SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - अपिच लक्षणावृत्तिस्वीकारे कार्यकारणभावस्य प्रत्येकं व्यभि चारः । शक्तिजन्योपस्थिति विनापि लक्षणाजन्योपस्थितितः शाब्दबोधात् । न चाव्यवहितोत्तरत्वसम्बन्धेन तत्तदुपस्थितिमत्त्वं कार्य्यतावच्छेदकम् । तत्तदुपस्थितित्वञ्च कारणतावच्छेदकम् । अनन्तकार्य्यकारणभावप्रसङ्गात् । किञ्च पदार्थोपस्थिति प्रत्यपि शक्तिज्ञानत्वेन लक्षणाज्ञानत्वेन च हेतुतेति व्यभिचारो गौरवञ्च प्राग्वदेव द्रष्टव्यम् । न चेदं पदमेतदर्थबोधकमिति शक्तिज्ञानेन कार्यकारणभावकल्प दर्पण: धानङ्गत्वादिति । घटादिपदेऽगृहीतशक्तिकस्य प्रत्यक्षाद्युपस्थितघटादेर्घटादिपदाच्छाब्दबोधानुदयादन्वयव्यभिचारेण प्रत्यक्षाद्युपस्थितेः शाब्दबोधाजनकत्वादित्यर्थः । 1 1 नवनायत्त्या तादृशगौरवं सोढव्यमत आह—* -* अपिचेति । व्यभिचारो व्यक्तिरेके बोध्यः । तमेवोपपादयति-शक्तिजन्योपस्थितिमिति । अव्यवहितोत्तरत्वेति* । तच्च स्वध्वंसाधिकरणक्षणानुत्पत्तिकत्वे सति स्वाधिकरणक्षणध्वंसाऽधिकरणक्षणोत्पत्तिकत्वम् । अत्र स्वपदं शक्तिज्ञानजन्योपस्थितिपरम् । लक्षणाज्ञानजन्यपदार्थीपस्थितिप्राग्वर्त्तिशक्तिज्ञानजन्यपदार्थोपस्थितिजन्यशाब्दबोधे व्यभिचारवारणाय विशेव्यम् । शक्यशाब्दबोधानन्तरभाविलक्षणाज्ञानजन्योपस्थितिजन्यशाब्दबोधे व्यभि चारवारणाय सत्यन्तम् । प्रकृते लक्षणाज्ञानजन्योपस्थितिजन्यशाब्दबोधे उक्तसम्बन्धेन शक्तिज्ञानजन्योपस्थितिवैशिष्ट्याऽभावेन तत्कार्य्यतावच्छेदकाक्रान्तत्वान्न व्यभिचार इति भावः । *अनन्तेति* । स्वत्वस्य तत्तद्व्यक्तिविश्रान्तत्वेनाननुगततया तद्द्घटिताव्यवहितोत्तरत्वसम्बन्धेनोपस्थितिमत्त्वस्य कार्य्यतावच्छेदककोटौ निवेशे कार्यकारणभावानन्त्यमिति भावः । न्यायसाम्यादाह - * किञ्चेति । *प्राग्वदेवेति । शक्तिज्ञानं विनाऽपि लक्षणाज्ञानात् पदार्थोपस्थितेरेवं लक्षणाज्ञानं विनाऽपि शक्तिज्ञानात्पदार्थोपस्थितेस्तयोरुपस्थितिहेतुतायां परस्परं व्यभिचारः । अव्यवहितोत्तरत्वसम्बन्धेन तत्कारणवैशिष्ट्यस्य कार्य्यताऽवच्छेदककोटौ निवेशे च गौरवं तद्वदेवेत्यर्थः । ननु बोधकत्वशक्तिवादिनोऽपि गङ्गापदं प्रवाहबोधकमिति शक्तिग्रहालक्ष्यार्थोप· · स्थितिशाब्दबाधयोरापत्तिवारणाय कारणतावच्छेदककुक्षौ तत्तदर्थनिवेश आवश्यकः । परीक्षा २८४ इत्यत आह-*अपि चेति । तं व्यभिचारमेवाह--*शक्तिजन्य इत्यादिना । अव्यवहितोत्तरत्वेति । सामानाधिकरण्यस्याप्युपलक्षणमिदम् । एवं च स्वसामानाधिकरण्यस्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वोभयसम्बन्धेन शक्तिजन्योपस्थितिविषयेष्टशाब्दबुद्धिं प्रति शक्तिज्ञानजन्योपस्थितिः कारणमिति रीत्या कार्यकारणभावः सम्पन्नः। एवं लक्षणाज्ञानस्थलेऽपि । प्रसङ्गादिति । स्वत्त्वस्य तत्तद्व्यक्तिविश्रान्ततया अनन्तकार्यकारणभावप्रसङ्गादित्यर्थः । गौरवान्तरमाह -- *किञ्चेति । लक्षणाया वृत्यन्तरत्वमते गौरवाच्छङ्कां तुल्यत्वप्रदर्शनेन निराचष्टे -*न चेदं पदमिति । *
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy