SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २८२ दर्पणपरीक्षासहिते भूषणसारे - स्तदुग्रहापत्तेरिति वाच्यम् । नेदं तद्धीजनकमितिग्रहवतो बाधेन पदे परग्रहं जानतोऽपि तद्ग्रहासम्भवात् । अन्यथा भ्रान्तिज्ञस्यापि भ्रान्तत्वापत्तेरिति । दर्पणः तस्य प्रतिबन्धकता, ग्राह्याभावानवगाहित्वादिति भावः । *तद्ग्रहापत्तेरिति* । घटादिशाब्दबोधापत्तेरित्यर्थः । उक्तज्ञानस्य विषयविषयकत्वेऽपि न तेन पदांशेऽर्थबोधकत्वं विषयीक्रियते; येन तस्य शक्तिग्रहत्वं स्यात् । किन्तु बोधांशे तत्पदजन्यत्वमर्थाशे तादृशबोधविषयत्वमेव तथा । तेन तुल्यवित्तिवेद्यतया पदांशेऽर्थबोधकत्वमप्यवगाह्यत इति तु दुर्वचम् । तुल्यवित्तिषेद्यत्वे मानाभावात् । तत्प्रतिबन्धकस्य ग्राह्याभावावगाहिनो नेदं तद्वीजनकमिति ज्ञानस्य जागरूकत्वाच्च । न च पदनिष्ठार्थधीजनकत्ववदर्थनिष्ठपदजन्यबोधविषयत्वमपि शक्तिर्विनिगमनाविरहादुभयविधज्ञानाच्छाब्दबोधस्य सर्वानुभवसिद्धत्वाच्च कार्य्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशाच्च, न परस्परजन्यशाब्दबोधे व्यभिचारः । एवञ्च द्वितीयशक्तिग्रहरूपात् तस्माच्छाब्दबोधापत्तिः सुकरेति वाच्यम् । तथा सति नेदमर्थधीजनकमिति ग्राह्याभावानवगाहिनोऽप्रतिबन्धकग्रहस्योपन्यासवैयर्थ्यात् । ग्राह्याभावानवगाहित्वेऽप्युभयविधशक्तिं प्रत्यन्वयव्यतिरेकाभ्यां प्रतिबन्धकत्वोपगमेन तदुपन्यासस्य सार्थक्यसम्पादने तूक्तज्ञानस्याऽसम्भव एवेत्याशयेन दूषयति-नेदं तद्धीजनकमिति । *बाधेन* । अप्रामाण्यज्ञानानास्कन्दितनिरुक्तनिर्णयात्मक प्रतिबन्धकसद्भावेनेत्यर्थः । तद्ग्रहासम्भवात् । अर्थविशेष्यकपदजन्यबोधविषयत्वग्रहासम्भवादित्यर्थः । *अन्यथेति । बाग्रहेऽपि जायमानस्य रजतं बुद्धमनेनेति ग्रहस्य, इदं विशेष्यकरजतप्रकारकग्रहत्वे । भ्रान्तिज्ञस्येत्यनेन दोषाऽभाववत्वमपि सूच्यते । भ्रान्तत्वापत्तेरिति । तदभाववति परीक्षा *पदे* - - वयस्यापदे नागरपदे च । * तद्ग्रहासम्भवात् -- तरुणी नागरिक विषयकबोधजनकत्वग्रहासम्भवात् । किन्तु बोधांशे वयस्यापदजन्यत्वप्रकारकत्वावगाही अर्थविशेष्यकत्वतादृशबोधविषयत्वप्रकारकत्वावगाही च बोधो भवतीति शेषः । अन्यथा स्वातन्त्र्येण बोधांशे तत्तद्विषयकत्वप्रकारकत्वविषयत्वस्य ज्ञानेsस्वीकारो भ्रान्तिज्ञस्य । चैत्रस्य रङ्गे रजतत्वावगाहिज्ञाने जाते तदीयचेष्टादितज्ज्ञानानुमित्युत्पत्तिर्मेत्रस्य जायते ; अयं रङ्ग रजतं जानातीति । अथ नेदं रजतमिति तु ग्रहस्तस्य मैत्रस्यास्ति स मैत्रो भ्रान्तिज्ञो भवति । यथा चैत्रीयं ज्ञानं रङ्गे रजतत्वप्रकारकम्, तथा मैत्रीयज्ञानमपि यदि रङ्गे रजतत्वप्रकारकं तदा भ्रान्तिज्ञो मैत्रो भ्रान्तः स्यात् । किन्तु भ्रान्त्यंशे रजतविशेष्यकरजतत्वप्रकारकत्वमित्याकारकं रजकत्वावगाही ज्ञानवानेव भवतीति बोध्यम् । तथा च स्वातन्त्र्यनिवेशनं निष्फलमिति भावः । ननु पदविशेष्यकार्थधीजनकत्वप्रकारकज्ञानस्य पदार्थोपस्थिति प्रति कारणत्वस्वीकारे तुल्यन्न्यायेनायमर्थ एतच्छब्दजन्यबोधविषय इति ग्रहोऽपि हेतुः स्यात् । तथा च तद्विषयस्य तत्तत्पदजन्यबोधविषयत्वस्यापि शक्तित्वं स्यात् । न चेष्टापत्तिः । एकज्ञानजन्यपदार्थोपस्थितेः पूर्वमुपन्यस्यान्यत्वाद्वय भिचारापत्तेरिति चेद्र ? न तुल्यवित्तिवेद्यतया यत्पदांशेऽर्थबोधजनकत्वस्य ज्ञानं तस्यार्थाशे पदजन्यबो
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy