SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २८१ शक्तिनिर्णयः ।। दमेनमर्थ बोधयतु” इतीच्छाग्रहे पदे तदर्थबोधकत्वस्याऽवगाहनेन व्यभिचाराभावात् । न च स्वातन्त्र्येणार्थबोधकताज्ञानं कारणं वाच्यम्। अन्यथा 'नेदं तद्धीजनकम् इतिज्ञानवतोऽस्माच्छब्दादयमर्थो बुद्धोऽनेनेतिजानत दर्पणः चारो*-व्यतिरेकः ॥ *तत्रापि*। संकेतमात्रादर्थबोधस्थलेऽपीत्यर्थः ॥ *इच्छाग्रह इति ॥ इदम्पदविशेष्यकैतदर्थबोधकत्वप्रकारकेच्छाग्रहे इत्यर्थः ॥ *अवगाहनेनेति* ॥ विषयीकरणेनेत्यर्थः । ज्ञानेच्छादिविषयकज्ञानस्य तद्विषयकत्वनियमादिति भावः। *स्वातन्त्र्येणेति । इतराविशेषणत्वेनेत्यर्थः । प्रकृते चेच्छांऽशे विषयितया विशेषणीभूतबोधकत्वस्यैव तज्ज्ञानेन विषयीकरणादिति भावः । ___*अन्यथेति । पारतन्त्र्येणाऽपि बोधकताज्ञानस्य शाब्दधीहेतुत्व इत्यर्थः । इष्टापत्तिनिरासायाह-*नेदं तद्धीजनकमितीति । *अस्माच्छब्दादिति । एतच्छब्दजन्यतदाशयकबोधविषयोऽयमर्थ इत्याकारकवर्तमानग्रहवत इत्यर्थः । पदविशेष्यकाथंधीजनकत्वबोधग्रहे विद्यमाने तदंशेऽर्थधीजनकत्वावगाहिन इदं पदमेतदर्थधीजनकत्वेन बुद्धमनेनेतिग्रहस्यासम्भवात्तदपहायास्मादित्याकारकबोधग्रह उक्तः। एतस्मिस्तु न परीक्षा व्यभिचारमुद्धरति-*तत्रापीति । तादृशसङ्केतज्ञानेऽपीत्यर्थः । *इच्छाग्रहे*-इच्छा. रूपो यः सङ्केतस्तस्य ग्रहे । *तदर्थबोधकत्वस्येति । विशेषणतयेति शेषः । अवगाहा. वगाहनं विषयीकरणम् । ज्ञानेच्छादिविषयकं यज्ज्ञानं तस्य ज्ञानेच्छा विषयविषयकत्वमावश्यकमिति देवदत्तपदमत्र सङ्केतितमिति यो ग्रहस्तस्येच्छारूपे सङ्केतविषयतया तादृशेच्छाविषयतदर्थबोधजनकत्वसङ्केतग्रहविषयत्वादिति भावः। नन्वितराविशेषणत्वरूपस्वातन्त्र्येण तदर्थबोधजनकत्वस्य ज्ञानं तदर्थविषयकशाब्दबोधे हेतुरित्युच्यते । प्रकृते तु तदर्थबोधजनकत्वविषयितयेच्छांशे विशेषणतापन्न सत्तादृशेच्छाविषयकज्ञानविषयमिति न स्वातन्त्र्येण तज्ज्ञानमिति व्यभिचारोऽस्त्येवेत्यभिप्रायिकामाशङ्कामपनुदति-*न च स्वातन्त्र्येणेति । *अन्यथा*-इतरविषत्वानुपादाने। "वयस्यानागरा सङ्गादङ्गानां हन्ति वेदनाम् इति वाक्यं चैत्रेण वयस्या पदं हरितकी नागरपदं शुण्ठी बोधयत्विति तात्पर्येणोच्चारितम् , ततो मैत्रेण वयस्या तरुणीः नागरस्य नागरिकस्य सङ्गादङ्गानामित्यर्थो ज्ञातस्ततः स्वीयतादृशबोधस्य प्रकारतामेवंविधशब्दप्रयोगस्तेन कृतः । तं श्रुत्वा यज्ञेश्वरस्यापि मैत्रीयवाक्यजन्यशाब्दबोधानन्तरं नेदं वाक्यं तादृशार्थबोधजनकं परन्त्वनेनायमों बुद्ध इति ग्रहो जायते, तन्त्र यज्ञेश्वरस्यापि मैत्रीयशाब्दबोधसमानाकारशाब्दबोधापत्तिः। यज्ञेश्वरीयज्ञान ज्ञानस्यापिस्वविषयकज्ञानविषयसमानविषयकत्वेनास्माच्छब्दादयमों बद्ध इति ग्रह स्यार्थीशे तच्छब्दजन्यबोधविषयत्वप्रकारकत्वे तुल्यवित्तिविषयतया पदांशे एतदर्थविषयकबोधजनकत्वप्रकारकत्वादिति भावः। नेदं वयस्यापदं तरूणीबोधकम् , नागरपर्द च न नागरिकबोधजनकमिति ग्रहस्य यज्ञेश्वरीयस्य प्रतिबन्धकत्वान्न वयस्यानागरपदयोस्तरुणीनागरिकविषयकबोधजनकत्वावगाही तुल्यवित्तिवेद्यतयापि ग्रहो भवितमहतीत्याशयेन दूषयति- नेदमिति । ३६८०प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy