SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २०८ दर्पणपरीक्षासहिते भूषणसारेकत्वात् स एव शक्तिरस्तु । स एवाधुनिके पित्रादेर्गवादौ चेश्वरस्य दर्पणः त्वादिति । अवश्याऽपेक्षणीयज्ञानविषयत्वादित्यर्थः । *स एव* । सङ्केत एव परीक्षा योग्यताज्ञानसमुच्चयः । *तथा च*-सङ्केतज्ञानस्य हेतुत्वसिद्धौ च । *स एव*सङ्केत एव । सङ्केतश्चास्माच्छदादयमों बोद्धव्यः, इत्याकारिकेच्छारूपोऽर्थविशेज्यक इदं पर्द-इदमर्थ बोधयत्विति पदविशेष्यकेच्छारूपो वा विनिगमनाविरहात्। अत एव-अर्थबोधकं पदं वाचकमिति व्यवहारः, यद्यर्थबोधकत्वमेव वाचकत्वम्, तदा दण्डवान् दण्डवानित्यादिवदयमपि व्यवहार उद्देश्यतावच्छेदकविधेयतावच्छेदकयोरेकत्वान्न स्यात् । तत्रायं विशेषः-ऐश्वरसकेतः शक्तिराधुनिकः शास्त्रकारादि. सङ्केतः परिभाषेति। ऐश्वरसङ्केतेनार्थबोधकं पदं वाचकम् । यथा-घटपटादिपदम् । परिभाषयाऽर्थबोधकं पारिभाषिकम् । यथा-वृद्धिगुणादिपदम् । यत्र तु न द्विविधोऽपि सङ्केतोऽथ च यत्पदमर्थविशेषस्य बोधकं भवतिः तल्लाक्षणिकमुच्यते । लक्षणा च सक्यसम्बन्धरूपा । तत्र शक्यार्थस्य सादृश्यातिरिक्तः सम्बन्धो यत्रास्ति सोऽर्थो लक्ष्य इति व्यवहारस्य विषयः, सादृश्यात्मकसम्बन्धरूपा तु लक्षणा गौणीत्युच्यते । मुख्यार्थबाधपुरस्सरं तात्पर्यविशेषावगतिलक्षणाबीजम् । यथा-गङ्गायां घोष इत्यत्र । अत्रादौ गङ्गापदवाच्यस्य प्रवाहस्योपस्थितिस्तत्र घोषाभावग्रहे, इदं गङ्गापदं घोषाभाववत् , प्रवाहार्थकमिति ग्रहेर्वत्ते, इदं पदं तीरतात्पर्यकं घोषान्वय्यर्थबोधकत्वप्रकारकैतत्कालिकसाभिप्रायविषयत्वादित्यनुमानेन तात्पर्यविशेषावगमे तीरे घोष इत्याकारकः शाब्दबोधः, ततोऽयं शाब्दबोधस्तीरस्मृति विनाऽनुपपन्नस्तीरस्मृतिश्च गङ्गापदस्य तत्र वृत्ति विना नोपपद्यत इति तस्य पदस्य तत्र वृत्तिरस्तीति कल्पयति । तत्र शक्तिरूपावृत्तिस्तीरे शक्तिग्राहककोशाधभावादनुपपन्नेति लक्षणारूपास्तीति रीत्योहनीया। ननु प्रागुक्ता याऽस्माच्छब्दादयमर्थो बोद्धव्य इत्याकारेच्छारूपाs. भिधा तस्याः शक्तित्वं न युक्तम्, ईश्वरेच्छाया एकत्वेन सा यथा घटपदाद् घटो बोद्धव्य इत्याकारा तथा पटपदात्पटो बोद्धव्य इत्याकारिकाऽपि । एवं च घटस्य घटपदवाच्यत्ववत् पटस्यापि घटपदवाच्यत्वापत्तिः । यदि चेश्वरेच्छाया एकत्वेऽपि घटपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपिता या तादृशेच्छीया विषयताः सा तु घट इति न पटस्य वाच्यत्वापत्तिरित्युच्यते, तथापि--तस्या इच्छायास्तन्मात्रविषयकत्वेन गङ्गापदात्तीरबोधस्य लोके जायमानत्वेन गङ्गापदात्तीरं बोद्धव्यमित्याकारकत्वमपि तस्या सम्भाव्यते गङ्गापदबोधजन्यबोधविषयत्वप्रकारतानिरूपितविषयतायास्तीरेऽपि सत्वा. त्तीरस्य गङ्गापदवाच्यत्वापत्तिरिति चेद् ? न । गङ्गापदं तीरवाचकमिति, तीरं गङ्गाप दवाच्यमिति वा व्यवहारो लोके न दृश्यत इत्यतस्तीरनिष्ठविषयताया गङ्गापदजन्यबोधविषयत्वप्रकारतायाश्च परस्परं निरूप्यनिरूपकभावस्योक्तरीत्या सत्वेऽपि ताहशविशेष्यतानिरूपकताया गङ्गापदजन्यबोधविषयत्वनिष्टप्रकारतायां सा शुद्धविषयता. त्वावच्छिन्ना, नतु गङ्गापदजन्यबोधविषयतात्वावच्छिन्नेति तत्तत्पदजन्यबोधविषयता. त्वावच्छिन्नप्रकारतानिष्ठनिरूपकताकविशेष्यतासम्बन्धेन तत्तदर्थे वर्तमाना या ईश्वरेच्छा सा शक्तिरित्यभ्युपगमात् । अत एव गङ्गापदजन्यबोधविषयस्तीरं जायतामि
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy