________________
२७७
. शक्तिनिर्णयः। इन्द्रियाणां चक्षुरादीनां स्वविषयेषु-चाक्षुषेषु घटादिषु यथाऽनादिर्योग्यता-तदीयचाक्षुषादिकारणता, तथा शब्दानामपि अर्थः सह तद्बोधकारणतैव योग्यता, सैव.शक्तिरित्यर्थः । ___ ननु न बोधकारणत्वमनादिभूतं शक्तिः । आधुनिकदेवदत्तादिपदे तदभावात् । अन्यथा पित्रादिसङ्कताज्ञानेऽप्यन्वयबोधप्रसङ्गो, लाक्षणिकातिव्याप्तेश्चेति सङ्केतज्ञानमपि हेतुर्वाच्यम् । तथाचावश्य
दर्पणः वाच्यत्वं यथा न समवायि तथा वक्ष्यत इति वदता दीधितिकृतापि तन्मतमेवानुसृतम् ।
तदेतन्नानामतानि निराकर्तुमादौ तत्स्वरूपप्रदर्शनमित्याशयेन मूलमवतारयति*तस्याः स्वरूपमिति*। *तस्याः*-शक्तेः। निर्विषयाणां तेषां कथं घटादिर्विष. योऽत आह-*चाक्षुषेति । तथाचौपचारिकविषयत्वं न विरुद्धमिति भावः। चाक्षु- । षपदं त्वाचादिप्रत्यक्षस्याऽप्युपलक्षणम् । इन्द्रियनिष्ठचाक्षुषादिकारणतायामनादित्वम् । इन्द्रियजन्यपूर्वपूर्वबोधध्वंसकालिकत्वं, न त्वजन्यत्वमव्यावर्तकत्वात् । शब्दनिष्टबोधकारणतायां तु स्वजन्यबोधसमानाकारपूर्वपूर्वबोधध्वंसवत्वम् । तद्बोधकारणता* । अर्थबोधकत्वम् ।
ज्ञायमानं पदं कारणमभिप्रेत्येदम् । अन्यथा विषयतायां तादृशहेतुताऽवच्छेदकतेत्यर्थो बोध्यः। सङ्केतज्ञान विनोक्तशक्तिग्रहाऽसम्भवेनावश्यापेक्षणीयतया तस्यैव शक्तित्वमस्तु, "तद्धेतोरेव” इति न्यायात् इत्याशइते-*नन्विति । तस्याऽशक्तित्वे हेतुराधुनिकेत्यादि । *आधुनिके*-एतत्कालिकसकेतविशिष्टे । *तदभावात् । निरुक्तानादित्वविशेषणविशिष्टबोधकारणत्वाभावादित्यर्थः । विशेष्यसत्वेऽपि प्रकृते वि. शेषणाभावप्रयुक्तविशिष्टाभावसत्वेन तदप्रतियोगित्वरूपकारणत्वं न सम्भवतीत्यर्थः । _ नन्वनादिभूतमितिप्रसिद्धिप्रदर्शनमात्रार्थक, नतु तच्छक्तिशरीरे प्रविष्टम् । येन तद्रूपेण तस्य हेतुता सम्भाव्येत; किन्तु बोधकारणवत्वेनैव । प्रकृते तेन रूपेण तज्ज्ञाने बाधकाभाव इति चेद्, स्यादेवम् । यदि सङ्केतग्रहमन्तरेणैव तद्ग्रहो भवेन्न तु तत् सम्भवतीत्याह-*अन्यथेति* । सङ्केतनिरपेक्षस्यैव तस्य शाब्दबोधहेतुत्वे इत्यर्थः । *लाक्षणिकेति । तत्राप्यनादिभूतबोधजनकत्वव्यवहारादिति भावः। *आवश्यक
परीक्षा न्यज्ञानस्यार्थविषयकत्वेन कार्यधर्मस्य कारणे आरोपात् । यथा शब्देषु वाच्यार्थविषयकत्वव्यवहारस्तद्वत् योग्यतां विवृणोति-*तदीयेति । ' एवं च शब्दार्थयोः सम्बन्धयोग्यता, सा च तचच्छब्दनिष्ठा तत्तच्छब्दार्थविषयकशाब्दबोधकारणतारूपा, तस्याञ्चानादित्वविशेषणं कारिकायामुपात्तम् । अनादित्वं च-प्रागभावाप्रतियोगित्वम्, तन्न युक्तमित्याशयेन शङ्कते-*नन्विति । *तद. भावात्*-अनादित्वविशिष्टबोधकारणत्वस्य तन्मते-पदानां सत्वेऽपि विशेषणाभावप्रयोज्यविशिष्टाभावात्। *अन्यथा*-अनादित्वविशिष्टबोधकारणत्वस्वीकारे । *अतिव्याप्तेश्चेति । तेभ्योऽपि लक्ष्यार्थविषयकशाब्दबोधस्य जननेन लक्ष्याविषयकबोधकारणतायास्तेषु दर्शनादिति शेषः । *सङ्केतज्ञानमपीति । अपिना पूर्वोक्त