________________
शक्तिनिर्णयः।
२८५ नेऽपि पदतत्तदर्थभेदेनानेककार्यकारणभावकल्पने गौरवं तवापि समानम् । परस्परव्यभिचारवारणायाव्यवहितोत्तरत्वघटितत्वे च सुतरामिति वाच्यम् । शक्तिभ्रमानुरोधेन तत्तत्पदतत्तदर्थभेदेन कार्यकारणभावानन्त्यस्य तवापि साम्यात्। लक्षणाकार्यकारणभावकल्पनागोरवं परंतवातिरिच्यते ।। ___ अथ वृत्तिजन्योपस्थितित्वेनैव शाब्दबोधहेतुता, वृत्तिज्ञानत्वेन च पदार्थोपस्थितिकारणतेत्येवं मया वाच्यमिति चेद् ? न । शक्तिलक्षणान्यतरत्वस्य शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलपदपदार्थसम्ब
दर्पणः तथाच लक्षणावादिमते व गौरवमित्याशङ्कय निराचष्टे-*नचेति । *परस्परेति । गङ्गापदनिष्ठतीरबोधकत्वग्रहं विनाऽपि तीरादिपदनिष्ठतादृशशक्तिग्रहेण तीरबोधात्तयोः परस्परजन्यबोधे व्यभिचारप्रतिरोधायेत्यर्थः। *शक्तिभ्रमानुरोधेने ति* । गङ्गापदस्य तीरे शक्तिभ्रमदशायां तीरोपस्थित्यादेः सर्वमतसिद्धतया तवाऽपि तत्तत्कारणताच्छेदककोटौ तत्तत्पदतत्तदर्थनिवेशस्यावश्यकत्वादित्यर्थः । ___*तवेति । लक्षणास्वीकर्तुरित्यर्थः । शक्तिज्ञानकारणतायां शक्तेश्शक्तित्वेन निवेशे स्यादेवोक्तदोषः। किन्तु वृत्तित्वेनेति न तत्सम्भावनेत्याशङ्कते-*अथेति । *वाच्यमिति । शक्तिजन्योपस्थिताविव लक्षणाजन्योपस्थितावपि शक्तिलक्षणासा. धारणवृत्तित्त्वावच्छिन्नजन्यत्वसत्त्वादिति भावः। *शक्तिलक्षणेति । शक्तिभिन्नत्वे सति लक्षणाभिन्नं यत्तद्भिन्नत्वस्येत्यर्थः । *शाब्दबोधानुकूलेत्यादि । शाब्दबोधज
परीक्षा *पदतदर्थभेदेनेति । गङ्गापदस्य प्रवाहरूपार्थविषयकज्ञानमादायैको गङ्गापदस्यैव तीररूपार्थविषयकज्ञानमादायापर इत्येवं रीत्या भेदेनेत्यर्थः। अन्यथा गङ्गापदं प्रवाहविषयकबोधजनकमिति ग्रहकालेऽपि तीरोपस्थितच्छाब्दबोधयोग्यतापत्तिरिति भावः । *परस्परमेति । प्रवाहोपस्थिति प्रति गङ्गापदं प्रवाहबोधजनकमिति ग्रहस्य कारणत्वे जान्हवीपदं प्रवाहबोधजनकमिति ग्रहाद्यत्र प्रवाहोपस्थितिस्तत्र व्यभिचारः। एवं गङ्गापदं तीरबोधजनकमिति ग्रहाद्यथा तीरोपस्थितिस्तथा तीरे घोष इति वाक्यादपि नीरपदं तीरबोधजनकमिति ग्रहकालेऽपि तीरवृत्ति?ष इति शाब्दबोधो भवतीति तत्रापि परस्परजन्यबोधे व्यभिचारो बोध्यः । *शक्तिभ्रमानुरोधेनेति* । तीरपदं तीरे शक्तमिति ग्रहाद्यथा तीरोपस्थितिः, तथा गङ्गापदं तीरे शक्तमिति भ्रमादपि तीरोपस्थितिर्भवतीति तीरोपस्थिति प्रति गङ्गापदशक्तिज्ञानस्य तीरपदशक्तिज्ञानस्य गङ्गापदलक्षणाज्ञानस्य च कारणतास्तीति तत्राप्यव्यवहितोत्तरत्वस्य निवेशेन मन्मतापेक्षया तवाधिकं गौरवमिति भावः। *तव*-लक्षणास्वीक स्तव ।
गङ्गापदशक्तेः । शक्तित्वेन प्रवेशे शक्तिज्ञानलक्षणाज्ञानमादाय स्यादेव दोषस्तस्य शक्तिलक्षणयोवृत्तित्वेन निवेशेन सम्भव इत्याशइते-*अथेति । *वृत्तिजन्येति । वृत्तिज्ञानजन्येत्यर्थः । *अन्यतरत्वस्येति । व्यञ्जनावृत्यस्वीकर्त्तमताभिप्रायेणेदम् । तत्स्वीकारे तु शक्तिलक्षणाव्यञ्जनान्यतमत्वं निवेश्यम् । अन्यतरत्वान्यतमत्वघटक