपगम
- परीक्षा
अथ पदवाक्यस्फोट निरूपणम् । वर्णस्फोटनिरूपणपदस्फोटनिरूपणयोरुपजीव्योपजीवकभावसङ्गतिरिति सूचयन्नाह-*एवमिति । पूर्वोक्तरीत्या वर्णस्फोटसाधनाय प्रवृत्या वराटिकान्वेषणाय प्रवृत्तिश्चिन्तामणि लब्धवानिति वा शिष्टोक्ता जाणफन्यायेन पदस्फोटस्य सिद्धिरिति भावः। प्रयोगानन्तानामादेशानान्निरासायाह-*तिबित्यादि । *तादृशवणेति । आनुपूर्वीविशिष्टवणेत्यर्थः।
ननु समुदायस्य वाचकत्वे तस्याऽवयवानतिरिक्तत्वात्प्रत्येक वर्णानां वाचकत्वमा स्त्वित्यत आह-*प्रतिवर्णमिति । *अनुभवविरुद्धत्वादिति । कलशशब्दादमुमर्थ प्रत्येमीत्येवानुभवोऽस्तीति भावः। प्रत्येक वाचकत्वे दोषान्तरमप्याह-*प्रत्येक मिति । *अर्थवत्त्वे । अर्थवत्त्वस्यापत्या। तथा च समुदितानामेव वाचकत्वमुपेय मिति भावः।