________________
शक्तिनिर्णयः।
२८७
रयोः सम्बन्धाग्रहवतो गङ्गापदशक्तिं जानतोऽपि 'गङ्गायां घोष' इति वाक्यात्तीरबोधप्रसङ्गः । शक्तिज्ञानस्य हेतोः सत्त्वात् ।।
अपि च घटमानयेति वाक्यं हस्तिनश्च स्मरतो घटपदादिभ्यो घटादेर्गजाद्धस्तिपकस्य च समूहालम्बनस्मरणवतो घटानयनवद्धस्तिपकस्यापि शाब्दबोधापत्तिः । समूहालम्बनरूपायां पदार्थोपस्थितौ वृत्तिजन्यत्वसत्वात् ।
तथाच विषयतया शब्दबोधं प्रति तदंशविषयकवृत्तिजन्योपस्थितिहेतुरिति वाच्यम् । एवञ्च लक्षणाया अपि शक्तिज्ञानत्वेन हेतुत्व
दर्पणः *अन्यथेति । शक्तिज्ञानपदार्थोपस्थित्योः कार्यकारणभावे समानविषयकत्वानिवेशे इत्यर्थः । सम्बन्धाग्रहवत इत्युक्त्या लक्षणाज्ञानासत्त्वं बोधितम् ॥ *गङ्गापदेति । प्रवाहरूपाऽर्थनिरूपितबोधकत्वशक्तिं गङ्गापदे जानत इत्यर्थः । *तीरबोधप्रसङ्ग इति। तीरोपस्थितेस्तद्वारकशाब्दबोधस्य चापत्तिरित्यर्थः । ___ ननूक्तापत्तिवारणाय वृत्तिज्ञानजन्योपस्थितिशाब्दबोधयोरेव कार्यकारणभावे समानविषयकत्वं निवेश्यतां, कृतं वृत्तिज्ञानपदार्थोपस्थित्योः कार्यकारणभावेन तन्निवेशेनेत्यत आह-*अपिचेति । हस्तिपकस्मृतेर्वृत्तिज्ञानजन्यत्वसम्पत्तये हस्तिनोऽपि वाक्यीयस्मृतिविषयता दर्शिता। समूहालम्बनेत्यत्रालम्बनपदं विषयपरम् ॥ *वृत्तिजन्योपस्थितिरिति । तद्विषयकत्वावच्छिन्नवृत्तिज्ञाननिष्ठकारणतानिरूपितजन्यतावच्छेदकधर्मावच्छिन्नोपस्थितिरित्यर्थः । उक्तस्थले हस्तिपकोपस्थितेर्वृत्तिज्ञानजन्यत्वेऽपि न तनिष्ठा जन्यता हस्तिपकविषयत्वेनाऽवच्छिद्यते । नापि वृतिज्ञाननिष्ठजनकतायां हस्ती विषयत्वेनावच्छेदको, वृत्तिज्ञाने धर्मित्वेनाभानादिति नोक्तापत्तिः । एवं च वृत्तिज्ञानोपस्थितिशाब्दबोधानां समानविषयकत्वेन हेतुहेतुमद्भावः फलतीति
परीक्षा पस्थिति प्रति तद्धर्मावच्छिन्ननिरूपिततत्तत्पदनिष्ठशक्तिज्ञानत्वेन कारणत्वतेत्येवमय निवेशनीयम् । तथा च नीरत्वावच्छिन्ननिरूपितत्वाप्रवेशे सम्बन्धाग्रहवत इत्यनेन लक्षणेत्यनेन ज्ञानासत्वं प्रदर्शितम् । *शक्तिज्ञानस्य*-गङ्गापदं प्रवाहे शक्तमिति शक्तिज्ञानस्य । ननु वृत्तिज्ञानजन्यपदार्थोपस्थितिशाब्दबोधयोः कार्यकारणभावे समानविषयकत्वं निवेश्यताम् ।। ___ अतः वृत्तिज्ञानपदार्थोपस्थित्योः कार्यकारणभावे समानविषयकत्वे निवेशेनेत्यत आह-*अपि चेति । हस्तिपकस्मृतेर्वृत्तिज्ञानजन्यत्वसम्पत्तये समूहालम्बनात्मकहस्तिस्मृतेर्वाक्यस्मृतिविषयता बोधिता। *वृत्तिजन्यत्वस्य*-वृत्ति. ज्ञानजन्यत्वस्य । एवं च यादृशकार्यकारणभाव आवश्यकस्तं दर्शयति-*तथा. चेति । *विषयतयेति । अनेककार्यतावच्छेदकसम्बन्धो दर्शितः। *वृत्तिजन्येति । वृत्तिज्ञानजन्येत्यर्थः । एवं च विशेष्यतासम्बन्धेन तद्धर्मप्रकारकशाब्दबुद्धिं प्रति तद्धर्मावच्छिन्नविषयत्वावच्छिन्ना वृत्तिज्ञाननिष्ठा कारणता तन्निरूपितकार्यताविशिष्टतद्धर्मप्रकारकोपस्थितिः कारणमिति कार्यकारणभावः फलितः। उक्तस्थले