________________
२८६
दर्पणपरीक्षासहिते भूषणसारेन्धत्वस्य वा वृत्तित्वस्य कारणतावच्छेदकत्वाच्छक्तित्वमपेक्ष्य गौरवात् । शाब्दबोधहेतुतावच्छेदकस्य पदाऽर्थोपस्थितिहेतुवृत्तेरवाने तद्धटितकार्यकारणभावग्रहस्याप्यसम्भवात् ।
अथ ममापि शक्तिज्ञानत्वेनैव हेतुता, शक्यसम्बन्धज्ञानरूपलक्षणायां शक्तेरपि प्रवेशादितिचेद् ? न । शक्तिज्ञानपदार्थोपस्थित्योः कार्यकारणभावे समानविषयत्वस्यावश्यकत्वात् । अन्यथा गङ्गाती
दर्पणः निका या पदार्थोपस्थितिः पदवृत्तिज्ञानजन्योपस्थितिस्तदनुकूलेत्यर्थः । कारणताऽवच्छेदकत्वे उभयसाधारणं दूषणमाह-*गौरवादिति । अस्मदभिमतशक्तित्वमपेक्ष्य निरुक्तान्यतरत्वादेर्गुरुत्वादित्यर्थः । द्वितीये दूषणान्तरमाह-*शाब्दबोधहेत्विति । शाब्दबोधानुकूलत्वस्य तद्गमकत्वस्य कारणताऽवच्छेदकोपस्थित्यधीनत्वेन तस्य च पदवृत्तिज्ञानजन्योपस्थितित्वात्मकतया तज्ज्ञानस्य स्वघटकवृतित्वज्ञानं विना असम्भवेन कार्यकारणभाव एव दुर्घट इत्यर्थः । तथा च वृत्तित्वग्रहे शाब्दबोधपदार्थोप. स्थित्योः कार्यकारणभावग्रहस्तद्ग्रहे च निरुक्तपदपदार्थसम्बन्धत्वरूपवृत्तित्वग्रह इत्यन्योन्याश्रयेणोक्तस्य वृत्तित्वासम्भव इति भावः।
वस्तुतस्तु विजातीयपदार्थोपस्थितिजनकपदपदार्थयोः सम्बन्धः शक्तिः। वैजा. त्यस्य निवेशाच्च नाकाशोपस्थितिजनकसमवायादावतिव्याप्तिः। तादृशवैजात्यपरिचायकञ्च शाब्दबोधानुकूलेति । न तु तेन रूपेणोपस्थितेनिवेश इत्यन्तिमलक्षणस्यादु. ष्टत्वमिति । *ममापीति* । लक्षणाऽङ्गीकर्तुरपीत्यर्थः । *प्रवेशादिति । तथाच लक्षणाज्ञानस्याऽपि शक्तिज्ञानत्वेन हेतुत्वेन लक्षणाज्ञानजन्यलक्ष्यार्थोपस्थित्यादौ शक्तिज्ञानस्य हेतुतायां व्यभिचार इत्यर्थः। विषयमनिवेश्यैव यदि शक्तिज्ञानपदार्थोपस्थि. त्योः कार्यकारणभावःसम्भवेत् । तदा स्यादप्युक्तप्रकारः । स एव न सम्भवतीत्याह*शक्तिज्ञानेति । *आवश्यकत्वादिति । तदर्थविषयकोपस्थितिं प्रति तदर्थनिरूपित. तत्पदनिष्टशक्तिज्ञानत्वेन हेतुताया अवश्यकल्प्यत्वादित्यर्थः। आवश्यकत्वमेवाह
परीक्षा भेदानां परस्परं विशेष्यविशेषणभावभेदेन नानात्वादाह-शाब्दबोधहेत्विति । कारणतानवच्छेदकत्वे आह-*शक्तित्वेति । द्वितीयपक्षे दूषणान्तरमाह-*शाब्दबोधहेत्विति । पदार्थोपस्थितिवृत्तेरिति धर्मस्येति शेषः। *असम्भवादिति । शाब्दबोधानुकूलत्वस्य तजनकत्वरूपतया जनकत्वस्य जनकतावच्छेधकधर्मघटितत्वेन तस्या ज्ञाने जनकत्वघटितकार्यकारणभावग्रहासम्भवादित्यर्थः। तथा च यदि वृत्तित्वं पदार्थोपस्थितिशाब्दबोधकार्यकारणभावघटिततादृशपदार्थसंसर्गत्वं, तदा कार्यकारणभावग्रहे सति वृत्तिवृत्यन्तरघटितस्य ग्रहः । वृत्तित्वग्रहे सति वृत्तित्वावच्छिन्नवृत्तिघटितकार्यकारणभावग्रह इत्यन्योन्याश्रय इति भावः। ___ *ममापीति । लक्षणाया अपि वृत्तित्ववादिनो ममापीत्यर्थः । *प्रवेशादिति । विशेषणतया प्रवेशादित्यर्थः । • विषयविशेषणमनिवेश्य यदि शक्तिज्ञानपदार्थोपस्थित्योः कार्यकारणभावः सुवचः स्यात्तदा भवदुक्तस्य सम्भवः स्यात्तथा तु नास्तीत्याह-*शक्तिज्ञानेति । *आवश्यकत्वादिति । तद्धर्मावच्छिन्नविषयको