SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ शक्तिनिर्णयः। - २८३ इदञ्चार्थधीजनकत्वं पित्रादिसङ्केतशानादेव गृह्यते । अतस्तज्ज्ञानात् पूवं न बोधः। नाऽपि लाक्षणिकोच्छेदापत्तिः, इष्टत्वात् । शक्तिग्राहकव्यवहारस्य मुख्यलक्ष्यसाधारण्यात् । किञ्च प्रत्यक्षादिजन्योपस्थितेः शाब्दबोधाऽनङ्गत्वाच्छाब्दबोधं प्रति शक्तिजन्योपस्थितेलक्षणाजन्योपस्थितेश्च कारणत्वं वाच्यम् । तथाच कार्यकारणभावद्वयस्य कल्पने गौरवं स्यात् । अस्माकं पुनः शक्तिजन्योपस्थितित्वेनैव हेतुतेति लाघवम् । दर्पणः तदवगाहिज्ञानवत एव तत्वादिति भावः। ___ अनेदं चिन्त्यम्-यत्रेदं पदमेतदर्थ बोधयत्विति सङ्केतमात्राच्छाब्दबोधस्तत्र बोध. कताशक्तिज्ञानस्य हेतुतावादिमते व्यभिचारो दुरुद्धर एव । नच तत्र सङ्केतज्ञानमेव बोधकताज्ञानमित्युक्तमेवेति वाच्यम् । सविषयकज्ञानस्य तद्विषयविषयकत्वेऽपि तद्विशेष्यांऽशे तत्प्रकारो न तेन विषयीक्रियते । 'घटमहं जानामिइत्यनुव्यवसायेन ज्ञानांऽशे घटत्वप्रकारकत्वघटविशेष्यकत्वयोरेव विषयीकरणात् । अन्यथाऽभ्रान्तस्य भ्रान्तत्वापत्तिरनिवाय्यव स्यात् । ___ अत एव शाब्दचिन्तामणौ तात्पर्यविषयसंसर्गज्ञानपूर्वकत्वस्य पदपक्षकाऽनुमानेन सिद्धावपि नेतरपदार्थेऽभिमतापरपदार्थसंसर्गसिद्धिस्तादृशसंसर्गज्ञानपूर्वकत्वानुमा. नेन तत्पदार्थतात्पर्य्यविषयसंसर्गस्याविषयीकरणादित्यस्वरसात् पदार्थपक्षकानुमानमवतारितं पक्षधरमिरिति । शक्तिग्राहकमाह-*इदञ्चेति । शक्तित्वेनाऽभ्युपेतं बोधकत्वं चेत्यर्थः । पित्रादी. त्यादिनाऽप्तपरिग्रहः । पूर्वोक्तां लाक्षणिकोच्छेदापत्तिमिष्टत्वेन परिहरति-*नाऽपीति*। *शक्तिग्राहकेति* । शक्य इव शक्तिग्राहकव्यवहारादेर्लक्ष्येऽपि तुल्यत्वादित्यर्थः । __ ननु शक्यलक्ष्यव्यवहारानुपपत्त्या लक्ष्यव्यावृत्तैव सा वाच्या। तथाच-लक्ष्योपस्थितये लक्षणावृत्तेरावश्यकत्वेन कथमुक्तापत्तेरिष्टत्वमत आह-किञ्चति । *शाब्दबो परीक्षा धविषयत्वावगाहित्वस्यापि सम्भवात् । ___ यदि च तुल्यवित्तिवेद्यत्वे मानाभाव इत्युच्यते, तदा स्वसामानाधिकरण्य स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वोभयसम्बन्धेन तत्तज्ज्ञानवैशिष्टयस्य कार्यतावच्छेदके निवेशान्न व्यभिचारः। तत्वर्थधीजनकत्वं यदि शक्तिस्तस्याश्च शब्दश्रवणमात्रेण ग्रहः, तदा बालविशेषस्यागृहीतसकेताच्च क्रपाणीपदादपि बोधापत्तिरत आह-*इद. ज्चेति* । पूर्वोक्तां लाक्षणिकोच्छेदापत्तिमिष्टापत्या परिहरति-नापीति* । *साधारणत्वादिति । यथा शक्तेर्घटत्वादिपदे इर्द घटपदं घटबोधजनकमिति ग्रहो व्यवहारादिना भविष्यतीति भावः।। __ लक्षणाया वृत्यन्तरत्ववादिमते दूषणमाह-किञ्चेति । *शक्तिजन्य इति । शक्तिज्ञानजन्य इत्यर्थः । एवं च लक्षणाजन्य इत्यस्याप्यर्थः। नत्वगत्यागौरवं सहाते
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy