SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - र्थबोधजनकत्वग्रहवतामेव वोधोदयेन व्यभिचारात् । नचार्थधीजनकतावच्छेदकत्वेन तज्ज्ञानं तथा 1 ततोऽपि लाघवेनार्थधीजनकतात्वेनैव हेतुतायामस्मत्पक्ष सिद्धेः । न चाधुनिकदेवदत्तादौ सङ्केतज्ञानादेव बोधेनास्य व्यभिचारः । तत्रापि " इदम्प 1 २८० दर्पणः पामराणामिति यावत् । मीमांसकानां चेत्यर्थः । *बोधोदयेनेति । सङ्केतत्वेन तज्ज्ञानमात्राद् गवाद्यर्थबोधोदयेनेत्यर्थः । यद्यपि सङ्केतत्वेन सङ्केतज्ञानकारणतावादिमते नेश्वरीयत्वादेर्निवेशः, तथापि गवादावीश्वरस्येति तद्ग्रन्थालोचनयेश्वरोयत्वादेर्निवेशस्तदभिमत इत्यभिप्रेत्य दूषितमिति ध्येयम् । *तत्तदर्थधी जनकग्रहवतामेव* - इत्येवकारेण निरुक्तसङ्केतज्ञानवत्वव्यवच्छेदः। स च तज्ज्ञानशून्यानामित्यस्यैवानुवादः । एवशून्यपाठस्तु सुगमः । इदञ्च शक्तिग्रहरूपकारणप्रदर्शकम् । तज्ज्ज्ञानम् -- सङ्केतज्ञानम् । *तथा* । हेतुः । *ततोऽपीति* । अर्थधी जनकता निरूपितविषयतासम्बन्धाऽवच्छिन्नाऽवच्छेदकत्वस्यावच्छेदकत्वाऽपेक्षयाऽर्थधीजनकतात्वेन हेतुताया औचित्येन वैयाकरणेष्टसिद्धिरित्यर्थः । सङ्केतज्ञानस्येदं पदमर्थधी जनकतावच्छेदकतावदित्याकारकस्याऽर्थधीजनकतावच्छेदकत्वाऽवच्छिन्न प्रकारताकज्ञानत्वेन हेतुत्वे गौरवात्-इदं पदमर्थधीजनक - मिति ज्ञानस्यैवार्थधी जनकतात्वावच्छिन्नप्रकारताकज्ञानत्वेन हेतुत्वमुचितं लाघवादिति भावः । वस्तुतस्तु - तन्मते सङ्केतत्वेनैव हेतुतेति नोक्तविकल्पाऽवसर इति बोध्यम् । सङ्केतज्ञानादेवेत्येवेनाऽर्थधीजनकत्वग्रहव्युदासः । *अस्य* – - बोधकत्वग्रहस्य | *व्यभि परीक्षा मीमांसकादीनामिति । लौकिकानां मीमांसकादीनां चेत्यर्थः । लौकिकाः पामरा व्यावहारिक पदार्थमात्रज्ञानवन्तः । मीमांसकास्तु-नैतादृशास्तेषां वैदिकपदार्थज्ञानस्य सत्वात् । आदिपदेन नास्तिकपरिग्रहः । बोधोदयेन । पदविशेष्यकं पदार्थबोधजनकत्वज्ञानं तस्माद् बोधेन । *व्यभिचारादिति । तत्तदर्थविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति तत्तदर्थनिरूपितेश्वर सङ्केतत्वावच्छिन्न शक्तिज्ञानत्वेन कारणतायां व्यभिचारादित्यर्थः । अत्रैवकाररहितः पाठो युक्तः । 1 यदुक्तं प्राक् विशेषरूपेणेति, तत्र विशेषरूपं नैश्वरसङ्केतत्वम्, किन्तु वत्तदर्थविषयक बोधजनकतावच्छेदकत्वमेव विवक्षितमिति । तटस्थ शङ्कां निराचष्टे*न चेति* । तादृशसङ्केतविशेष्यकं यत्तदर्थविषयकशाब्दबुद्धित्वावच्छिन्नजन्यता न निरूपितज्ञाननिष्ठजनकतानिरूपितविषयतासम्बन्धावच्छिन्नावच्छेदकत्वप्रकारकं ज्ञानं तस्य हेतुत्वमिति, तन्मतं दूषयति - ततोऽपीति । उक्तधर्मादपीत्यर्थः । तत्पदविशेष्यकतत्तदर्थविषयकबोधजनकत्वतत्प्रकारकज्ञानत्वेन कारणतायां कारणतावच्छेदकस्य लाघवमित्यर्थः । ननु सङ्केते ईश्वरीयत्वमनुपाद्यन्तदेव सङ्केतत्वेन सङ्केतस्य ज्ञानं बोधस्य हेतुरिति प्रागुक्तमिति न भवदुक्तो दोष इत्याशङ्कां निराकरोति न चाधुनिकेति । व्यभिचारः - पदविशेष्यकतत्तदर्थविषयक बोधजनकत्वप्रकारकज्ञानत्वेन कारणतायां व्यभिचारः । सचायं व्यभिचारो व्यतिरेके बोध्यः ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy