SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ " शक्तिनिर्णयः । चेति चेत् अत्रोच्यते-- सङ्केतो न स्वरूपेण हेतुः । अगृहीतशक्तिकादर्थबोधप्रसङ्गात् । नाऽपि सामान्यतो ज्ञातः । प्रमेयत्वादिना तज्ज्ञानेऽपि बोधप्रसङ्गात् नापि सङ्केतत्वेन तज्ज्ञानं हेतुः । गवादिपदेष्वपीश्वरादेः सङ्केतत्वेन तज्ज्ञानशून्यानां लौकिकमीमांसकादीनां तत्तद ३७९ दर्पणः एवकारेण बोधकत्वव्यवच्छेदः । सङ्केतस्य स्वरूपतः सामान्यतो विशेषरूपेण वा हेतुत्वमभिमतमिति विकल्प्य दूषयति- उच्यत इति । *स्वरूपेणेति । स्वस्य यद्रूपमिति व्युत्पत्या स्वाऽसाधारणधमेंणोक्तसङ्केतत्वेनेत्यर्थः । दण्डत्वेन घटे दण्ड इव ज्ञानाविषय एव सङ्केतत्वेन हेतुरिति यावत् । अगृहीतशक्तिकादिति । अज्ञातसङ्केतादित्यर्थः । *अर्थबोधप्रसङ्गादिति । सङ्केतस्य तत्र विद्यमानत्वादिति भावः । *सामान्यत इति । जनकाजनकसाधारणरूपेणेत्यर्थः । *सङ्केतत्वेनेति । ईश्वरीय सङ्केतत्वादिना विशेषधर्मेणेत्यर्थः । *तज्ज्ञानशून्यानामिति । सङ्केते ईश्वरीयत्वमविदुषा - मित्यर्थः । *लौकिकमीमांसकानामिति । वैदिकानां तेषां कथञ्चिदीश्वरबोधसम्भवादुक्तम् — *लौकिकेति । अथवा लौकिकानां व्यवहारिकपदार्थमान्त्रविषयकज्ञानवतां परीक्षा । " त्याकारेच्छा विषयत्वस्य गङ्गापदे जन्यतायां विषयतायां च सत्वेऽपि न गङ्गापदवाच्यत्वव्यवहारस्य तेषु पदार्थेष्वापत्तिः । स चेति । सङ्केतश्चेत्यर्थः । एवं परस्य नैयायिकस्य मतम् । तत्र मीमांसकानुसारिण आहुः, ईश्वरेच्छायाः शक्तित्वं न युक्तम् । ईश्वराभावात् । किन्तु तादृशसङ्केत इत्येव वाच्यम् । अत एवाधुनिकपित्रा - दिसङ्केतितदेवदत्तादिपदादपि बोधः । नचैवं तात्पर्यस्य इष्टत्वापत्तिः । येन सङ्केतेन पदार्थोपस्थितिर्जन्यते स एवाभिधा, तात्पर्यस्य तु साक्षादर्थविशेषविषयकशाब्दत्वावच्छिन्नं प्रत्येव कारणत्वम् स्वज्ञानद्वारा । नतु पदार्थोपस्थितिं प्रत्येवेत्यदोषात् । शब्देन वृत्या - उपस्थितेऽप्यर्थेषु प्रकरणादिना तात्पर्यनिर्णय इति हि प्रसिद्धिरिति, तन्न युज्यते । पदपदार्थयोः सम्बन्धोऽभिधासम्बन्धस्य च सप्रतियोगि कत्वमभिमतम् । सङ्केतत्य तु सप्रतियोगिकत्वे मानाभावेन न सम्बन्धत्वम्, किन्तु शक्तिः पदार्थान्तरमेव स एव च पदार्थः ? पदपदार्थयोर्वाच्यवाचकभावव्यवहारनियामकः । तस्य वैशिष्टयार्थाख्यसम्बन्धेनार्थवृत्तित्वं प्रतियोगितासम्बन्धेन तु पदवृत्तित्वमिति तन्मतमपि निराकर्त्तुं स्वमतमाह *अत्रोच्यते इत्यादिना* । तत्रादौ सङ्केतः शक्तिरिति मतं निरस्यति -*सङ्केत इति । सङ्केतः स्वरूपेण सन् हेतुर्वा ज्ञायमानो वा ज्ञानमपि सामान्यरूपेण विशेषरूपेण वेंति । नाद्यः । स्वस्य रूपं स्वरूपं स्ववृत्तिधर्म; ; तथा च दण्डत्वेन दण्डस्येवाज्ञातस्यैवास्य हेतुत्वे आह- -*अगृहीतेति । न गृहीता शक्तिर्यस्मिन्नित्यर्थः । द्वितीयं निरस्यति—*नापीति । द्वितीयस्य द्वितीयपक्षमाह -*नापि सङ्केतत्वेनेति । तत्रादौ नैयायिकमतं निरस्यति - गवादिपदेष्वपीति । ईश्वरसङ्केतत्वेन सङ्केतज्ञानं श्रुत्या न किन्तु — गोविषयकबोधजनकं गोपदम् इत्याकारकज्ञानवतामित्यर्थः । *लौकिक
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy