SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २८८ दर्पणपरीक्षासहिते भूषणसारेमसम्भवदुक्तिकमिति । एतेन शक्तिप्रयोज्यैवोपस्थितिहेतुरिति न लक्षणाज्ञाने कार्यकारणभावान्तरं ममापीति परास्तम् । प्रयोज्यत्वस्यानतिप्रसक्तस्य दुर्वचत्वाच्चेत्यादि विस्तरेण प्रपञ्चितं भूषणे ॥३७॥ दर्पणः भावः। *असम्भवदुक्तिकमिति । लक्षणाज्ञानस्य शक्तिविषयकत्वेऽपि तीरविषयकशक्तिग्रहात्मकत्वस्याभावादितिभावः। __ *एतेनेति । द्विविधवृत्तिज्ञानस्यैकरूपेण हेतुत्वासम्भवेन वक्ष्यमाणदूषणेन वेत्यर्थः । *शक्तिप्रयोज्येति । लक्षणाज्ञानस्य शक्तिज्ञानाऽधीनत्वेन तज्जन्योपस्थितौ शक्तिप्रयोज्यत्वसत्वान्न लक्षणावादिमते हेत्वन्तरकल्पनेत्यर्थः । *अनतिप्रसक्तस्येति । जन्यजन्यत्वस्य लक्षणाज्ञानजन्योपस्थिताविव विशेषणतावच्छेदकप्रकारकनिर्णयविधया शक्तिज्ञानजन्यशक्यवानित्याकारकविशिष्टवैशिष्टयावगाह्यनुव्यवसायात्मकोपस्थितावपि सत्त्वात्तद्विषयस्याऽपि शाब्दबोधापत्तिः। साक्षाज्जन्यत्वस्य तत्स्वरूपत्वे लक्षणाज्ञानजन्योपस्थित्यसङ्ग्रहः । उभयसाधारणस्य तस्य निर्वक्तुमशक्यत्वात् । स्वरूपसम्बन्धस्य तस्योभयसाधारण्यं तु सुतरां सम्भावितमिति भावः। अन्यथा सिद्धिनिरूपकतानवच्छेदकशक्तिज्ञानोत्तरवर्तितावच्छेदकधर्मवत्त्वरूपं शक्तिप्रयोज्यत्वमुभयसाधारणं सुवचमित्यन्ये । अधिकमग्रे वक्ष्यते । परीक्षा हस्तिपकोपस्थितेर्वृत्तिज्ञानजन्यत्वेऽपि उक्तधर्मानाक्रान्तत्वात्तत्तच्छाब्दबोधापत्तिः । *एतेन*-द्विविधवृत्तिज्ञानस्यैकरूपेण हेतुत्वासम्भवेन । *शक्तिप्रयोज्येति * । लक्षणाज्ञानस्य शक्तिग्रहपूर्वकत्वेन तत्प्रयोज्यत्वमव्याहतमिति भावः। *अनतिप्रसक्तस्येति । लक्षणाज्ञानजन्यपदार्थोपस्थितिमात्रनिष्टस्य । प्रयोज्यत्वस्य जन्यजन्यत्वरूपतया तस्य यथा लक्षणाज्ञानजन्योपस्थितिसाधारण्य तथा विषयतावच्छेदकप्र. कारकज्ञानविधया घटो घटपदशक्य इति ज्ञानानन्तरं जायमाने घटपदशक्यवद्भूतलमिति ज्ञानेऽपि सत्त्वादतिप्रसङ्गादिति भावः। एवं च तत्तद्धर्मावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति तत्तद्धर्मावच्छिन्नविषयकबोधजनकत्वप्रकारकज्ञानत्वेन कारणतेत्येतादृशकार्यकारणभावेनैव सामञ्जस्येन लक्षणाया वृत्त्यन्तरत्वमित्याकारको निगूढाभिप्रायः। __वस्तुतस्तु-तत्तद्वोधजनकत्वं तत्तच्छक्तत्वमिति न युक्तम् । एतद्रपशक्ते. आननिष्ठशाब्दबुद्धिकारणतानवच्छेदकत्वात् । स्वस्यावच्छेकत्वे आत्माश्रयात् । किञ्च प्रथम शक्तिग्रहो बालस्य प्रयोज्यप्रयोजकवृद्धव्यवहाराद्भवति । तथाहि-प्रयोजकवृद्धेन प्रयोज्यवृद्धं प्रति घटमानयेत्युक्तं तत्वतस्तस्य तस्माद्वाक्याच्छाब्दबोधे जाते घटमानयति । तत्पार्श्वस्थो बाल इदं घटानयनरूपं कार्य प्रयोज्यनिष्ठशाब्दबुद्धिप्रयोज्यमित्यनुमिनोति । ततोऽयं घटकर्मकानयनमिति बोधः, एतच्छाब्दप्रयोज्य इत्यवधार्य सम्बद्धघटादिशब्दस्य तत्तदर्थविषयकशाब्दबोधजनकत्वमनुपपन्नमित्यन्यथानुपपत्या तेष्वर्थेषु घटादिशब्दानां सम्बन्धं कल्पयतीति तान्त्रिकसरणिः। तत्र बोधजनकत्वानुपपत्या कल्प्यमानसम्बन्धस्य तत्तदर्थबोधजनकत्वरूपत्वेऽनवस्थापत्तिः, शक्तिनिश्चयानुपपत्या कालान्तरे घटोऽस्तीति वाक्याच्छाब्दबोधानुपपतिश्चेति
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy